Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 8
________________ (५) ३ श्रीहेमचन्द्राचार्यचरितम् । ... अस्ति गुर्जरेषु धुन्धुकसंझो ग्रामः । तत्र मोढवंशावतंसः' चाच'संज्ञकः श्रेष्ठी निवसति स्म । तस्य भार्या 'पाहिनी' नाम । सा च कदाचित् उपलब्धं चिन्तामणिरत्नं गुरवेऽहमदामिति स्वप्नेऽद्राक्षीत् । तदानी दैवादायातान् श्रीप्रद्युम्नसूरिशिष्यान् श्रीदेवचन्द्रसूरीन्सा पाहिनी स्वस्वप्नमकथत् । तदा तैस्तस्य स्वप्नेनानेन संसूचितोऽयमर्थ इत्यकथ्य । तथा च प्रभावकचरिते हेमचन्द्रसूरिप्रबन्धे-- जैनशासनपाथोधिकौस्तुभः संभवी सुतः। तव स्तवकृतो यस्य देवा अपि सुवृत्ततः ॥ १६॥ तदनुसारं पाहिनीकुक्षे वैक्रमे ११४५ इ. स. १०८८ संवत्सरे कार्तिकशुक्लपूर्णिमायां भानुजवासरे पुत्ररत्नमजीजनत् । तस्य पितृकृतं व्यावहारिकं नाम 'चांगदेव' इत्यासीत् । शिशुरपि स महामतिः पञ्चमे वर्षे गुरुणा मातृसकाशात्प्रार्थितः । तया च पत्यौ प्रोषितेऽपि स्वप्नसंस्मृतेः पञ्चवर्षीयश्चांगदेवो गुरुभ्यः चान्द्रगच्छीयदेवचन्द्रसूरिभ्यः समाप्यंत । स च १ तस्या नाम ' चङ्गी' इति वीरवंशावली ( साहित्यसंशोधकत्रैमासिकम् । खं. १. अं. ३ पूना) . २ (१) जैन इतिहासे भा. १ हिरालालहंसराजसंकलिते पृ. ५१ एते प्रद्युम्रसूरयो न देवचन्द्रगुरवः किंतु भिन्नाः। ते मानदेवसूरिपूर्णचन्द्रसूरिगुरव आसन् । तेषां विद्यमानताकाल:-- विक्रमसंवत् १२९२ । ये श्रीहेमचन्द्रसुरिगुरवो देवचन्द्रसूरयस्ते भिनास्तैः शान्तिनाथचरितम् २ स्थानाङ्गवृत्तिरिति ग्रन्थद्वयं कृतम् । वीरवंशावल्यामपि (पृ. २१६) इत्यत्र प्रद्युम्नसूरिशिष्या मानदेवसूरय इत्युक्तम् । (२) श्रीहमेचन्द्रः प्रद्युम्न सूरिसतीर्थ्य (गुरुबन्धु ) इति डॉ. सतीशचन्द्रकृत (दि हिस्टरि ऑफ इण्डियन लॉजिक् ) ग्रन्थे पृ. १०५ इत्यत्र मुद्रितं, ३ टिप्पन्यां श्लोकश्च दत्तः-श्रीमांश्चन्द्रकुलेऽभवद्गुणनिधिः प्रद्युम्नसूरिप्रभुबन्धुर्यस्य स सिद्धहेमविधये श्रीहेमसूरिविधिः । उत्पादसिद्धिप्रकरणटीकायां चन्द्रसेनकृतायाम् । ३ स्वसंप्रदायेऽधुना पुर्वाचार्यवत् शासनोन्नतिकारको न कोऽपि पुरुषोऽस्तीति दूयमानचतोभः 'श्रीपूर्णतल्लाख्यगच्छीयश्रीदेवचन्द्रसूरिभिः संप्रार्थिता देवा एवं तेभ्यो वरमदुः । यूयं धुंधुकग्रामं गत्वा — पाहिनी' सूनुं चांगदेवाख्यं याचत स च संप्रति सप्रभावको भविष्यति तदनुसार तैर्गत्वा याचितः स सुतः ' । कुमारपालचरिते चारित्रसुन्दरगणिकृते प्रथमसर्गे तृतीयवर्गे ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 136