Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
जोत्कारं रणसिंहोऽपि, पूज्यत्वाच्छवशुरस्य हि । करोति विनयोपेतो, ललाटघटिताञ्जलिः ॥ ३५० ॥ स्थैर्यसौन्दर्यचातुर्यो,-दार्यगाम्भीर्यविक्रमान् । कुलादी स्तन्दुणान् मत्वा, तुष्टः पृष्टौ करं ददौ ॥ ३५१ ।। ततो महोत्सवेऽतुच्छे, पर्यणायि शुभेऽहनि । भूपेन कमलवती, रणसिंहस्य धीमतः ॥ ३५२ ॥ भोगभङ्गी तया साई, भुञ्जानः सिंहभूपतिः। कतिचिद्दिनानि तत्राऽऽस्य, स्वभुजोर्जितवीर्यभृत् ॥ ३५३ ॥ ततः प्रस्थाय मार्गस्थ,-भूपक्ल्टप्तोपढौकनम् । सगृह्णन् कौतुकालोकं, कुर्वन्नागात्स्ववेश्मनि ।। ३५४ ॥ रत्नवत्या विवाहार्थ, प्रस्थितोऽपि पुरात्पुरा । सोमापुर्या समागच्छ, नन्तरा निपुणो नृपः ॥ ३५५ ॥ लाभेन कमलवत्याः, स्वं कृतार्थममन्यत । यतो लाभेन हृष्यन्ति, देवदानवमानवाः ॥ ३५६ ॥ विषयासक्तयो नं, भोगभङ्गीभुजङ्गयोः । व्यापारो राजकार्यस्य, प्रत्यूहवदभूत्तयोः ॥ ३५७ ॥ अथ सा रत्नवती च, चिन्तयामास चेतसि । सौभाग्यभाग्यभः प्राण,-प्रियो राजसुतः सतु ॥ ३५८ ॥ किमर्द्ध पथमागत्य, व्यावृत्य स्वपुरं प्रति । शकुनाभावतो यद्वा, ययौ वा मदभाग्यतः॥ ३५६ ॥ युग्मम् ॥ आज्ञातमतिगम्भीर,-धीमत्या योषिता कया। वशीकृतः कटाक्षेणा--ऽऽमूलमन्त्रण सोऽध्वनि ॥ ३६० ॥
॥३५॥
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72