Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
तथापि रे बराक ! त्वं, किं करिष्यसि मां प्रति । ममात्मा चेन्मम वशे, दैवो रुष्टोऽपि किङ्करः ॥ २७५ ॥ इत्युक्त्वा सा जगामैवं, रणसिंहनरेशितुः । गुडरासन्नमुद्यानं, नानापादपसकुलम् ॥ २७६ ॥ स्वीयोत्तरीयवस्त्रैण, तत्र प्रोच्चैत्तरे तरौ। निविडं पाशकं बद्धा, मरणाध्यवसायिनी ॥ २७७ ।। इति वक्तुं प्रवृत्ता सा, भो भोः कानन देवताः ? सर्वाशानां दिशापालाः १, अ यतां वचनं मम ॥ २७८ ॥ स्वेच्छया स्वच्छचित्तेन, रणसिंह वरेच्छया। यक्षश्चिन्तामणिर्दक्षः, समाराद्धोऽर्थसिद्धिदः ॥ २७६ ।। निनिमित्तेन तेनाहं, वैरिणा प्राणहारिणा । प्रतारिताऽस्म्यतोऽवश्यं, मरिष्याम्यागसो विना ॥ २८० ॥ वल्लभतमस्य दुस्सह,-विरहानलदह्यमानतनुसदना । प्राणान् कथं धरिष्ये, ततः भृतं जीवितम्फेन ।। २८१ ॥ ततश्चासमसचाया,--ऐहिकामुष्मिके भवे । स एव प्राणनाथोऽस्तु, रणसिंहपतिमम ॥ २८२॥ इति प्रोच्य निजे कण्ठे, प्रक्षिप्तोऽक्षुन्धचित्तया । निविडः पाशकग्रन्थि,-निजात्मानं मुमोचसा ॥ २८३ ॥ अनुमार्ग प्रलग्नाऽथ, समायासीत्सुमङ्गला। पश्यन्ती सर्वमुद्यानं, लम्बमानां निरीक्ष्य ताम् ।। २८४ ॥ किश्चित्किञ्चिनिःश्वसन्ती, शाखारोपितपाशिकाम् । हाहारवं तदा घोरं, प्रचक्र करुणस्वनम् ॥ २८५ ॥
॥ २८॥
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72