Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 48
________________ २५ ४. कालकसूरिचरितम् । ६५. शकानां वंशमुच्छेद्य कालेन कियताऽपि' हि । राजा श्रीविक्रमादित्यः सार्वभौमोपमोऽभवत् ॥९॥ स चोन्नतमहासिद्धिः सौवर्णपुरुषोदयात् । मेदिनीमनृणां कृत्वाऽचीकरद् वत्सरं निजम् ॥ ९१ ॥ ततो वर्षशते पञ्चत्रिंशता साधिके पुनः । तस्य राज्ञोऽन्वयं हत्वा वत्सरः स्थापितः शकैः ॥ ९२ ॥ इति प्रसङ्गतोऽजल्पि; प्रस्तुतं प्रोच्यते ह्यदः । श्रीकालक प्रभुदेशे विजढे राजपूजितः ॥ ९३ ॥ ६६. इतश्चास्ति पुरं लाटललाटतिलकप्रभम् । भृगुकच्छं नृपस्तत्र बलमित्रोऽभिधानतः ॥ ९४ ॥ 5 भानुमित्राग्रजन्मासीत् स्वस्रीयः कालकप्रभोः।। स्वसा तयोश्च भानुश्रीः, बलभानुश्च तत्सुतः ॥ ९५ ॥-युग्मम् । अन्यदा कालकाचार्यवृत्तं तैर्लोकतः श्रुतम् । तोषादाहूतये मत्री तैर्निजः प्रैष्यत प्रभोः ॥ ९६ ॥ विहरन्तस्ततस्ते चाप्रतिबद्धं विबुद्धये । आययुर्नगरे तत्र बहिश्च समवासरन् ॥ ९७ ॥ राजा श्रीबलमित्रोऽपि ज्ञात्वाभिमुखमभ्यगात् । उत्सवातिशयात् सूरि प्रवेशं विदधे मुदा ॥ ९८॥ 10 उपदेशामृतस्तत्र सिञ्चन् भव्यानसौ प्रभुः । पुष्करावर्तवत्तेषां विश्वं तापमनीनशत् ॥ ९९ ॥ श्रीमच्छकुनिकातीर्थस्थितं श्रीमुनिसुव्रतम् । प्रणम्य तच्चरित्राख्यादिभिर्नृपमबोधयत् ॥ १० ॥ अन्येास्तत्पुरोधाश्च मिथ्यात्वग्रहसद्हः । कुविकल्पवितण्डाभिर्वदन् वादे जितः स तैः ॥ १०१॥ ततोऽनुकूलवृत्त्याथ तं सूरिमुपसर्गयन् । उवाच दम्भभक्त्या स राजानमृजुचेतसम् ॥ १०२॥ नाथामी गुरवो देवा इव पूज्या जगत्यपि । एतेषां पादुका' पुण्या जनैर्धार्या स्वमूर्धनि ॥ १०३ ॥ 15 किश्चिद् विज्ञप्यते लोकभूपालानां हितं मया । अवधारय तच्चित्ते भक्तिश्चेत् मातुले" गुरौ ॥ १०४ ॥ विशतां नगरान्तर्यञ्चरणा बिम्बिताः पथि । उल्लङ्घयन्ते जनैरन्यैः सामान्यैस्तदधं बहु ॥ १०५॥ धर्मार्जनं *तनीयोऽत्रापरं" कुरु महामते ! । प्रतीत आर्जवाद् राजा प्राहास्ते संकटं महत् ॥ १०६ ॥ विद्वांसो मातुलास्तीर्थरूपाः सर्वार्चिता इमे । तथा वर्षा अवस्थाप्य पार्यन्ते प्रेषितुं किमु ॥ १०७॥ द्विजः प्राह महीनाथ ! मत्रये ते हितं सुखम् । तव धर्मो यशस्ते च प्रयास्यन्ति स्वयं सुखात् ॥ १०८ ॥20 नगरे डिण्डिमो वाद्यः सर्वत्र स्वामिपूजिताः । प्रतिलाभ्या वराहारैर्गुरवो राजशासनात् ॥ १०९॥ आहारमाधाकर्मादि दृष्ट्वानेषणयान्वितम्" । स्वयं ते निर्गमिष्यन्ति काप्यश्लाघा न ते पुनः ॥ ११०॥ अस्त्वेवमिति राज्ञोक्ते स तथेति व्यधात् पुरे । अनेषणां च ते दृष्ट्वा यतयो गुरुमभ्यधुः ॥ १११॥ प्रभो!" सर्वत्र मिष्टान्नाहारः संप्राप्यतेतराम् । गुरुराहोपसर्गोऽयं प्रत्यनीकादुपस्थितः ॥ ११२ ॥ गन्तव्यं तत् प्रतिष्ठानपुरे संयमयात्रया । श्रीसातवाहनो राजा तत्र जैनो दृढव्रतः ॥ ११३ ।। 25 ६७. ततो यतिद्वयं तत्र प्रैषि सङ्घाय सूरिभिः । प्राप्तेष्वस्मासु कर्त्तव्यं पर्वपर्युषणं ध्रुवम् ॥ ११४ ॥ तौ तत्र सङ्गतौ संघमानितौ वाचिकं गुरोः । तत्राकथयतां मेने तेनैतत् परया मुदा ॥ ११५ ॥ श्रीकालकप्रभुः" प्राप शनैस्तन्नगरं ततः । श्रीसातवाहनस्तस्य प्रवेशोत्सवमातनोत् ॥ ११६ ॥ उपपर्युषणं तत्र राजा "व्यज्ञपयद् गुरुम् । अत्र देशे प्रभो! भावी शक्रध्वजमहोत्सवः॥ ११७ ॥ नभस्यशुक्लपञ्चम्यां ततः षष्ठ्यां विधीयताम् । स्वं पर्व नैकचित्तत्त्वं धर्मे नो लोकपर्वणि ॥ ११८ ।। 30 प्रभुराह प्रजापाल ! पुरार्हद्गणभृद्गणः । पञ्चमी नात्यगादेतत् पर्वास्मद्गुरुगीरिति ।। ११९ ॥ कम्पते मेरुचूलापि रवि, पश्चिमोदयः । नातिक्रमति पर्वेदं पञ्चमीरजनी ध्रुवम् ॥ १२०॥ 1A कियतामपि । 2N कालकः । 3 A सूरिः। 4 A वृत्त्यर्थ15 BN °मुपसर्पयन् । 6 A B जगत्पतिः। 7 CN पादुकाः। 8A पुण्याज°। 9A चित्तेन; C चित्तः। 10A भक्तिस्ते। 11 N मानुजे। * 'स्वल्पं' इति B टि.। 12N उत्रपरं । 13 A B °णयाश्रितं । 14 B N प्रभोः। 15 A °कालकगुरुः । 16 B विज्ञप। प्र०४

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252