Book Title: Praman Mimansa Author(s): Hemchandracharya, Motilal Laghaji Publisher: Motilal Laghaji View full book textPage 7
________________ (४) प्रमाणमीमांसासूत्रम् गौतमसूत्रम् १६ साध्यस्य निगमनम् । २-१-१५ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् । १-१-३९ १७ असिद्धविरुद्धानैकान्तिकास्त्रयोहे- सव्यभिचारविरुद्धप्रकरणसमत्वाभासाः। २-१-१६ साध्यसमकालातीता हेत्वाभासाः । १-२-४ १८ तत्त्वसंरक्षणार्थं प्रानिकादिस- प्रमाणतर्कसाधनोपालम्भः सिद्धामक्षं साधनदूषणवदनं वादः । २-१-३० न्तविरुद्धः पञ्चावयवोपपन्नः पक्ष प्रतिपक्षपरिग्रहो वादः। १-२-१ सुप्रतीतमेव स्यात्प्रज्ञानां विमर्शशालिनां यदत्र श्रीहेमचन्द्राचार्यसूत्रेषु गौतमसूत्रेषु च समानशब्दव्याहारेण यत्सूत्रितं तस्यैवैतद्वैलक्षण्यं तत्रापि सूत्रकृतोरुभयोरल्पीयसांशेन प्रतीतिभेदः । यथा वादलक्षणे है. सू. २-१-३० गौ. सू. १-१-२ तर्कलक्षणे है. सू. १-२-५ गौ. सू. १-१-४० । दुर्दैवविलसितेनाधुनास्माभिः श्रीहेमचन्द्राचार्याणां निखिला पञ्चाध्यायी नोपलभ्यते किन्तु शतसूत्रात्मकस्तस्या अध्योऽध्यायः । तत्र श्रीहेमचन्द्राचार्यैर्ग्रहीता गौतमसूत्रेष्वगृहीता विषया बहवः सन्ति ते च दर्शयितुं शक्यन्ते यतो गौतममूत्राणि सर्वाणि समुपलभ्यन्त एव मुद्रितान्यपि । तथाहि-हैमसूत्रधृताः प्रमाण, अनध्यवसाय, विपर्यय, वस्तु, प्रत्यभिज्ञानं, व्याप्ति, पक्ष, दृष्टान्ताभास, दूषण, जय, पराजयलक्षणादिविषया गौतमसूत्रेषु नोपलभ्यन्ते । अवग्रहहावायधारणावधिमनःपर्यायज्ञानद्रव्येन्द्रियादयो विषया गौतम. सूत्रेषु न लक्षिता इत्यन्यदेतत् । यतो नैते विषयाः समयान्तरे परिगृहीतास्तथैव गौतमसमयेऽपि । हेत्वाभासविषये महदेव वैलक्षण्यं गौतममते पञ्च हेत्वाभासाः श्रीहेमचन्द्रशास्त्रे ते त्रयः। त्रिष्वेव पश्चानामन्तर्भावः स्वयमेव 'विशेष्यासिद्धादीनामेष्वेवान्तर्भावः' २-१-१९ इति सूत्रवद्भिः प्रदर्शितः।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 136