Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 176
________________ १८. सूराचार्यचरितम् । १५३ तत्कालं ते नृपायेदं गत्वा हृष्टा व्यजिज्ञपन् । गोविन्दाचार्यपार्श्वेऽस्ति कविः प्रत्युत्तरक्षमः ॥ २७ ॥ भूपालः प्राह सौहार्दभूमिः सूरिरसौ हि नः । समानयत सन्मान्य 'सत्कविं तं गुरुं ततः ॥ २८ ॥ आदेशानन्तरं ते श्रीगोविन्दस्याश्रयं ययुः । आजूहवंश्च तं सोऽपि भूपसंसदमाययौ ॥ २९ ॥ सूराचार्य च पार्श्वेऽस्य दृष्ट्वा भूपः प्रमोदभूः । मन्मातुलस्य पुत्रोऽसौ सम्भाव्यं सर्वमत्र तत् ॥ ३०॥ आशीर्वाद्योपविष्टश्च सूरि पार्ह आसने । श्रीभोजप्रहितां गाथां विद्वद्भिः श्रावितस्ततः ॥ ३१॥ 5 तदनन्तरमेवाथ सूराचार्य उवाच च । कोऽवकाशो विलम्बस्य ताहपुण्योदये सति ॥ ३२॥ तथा हिअंधयसुयाणकालो भीमो पुहवीइ निम्मिओ विहिणा। जेण सयं पि न गणियं का गणणा तुज्झ इक्कस्स ॥ ३३ ॥ इत्यार्या भीमभूपालः श्रुत्वा रोमाञ्चकञ्चुकी । धाराधिपप्रधानानां द्रुतं प्राजीहयत् करे ॥ ३४ ॥ 10 श्रीभोजस्तां प्रवाच्याथ' विममर्शेति चेतसि । ईदृक्कविभवो देशः स कथं परिभूयते ॥ ३५ ॥ सूरिः श्रीभीमराजेन सम्मान्येति व्यसृज्यत । किं कुर्यात् त्वयि पावस्थे श्रीभोजो विदुषां निधिः॥३६॥ ६३. अन्यदा गुरुभिः शिष्याध्यापनेऽसौ न्ययोज्यत । कारयन्ति गुणा" एव प्रतिष्ठां पुरुषाकृतेः ॥ ३७॥ कुशाग्रीयमतिः शास्त्ररहस्यानि पटुप्रभः । तथा दिशति जानन्येकशः श्रुत्वापि ते यथा ॥ ३८ ॥ तारुण्यवयसा प्रज्ञापाटवेनाधिकेन च । किश्चिदृप्तः स्वशिष्याणां कुप्यत्यनवगच्छताम् ॥ ३९॥ 15 ततस्तान् शिक्षयनेकां रजोहरणदण्डिकाम् । नित्यं भनक्ति कोपोऽरिस्तादृशानपि गञ्जयेत् ॥ ४०॥ एकदा त्ववलेपोऽपि स्वजातीयसहायताम् । कर्तुमत्राययौ स्वीयानुपदीनो न को' भवेत् ॥ ४१॥ वैयावृत्त्यकरं स्वीयं खिन्नस्तन्नित्यभङ्गतः । आदिशदण्डिका लौहा कार्याऽस्माकं रजोहृतौ ॥ ४२ ॥ छात्रा वित्रासमापन्नाः खिन्नस्विन्नतनूभृतः । उपाध्यायात् कथंचित् ते वासरं निरयापयन् ॥ ४३ ॥ आवश्यकविधेः शास्त्रगुणनाच्चानु ते ततः । अर्द्धरात्रिककालस्यावसरेऽपि विनिद्रकाः ॥४४॥ 20 ज्येष्ठप्रभुक्रमाम्भोजसेवाहेवाकिनस्ततः । नत्वा व्यजिज्ञपन विश्रमयन्तश्चरणद्वयम् ॥ ४५ ॥ शरण्यं शरणायाता अश्रान्तस्रवदश्रवः। शिरोभेदमृतेीता उपाध्यायस्य चेष्टितम् ॥४६॥-त्रिभिर्विशेषकम् । श्रुत्वा प्रभुभिरादिष्टं वत्साः स्वच्छाशया ननु । एष वोऽह्राय पाठाय त्वरते नतु वैरतः ॥४७॥ यदयोमयदण्डस्य सोऽर्थी तद्धि विरुध्यते । शिक्षिष्यते तथायं वो नाचरेद् विद्रवं यथा ॥४८॥ इत्थमाश्वासितास्ते च स्वस्वस्थानेष्वसूषुपन् । सूराचार्योऽपि तत्रागाच्छुश्रूषाहेतवे प्रभोः ॥४९॥ 25 ददे कृतककोपात् तैर्वन्दने नानुवन्दना । अप्रसादे ततो हेतुं पप्रच्छाह प्रभुः पुनः ॥५०॥ लोहदण्डो यमस्यैवायुधं नहि चरित्रिणाम् । घटते हिंस्रवस्तु स्यात् तथैव तु परिग्रहे ॥ ५१ ॥ आद्योऽपि कोऽप्युपाध्यायः पाठको न शिशुव्रजे । अहो ते स्फुरिता प्रज्ञा पुंसां हृदयभेदिनी ॥ ५२ ।। श्रुत्वेति व्यमृशच्छात्रवर्गादयमुपद्रवः । उत्तस्थे च प्रभोरप्रेऽवादीत् सविनयं वचः ॥ ५३॥ पूज्यहस्तसरोजं न मौलौ किं व्यलसन्मम । एवं निस्त्रिंशताशङ्का" मयि यूयं विधत्त" किम् ॥ ५४॥ 30 काष्ठदण्डिकया देहे प्रहारो दीयते यथा । न तथा लोहदण्डेन ज्ञापनैव विधीयते ॥ ५५ ॥ मद्गुणा यद्यमीषां स्युरिति चिन्ता ममाभवत् । घृतपूर्णाश्चपलकैन स्युः सत्यमिदं वचः ।। ५६ ॥ . 1N सन्मान्यं सकवित्वं गुरुं। 2 आजूहवंस्ततः। 3 N विष्टस्य। 4 इत्यर्थ। 5N प्रवाच्य। 6 गुणा वप्र प्रतिष्ठा । 7N पदीनोतको। 8.N D खिनजित्त।.9N खच्छाशयस्य तु। 10 N °सरोजेन। 11 °शंका। 12 N. व्यधत्त।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252