Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
पतत्सुभटकोटीना, लूनमुण्डाम्बुजावली । नृत्यत्कबन्धनालाढ्याः, केशसेवालसुन्दरा ॥ ३३६ ॥ युग्मम् ॥ भल्लिसेल्लकवावल्ल,-भल्लैः सुभटकोटयः । ध्वजातपत्रशफर,- मच्छिदन राजभूषणम् ॥ ३४ ॥ एतादृक्षे रणे वृत्ते, भग्ने वीरगणेऽभितः । अष्टापद इबोत्तस्थौ, सिंहः शत्रुहरिं प्रति ॥ ३४१ ॥ केषां क्षुरप्रवाणेन, शिरोजान् मुण्डयनहो ? । नासिकाश्रवणादीनि, कर्त्तयन्नुरुविद्विषाम् ॥ ३४२ ॥ मूलादु त्खनयन् दाढा,--दन्तानुत्पाटयन् क्षणात् । सन्नाहांस्त्रोटयन् वीर,-स्वासयंश्च भयद्रुतान् ॥३४३ ॥ परप्रयुक्तबाणौघान्, छेदयन्नन्तरापथि । लुनानः खङ्गमुट्ठीश्च, कोदण्डानां गुणावलीः ॥ ३४४॥ इत्थं प्रतिमन् सकलं, रिपुसैन्यमदीन्य भाक् । बबन्ध भीमभूमीशं, पातयामास पादयोः ॥ ३४५॥ श्वशुरं च रथारूद, चश्चा पुरुषसंनिभम् । आपाशबन्धबद्धं च, कृत्वाऽधार्षीत्तदा नपम् ॥ ३४६ ॥ प्रेक्ष्य प्रतीक्ष्य क्षितिपं, निस्स्यन्दं निश्चलं ततः । राज्ञोऽग्रेऽकथयत्पुत्र--वृत्तान्तं च सुमङ्गला ॥ ३४७ ॥ अथागत्य च सा पुत्री, निपुणा विपुलाशया । नव्या नववधूवेषा, लज्जावनतकन्धरा ॥ ३४८॥ विज्ञाततातवृत्तान्ता, साऽनंसीत्तातपंकजम् । ततस्तातं च भीमं च, बन्धात्सममूमुचत् ॥ ३४६॥
॥३४॥
For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72