Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 158
________________ १६. वादिवेतालशान्तिसूरिचरितम् । १३५ हु५. अग्रे च तत्र वास्तव्यजिनदेवस्य धीमतः । श्रेष्ठिनस्तनयः पद्मनामा दष्टो महाहिना ॥ ६१ ॥ मात्रिकैः सर्वपक्षीयैर्मत्रौषधविजृम्भितैः । अत्यर्थं प्रतिकारेषु कृतेष्वपि न सज्जितः ।। ६२ ॥ तत उत्पाट्य गर्तायां निक्षिप्तः स्वजनैः सह । सर्पदष्टव्यवस्थेयं पुनरुज्जीवनाशयां ॥ ६३ ॥ इति विज्ञापिते शिष्यैर्जिनदेवगृहेऽगमन् । सम्बोधनार्थमाचख्युरथ ते प्रभवस्तदा ॥ ६४ ॥ दष्टं दर्शयतास्माकं प्रकाश्य क्षितिमध्यतः । जिनदेवस्तदाकर्ण्य श्मशाने तैः समं ययौ ॥६५॥ भुवमुत्खाय तस्मिंश्च दर्शिते गुरवोऽमृतम् । तत्त्वं स्मृत्वाऽस्पृशन् देहं दष्टश्चासौ समुत्थितः ॥६६॥ गुरुपादौ नमस्कृत्य पद्मः पद्मनिभाननः । प्राहाहं गुरवः सखजनाः कथमिहागमन् ॥ ६७ ॥ प्राग्वृत्ते कथिते सद्यो जिनदेवेन हर्षतः । उत्सवाद् गुरुभिः सार्धं स खं निलयमागमत् ॥ ६८ ॥ तत्पित्राभ्यर्चिताः पूज्या निजमाश्रममाययुः । गुरुर्वेश्मागतश्चोपकर्ता प्राप्येत केन सः ॥ ६९॥ ६६. अथ प्रमाणशास्त्राणि शिष्यान् द्वात्रिंशतं तदा । अध्यापयन्ति श्रीशान्तिसुरयश्चैत्य संस्थिताः॥७०॥10 सूरिः श्रीमुनिचन्द्राख्यः श्रीनड्डलपुरादगात् । अणहिल्लपुरे चैत्यपरिपाटीविधित्सया ॥ ७१ ॥ संपत्संपत्तिरम्यश्रीश्रीसंपकजिनालये । नत्वा श्रीवृषभं सूरिवृषभं प्राणमत् ततः ॥ ७२ ॥ प्रमेया दुःपरिच्छेद्या बौद्धतर्कसमुद्भवाः । तेनावधारिताः सर्वेऽन्यप्रज्ञानवगाहिताः ॥ ७३ ॥ अपुस्तकः स ऊर्ध्वस्थो दिनान् 'पञ्चदशाऽशृणोत् । तत्रागत्य तदध्यायध्यानधीरमनास्तदा ॥ ७४ ॥ बहुशः कथ्यमानेऽपि प्रमेये दुर्घटेऽन्यदा । छात्रेष्वनधिगच्छत्सु पूज्या निवेदमागमन् ॥ ७५ ॥ 15 भसिते हुतमित्युक्त्वा गुरवोऽत्र निःशश्वसुः । तदा श्रीमुनिचन्द्राख्यः सूरिः पूज्यान व्यजिज्ञपत् ॥७६॥ सपुस्तकाः पाठका ये प्रष्ठप्रज्ञाबलोन्नताः' । किं वदन्ति त एवात्र पुरा गुरुपुरस्कृताः ॥ ७७ ॥ अपरो बहिरायातः सर्वथानुपलक्षितः । सोऽपि किं लभते वक्तुं नवेत्यादिशत प्रभो!॥ ७८॥ श्रुत्वेति हृचमत्कारि तद्वचः प्रभवोऽवदन् । प्रज्ञायां पक्षपातो नः शिष्याणां नान्यहेतुषु ॥ ७९ ॥ इतोऽह्नि षोडशेऽतीते यद् व्याख्यातं सुदुर्घटम् । अस्माभिस्तदभिप्रायादद्योक्तं सुविवेचनम् ॥ ८०॥ 20 निशमय्येत्यसौ प्राज्ञस्तदधीतदिनावधिः । सर्वेष्वहस्सु यच्चोक्तं तद्वक्तव्यं यथातथम् ॥ ८१ ॥ सद्यश्च तैर्यदाख्यातं परप्राज्ञैः सुदुःश्रवम् । सर्वानुवादसंवादमवादीद् विशदं ततः॥ ८२॥ श्रीशा भिस्तोषपोषतः परिषस्वजे । प्रोचे च संनिवेश्याङ्के रत्नं रेणुवृतं भवान् ॥८३ ॥ वत्स ! प्रमाणशास्त्राणि पठाशठमतिर्मम । पार्श्वे नश्वरदेहस्य लाभमत्र गृहाण भोः ! ॥ ८४ ॥ पुनर्व्यज्ञपयत्" सूरिमुनिचन्द्रः" प्रभो ! कथम् । अध्येयं स्थानकाभावे दुष्प्रापं स्थानमत्र यत् ॥ ८५ ॥25 ततस्ते टंकशालायाः पश्चाद्भागे समार्पयन् । आश्रयार्थं गृहं चारु श्राद्धपाद् विदूषणम् ॥८६॥ षड्दर्शनप्रमाणानां शास्त्राण्यक्लेशतोऽथ सः। अध्यैष्ट ज्ञापक-ज्ञात्रोर्योगो दुर्लभ ईदृशः ॥ ८७ ॥ ततः सुविहितानां हि साधूनामाश्रयाः पुरे । बभूवुरत्र संवित्त्या सर्वसङ्घचरित्रिणाम् ॥ ८८॥ उत्तराध्य य न ग्रंथ टी का श्रीशांतिसूरिभिः । विदधे वादिनागेन्द्रसन्नागदमनीसमा" ॥ ८९॥ शिष्येण मुनिचन्द्रस्य सूरेः श्रीदेवसूरिणा । तन्मध्यत उपन्यस्तस्त्रीनिर्वाणबलादिह ॥ ९० ॥ 30 पुरः श्रीसिद्धराजस्य जितो वादे दिगंबरः । तदीयवचसां निश्रा" विद्वदुःसाधसाधिका" ॥ ९१ ॥ 1N °व्यवस्थायां। 20 °जीवनाशयः। 3 N हर्षितः। 4 N भ्यर्थिताः। 5N दिनानां च दशा। 6N भस्मनि । 7 N प्रज्ञावतोन्नताः। 8 N तदनूद्य । 9 N रत्नरेणु। 10 व्यजिज्ञपत् ; A विज्ञपयत्। 11 N °चन्द्रप्रभो। 12 N 'विभूषणम् । 13 N B संवृत्या । 14 N°दमनी हि सा। 15 N मिश्रा । 16 A °साधका ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252