Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह --------------- www.kobatirth.org विज्ञप्तोऽद्यापि भूभत्र, विलम्बः क्रियते कथम् ? । ततोऽभाणीन्नृपो ात्र, किश्चिन्मेऽस्तिप्रयोजनम् ॥ २३१ ॥ तावद् भो ! गच्छत स्वच्छ, -- चित्तास्थानमविघ्नतः । ममेप्सिते च संजाते; पुनर्याव दुपैम्यहम् ॥ २३२ ॥ इतश्च तत्रास्ति भीमभूपालो, भीम इव पराक्रमी । कमलसेनभूपस्य सेवां कर्त्तुं समागमत् ॥ २३४ ॥ उद्वोदुं कमलवतीं, कनीं सोऽपि समीहते । तद्धात्रीं पुष्पताम्बूल, वस्त्रालङ्कारभूषणैः ।। २३५ ।। आवर्जयति सोऽत्यन्तं विविधैस्तूपचारकैः । साऽप्यथावसरं प्राप्या, --ऽपृच्छत्पुत्रीं सुवाचया ॥ २३६ ॥ त्वामुद्रोढुं च भीमेशो, हे वत्से ! विश्ववत्सले १ । नितरामीहते वीरः, पार्वतीमिव शङ्करः ॥ २३७ ॥ नैच्छन्नामापि सा तस्य तस्मै प्रत्युत कुप्यति । यथा शीलवती नारी, नेहते परपुरुषम् ॥ २३८ ॥ तामुपचरितु चाटु, --वचोभिश्चितुरोक्तिभिः । प्रचक्रमे तथाऽप्येषा, बुशवन्मन्यते समम् ॥ २३६ ॥ तां यक्षसग्रन्यायान्तीं, यान्तीं ज्ञात्वा स भीमराट् । तत्राध्वन्यन्यदाऽतिष्ठत्, समावर्जयितुं भृशम् ॥ २४० ॥ विलासोल्लासहास्यादि, हावभावावलीं तथा । वीतराग इवाशेपं तस्यामजनि निष्फलम् ॥ २४१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir MAHARANA- चरित्रम् ॥ २४ ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72