Book Title: Praman Mimansa Author(s): Hemchandracharya, Motilal Laghaji Publisher: Motilal Laghaji View full book textPage 9
________________ (६) चांगदेवस्तैः स्तम्भनपुरं नीत्वा दीक्षया संस्कृतः विक्रमसंवत्सरे ११५० मिते माघशुक्लचतुर्दश्यां रविसुतवारे । दीक्षितस्य तस्य सोमचन्द्रेत्यभिधानं बभूव । ततः श्रीरैवतावतारे श्रीनेमितीर्थे जाग्रतो नासाग्रन्यस्तचक्षुषः सोमचन्द्रस्य समाराधनात् देवी शारदा तुष्टा तवेहितं सेत्स्यतीति तस्मै वरमदात्। तेन वरेण सिद्धं तं सोमचन्द्रं शुभे मुहूर्ते विक्रमसंवत्सरे ११६६ मिते (१२०९) वैशाखे प्रभावकधुराधुर्यं सूरिपदे स्थापयामासुः श्रीगुरवः । तदा तस्य ' हेमचन्द्र' इति संज्ञा व्यधायि । ___अथ च श्रीहेमचन्द्राचायैर्विविधास्तत्तच्छास्त्रव्युत्पादका ग्रन्था निरमीयन्त यन्नामनिर्देशोऽनुपदमेव करिष्यते । तत्रान्यतमोऽयं प्रमाणमीमांसाख्यो निरुपमो न्यायग्रन्थः । जैनश्वेताम्बरसंप्रदायानुयायिनां सन्त्यन्येऽपि न्यायग्रन्थाः। तथाहि-१ श्रीसिद्धसेनदिवाकराणां वैक्रमप्रथमशताब्द्यां वर्तमानानां संमतितर्कन्यायावतारादयः । २ श्रीहरिभद्रमूरिणां वैक्रमषष्ठाव्यां वर्तमानानां अष्टकानि षड्दर्शनसमुच्चय, अनेकान्तजयपताकादयः ।३ श्रीदेवसुरिणां वादिदेवसूरीति नाम्ना विख्यातानां वैक्रमद्वादशशताब्यां वर्तमानानां प्रमाणनयतत्त्वालोकालङ्कारः स्वोपज्ञस्याद्वादरत्नाकराख्यबृहट्टीकासहितः । ततः ४ श्रीहेमचन्द्रसमयो वैक्रमद्वादशाब्दी । एतेषां वादिदेवसूरीणां च समानकालभवत्वं यतो वादिदेवसूरिभिः सह सिद्धराजसभायां । श्रीहेमचन्द्रसूरय आसन् दिगम्बराचार्यकुमुन्द्रचन्द्रशास्त्रार्थसमये ।५ ततः परं वाचकयशोविजयसूरीणां वैक्रमषोडशशताब्द्या वर्तमानानां द्वाविंशिकादयो ग्रन्थाः । यद्यप्येतत्कृता द्वात्रिंशिकाः स्वतन्त्र १ पूर्व गुरुश्चतुर्दशे वर्षे ११५९ मिते, ११६४ मिते वा सोमचन्द्रं पदाधिकारिणमकारयत् । ततो गुरुनिदेशेन कश्मीरा शारदाराधनबुध्या गतवतस्तृतीये प्रयाणके शून्ये कस्मिंश्चिद् देवालये निशीथे शारदामन्त्रं हृदि ध्यायतस्तस्य पुरस्ताच्छारदा प्रादूर्भूय वरमदात् तिरोभूता च । तथाहि-नानाविज्ञानरूपः शुचिरुचिरवचोरञ्जितानेकभूपः सद्विद्यायज्ञयूपो भवभवभयभित्पुण्यपानीयकूपः । आजन्मब्रह्मलीलाकलितकलतनो! संस्मृता त्वत्समापिमेषैष्यामीत्युदित्वा सपदि भगवती भारती सा तिरोऽभूत् ॥२१॥ चा. कृत कुमारपालचरिते प्रथमसर्गे चतुर्थवर्गे।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 136