________________
१८. सूराचार्यचरितम् ।
१५३ तत्कालं ते नृपायेदं गत्वा हृष्टा व्यजिज्ञपन् । गोविन्दाचार्यपार्श्वेऽस्ति कविः प्रत्युत्तरक्षमः ॥ २७ ॥ भूपालः प्राह सौहार्दभूमिः सूरिरसौ हि नः । समानयत सन्मान्य 'सत्कविं तं गुरुं ततः ॥ २८ ॥ आदेशानन्तरं ते श्रीगोविन्दस्याश्रयं ययुः । आजूहवंश्च तं सोऽपि भूपसंसदमाययौ ॥ २९ ॥ सूराचार्य च पार्श्वेऽस्य दृष्ट्वा भूपः प्रमोदभूः । मन्मातुलस्य पुत्रोऽसौ सम्भाव्यं सर्वमत्र तत् ॥ ३०॥ आशीर्वाद्योपविष्टश्च सूरि पार्ह आसने । श्रीभोजप्रहितां गाथां विद्वद्भिः श्रावितस्ततः ॥ ३१॥ 5 तदनन्तरमेवाथ सूराचार्य उवाच च । कोऽवकाशो विलम्बस्य ताहपुण्योदये सति ॥ ३२॥
तथा हिअंधयसुयाणकालो भीमो पुहवीइ निम्मिओ विहिणा।
जेण सयं पि न गणियं का गणणा तुज्झ इक्कस्स ॥ ३३ ॥ इत्यार्या भीमभूपालः श्रुत्वा रोमाञ्चकञ्चुकी । धाराधिपप्रधानानां द्रुतं प्राजीहयत् करे ॥ ३४ ॥ 10 श्रीभोजस्तां प्रवाच्याथ' विममर्शेति चेतसि । ईदृक्कविभवो देशः स कथं परिभूयते ॥ ३५ ॥
सूरिः श्रीभीमराजेन सम्मान्येति व्यसृज्यत । किं कुर्यात् त्वयि पावस्थे श्रीभोजो विदुषां निधिः॥३६॥ ६३. अन्यदा गुरुभिः शिष्याध्यापनेऽसौ न्ययोज्यत । कारयन्ति गुणा" एव प्रतिष्ठां पुरुषाकृतेः ॥ ३७॥
कुशाग्रीयमतिः शास्त्ररहस्यानि पटुप्रभः । तथा दिशति जानन्येकशः श्रुत्वापि ते यथा ॥ ३८ ॥ तारुण्यवयसा प्रज्ञापाटवेनाधिकेन च । किश्चिदृप्तः स्वशिष्याणां कुप्यत्यनवगच्छताम् ॥ ३९॥ 15 ततस्तान् शिक्षयनेकां रजोहरणदण्डिकाम् । नित्यं भनक्ति कोपोऽरिस्तादृशानपि गञ्जयेत् ॥ ४०॥ एकदा त्ववलेपोऽपि स्वजातीयसहायताम् । कर्तुमत्राययौ स्वीयानुपदीनो न को' भवेत् ॥ ४१॥ वैयावृत्त्यकरं स्वीयं खिन्नस्तन्नित्यभङ्गतः । आदिशदण्डिका लौहा कार्याऽस्माकं रजोहृतौ ॥ ४२ ॥ छात्रा वित्रासमापन्नाः खिन्नस्विन्नतनूभृतः । उपाध्यायात् कथंचित् ते वासरं निरयापयन् ॥ ४३ ॥ आवश्यकविधेः शास्त्रगुणनाच्चानु ते ततः । अर्द्धरात्रिककालस्यावसरेऽपि विनिद्रकाः ॥४४॥ 20 ज्येष्ठप्रभुक्रमाम्भोजसेवाहेवाकिनस्ततः । नत्वा व्यजिज्ञपन विश्रमयन्तश्चरणद्वयम् ॥ ४५ ॥ शरण्यं शरणायाता अश्रान्तस्रवदश्रवः। शिरोभेदमृतेीता उपाध्यायस्य चेष्टितम् ॥४६॥-त्रिभिर्विशेषकम् । श्रुत्वा प्रभुभिरादिष्टं वत्साः स्वच्छाशया ननु । एष वोऽह्राय पाठाय त्वरते नतु वैरतः ॥४७॥ यदयोमयदण्डस्य सोऽर्थी तद्धि विरुध्यते । शिक्षिष्यते तथायं वो नाचरेद् विद्रवं यथा ॥४८॥ इत्थमाश्वासितास्ते च स्वस्वस्थानेष्वसूषुपन् । सूराचार्योऽपि तत्रागाच्छुश्रूषाहेतवे प्रभोः ॥४९॥ 25 ददे कृतककोपात् तैर्वन्दने नानुवन्दना । अप्रसादे ततो हेतुं पप्रच्छाह प्रभुः पुनः ॥५०॥ लोहदण्डो यमस्यैवायुधं नहि चरित्रिणाम् । घटते हिंस्रवस्तु स्यात् तथैव तु परिग्रहे ॥ ५१ ॥ आद्योऽपि कोऽप्युपाध्यायः पाठको न शिशुव्रजे । अहो ते स्फुरिता प्रज्ञा पुंसां हृदयभेदिनी ॥ ५२ ।। श्रुत्वेति व्यमृशच्छात्रवर्गादयमुपद्रवः । उत्तस्थे च प्रभोरप्रेऽवादीत् सविनयं वचः ॥ ५३॥ पूज्यहस्तसरोजं न मौलौ किं व्यलसन्मम । एवं निस्त्रिंशताशङ्का" मयि यूयं विधत्त" किम् ॥ ५४॥ 30 काष्ठदण्डिकया देहे प्रहारो दीयते यथा । न तथा लोहदण्डेन ज्ञापनैव विधीयते ॥ ५५ ॥ मद्गुणा यद्यमीषां स्युरिति चिन्ता ममाभवत् । घृतपूर्णाश्चपलकैन स्युः सत्यमिदं वचः ।। ५६ ॥
. 1N सन्मान्यं सकवित्वं गुरुं। 2 आजूहवंस्ततः। 3 N विष्टस्य। 4 इत्यर्थ। 5N प्रवाच्य। 6 गुणा वप्र प्रतिष्ठा । 7N पदीनोतको। 8.N D खिनजित्त।.9N खच्छाशयस्य तु। 10 N °सरोजेन। 11 °शंका। 12 N. व्यधत्त।