________________
१५२
प्रभावकचरिते १८. श्रीसूराचार्यचरितम् ।
सूराचार्यः श्रिये श्रीमान सुमनःसङ्घपूजितः । यत्प्रज्ञया सुराचार्यो मात्राधिकतया जितः ॥१॥ सूराचार्यप्रभोरत्र ब्रूमः किं गुणगौरवम् । येन श्रीभोजराजस्य सभा प्रतिभया जिता ॥ २ ॥
चरित्रं चित्रवत्तस्य' सुधीहृद्भित्तिषु स्थितम् । ज्ञात्वा वर्णोज्वलं व्याख्यायते स्थैर्याय चेतसः॥३॥ 5६१. अणहिल्लपुरं नाम गूर्जरावनिमण्डनम् । अस्ति प्रशस्तिवत् पूर्वभूपालनयपद्धतेः ॥ ४ ॥
प्रतापाक्रान्तराजन्यचक्र'श्चक्रेश्वरोपमः । श्रीभीमभूपतिस्तत्राभवद् दुःशासनार्दनः ॥ ५ ॥ शास्त्रशिक्षागुरुद्रोणाचार्यः सत्याक्षतव्रतः । अस्ति क्षात्रकुलोत्पन्नो नरेन्द्रस्यास्य मातुलः ॥ ६॥ तस्य संग्रामसिंहाख्यभ्रातुः पुत्रो महामतिः । महीपाल इति ख्यातः प्रज्ञाविजितवाक्पतिः ॥ ७॥
तत्तातेऽस्तंगते दैवाद् बाल्य एव प्रभोः पुरः । तन्माता भ्रातूपुत्रं खं प्रशाधीति प्रभुं जगौ ॥८॥ 10 निमित्तातिशयाज्ज्ञात्वा तं शासनविभूषकम् । आदराजगृहु जायां सन्तोष्यवाग्भरैः ॥ ९ ॥
शब्दशास्त्रप्रमाणानि साहित्यागमसंहिताः । अमिलन् स्वयमेवास्य साक्षिमात्रे गुरौ स्थिते ॥ १०॥ स्नेहादेव गुरोः पार्श्वममुश्चन् जगृहे व्रतम् । स्वपट्टे स्थापयेन्मनु तादृशा नोचितातिगाः ॥ ११॥
वार्त्तमानिकशास्त्राम्भोरुहभासुर भानुमान् । जनाज्ञानतमश्छेदी सूराचार्यः स विश्रुतः ॥ १२ ॥ ६२. अथ श्रीभोजराजस्य वाग्देवीकुलसद्मनः । कलासिन्धुमहासिन्धोर्विद्वलीलामहौकसः ॥ १३ ॥ 15 प्रधाना आजग्मिवांसः श्रीभीमनृपपर्षदम् । गाथामेकामजल्पंश्च निजनाथगुणाद्भुताम् ॥१४॥-युग्मम् ।
तथा हिहेलानिद्दलियगइंदकुंभपयडियपयावपसरस्स।
सीहस्स मएण समं न विग्गहो नेय संधाणं ॥१५॥ हेलया तदवज्ञाय तेषां सन्मानमादधे । आवास-भुक्तिवृत्त्यायैर्भूपस्थानं च ते ययुः ॥ १६ ॥ गतेषु तेषु भूपालः स्वप्रधानानिहादिशत् । शोध्यः प्रत्युत्तरार्यायै विपश्चित् कश्चिदद्भुतः ॥ १७ ॥ खस्वमत्यनुमानेन प्रत्यार्याः कविभिः कृताः । न चमत्कारिणी राज्ञस्तासामेकाऽपि चाभवत् ॥ १८ ॥ सर्वदर्शनिशालासु चतुष्के चत्वरे त्रिके । हर्म्यचैत्येषु गच्छन्ति ते तत्' प्रेक्षाकुतूहलात् ॥ १९ ॥ श्रीमद्गोविन्दसूरीणां चैये ते चान्यदा ययुः । तदा पर्वणि कुत्रापि तत्रासीत् प्रेक्षणक्षणः ॥ २० ॥ अङ्गहारप्रकारैश्च त्रिपताकादिहस्तकैः । तत्र नर्नति लास्येन ताण्डवेन च नर्तकी ॥ २१॥ आतोद्यतालसंवादसपत्न विषमासनैः । श्रान्ता श्लक्ष्णोपलस्तम्भं स्पर्श म्रक्षणवन्मृदुम् ॥ २२ ॥ आशिश्लेष नटी स्वेदहृतये पवनार्थिनी । तत्काठिन्यप्रकर्षस्य द्रावणायेव निर्भरम् ॥ २३ ॥-युग्मम् । व्यजिज्ञपन् विशिष्टाश्च श्रीगोविन्दाय सूरये । इमामीहगवस्थानां वर्णयध्वं प्रभो ! स्फुटम् ॥ २४ ॥ सूराचार्य च तत्रस्थं तदुत्कीर्तनहेतवे । तं तदा दिदिशुः पूज्यास्तत्क्षणाचाथ सोऽब्रवीत् ॥ २५ ॥
तद्यथा30 यत् कङ्कणाभरणकोमलबाहुवल्लिसङ्गात् कुरङ्गकशोर्नवयौवनायाः।
न खिद्यसि प्रचलसि प्रविकम्पसे त्वं तत् सत्यमेव दृषदा ननु निर्मितोऽसि ॥२६॥ 1 N चित्रकृत्तस्य । 2N D मण्डलम् । 3N चक्र। 4 N महीपतिः। 5N B°रुहाभासनभानु। 6 AD आजगलांस । * 'धराजानिजना ताम्' इति ADITN ततः। 8N सम्पन्न । 9A वर्णय त्वं ।
20
25