________________
१५४
प्रभावकचरिते
10
६४. अथ ज्येष्ठप्रभुः प्राह सर्वेषां गुणसंहतिः । कोट्यंशेनापि नास्त्यत्र को मदस्तद्गुणेषु भो! ॥ ५७ ॥
इत्याकर्ण्य ततः सूराचार्यः प्राज्यमतिस्थितिः । प्राह नाहंकृतोऽहं को गर्वोऽनतिशयस्य मे ॥ ५८ ॥ अभिसन्धिर्ममायं तु चेन्मया पाठिता अमी । विहृत्य' परदेशेषु जायन्ते वादिजित्वराः ॥ ५९॥ पूज्यानां किरणा भूत्वा जनजाड्यहृतौ' ननु । युष्माकं सोऽपि शृङ्गार उन्नतिर्जिनशासने ॥ ६०॥ गुरवः प्राहुरुत्तानमते बालेषु का कथा । किमागच्छसि लग्नस्त्वं कृतभोजसभाजयः ॥ ६१ ॥ श्रुत्वेत्याह स चादेशः प्रमाणं प्रभुसंमितः । आदास्ये विकृतीः सर्वाः कृत्वादेशममुं प्रभोः॥ ६२ ।। इत्युक्त्वा निजसंस्तारेऽक्षिपत् शेषक्षणं ततः । सामर्षः सूरिशार्दूल: शार्दूलः श्रस्तफालवत् ॥ ६३ ।। प्रातः कृत्वाऽन्ववादीत् सोऽनध्यायोऽद्यास्तु पाठने । शिशुत्वाजहषुः शिष्या महोत्सव इवागते ॥ ६४॥ मध्याह्न शुद्धमाहारमानीय यतिमण्डले । मिलिते सरसरितमाह्वाययत सदरूः ॥६५॥ आययौ परिवेष्टे स गृह्णाति विकृति नहि । अनुनीतोऽपि गीताथैः पूज्यैरप्युदिते दृढम् ॥ ६६ ॥ अमुञ्चन्नाग्रहं सङ्घनाप्युक्ते इदमभ्यधात् । मम प्रतिश्रवो हन्ताऽनाश्रवो मोच्यतां पुनः ॥ ६७ ॥ भणिष्यथाथ चेत् किश्चित्तन्ममानशनं ध्रुवम् । ततः संवाहयामासे गीतार्थैः सह साधुभिः ।। ६८ ॥ तत उत्सङ्गमारोप्य शिशिक्षे तैरसौ सुधीः । परदेशे विहर्ता त्वंवत्स ! भूयात् सचेतनः ॥ ६९ ॥
शास्त्रं वंशो जातिः प्रज्ञा कुलमनणुसंयमाः सन्ति ।
जयिनश्च यमा नियमास्तथापि यौवनमविश्वास्यम् ॥ ७० ॥ 15
इति पूज्योपदेशश्रीशृङ्गारैः स तरङ्गितः । मानयन् स्वान्यदेशीयलब्धवर्णास्तपस्विनः ॥ ७१ ॥ ततः श्रीभीमभूपालपृच्छायै राजसंसदम् । संप्राप गुर्वनुज्ञातो राज्ञां ज्ञातः पुरापि यः ॥ ७२ ॥ सुवर्णमणिमाणिक्यमये पीठे च भूपतिः । न्यवेशयद् बुधं बन्धुं हेमान्यत् सौरभाद्भुतम् ।। ७३ ॥ तदा च मालवाधीशविशिष्टाः पुनराययुः । स्वरूपं निजनाथस्य भूपालाय व्यजिज्ञपन् ॥ ७४ ॥ देव ! त्वद्विदुषां प्रज्ञाप्रातिभै रञ्जितो नृपः । श्रीभोजः सम्यगुत्कण्ठां तेषु धारयते प्रभुः ॥ ७५ ।। ततः प्रहिणुत प्रेक्षादक्षनाथ ! प्रसद्य तत् । अन्योन्यं कौतुकं विद्वद्भूभृतां विद्यते यथा ।। ७६ ॥ राजा प्राह महाविद्वानास्ते मदान्धवो नवः । परदेशे कथं नाम प्रस्थाप्योऽसौ खजीववत् ॥ ७७ ॥ प्रतिपत्तिं ममेवास्य चेद्विधत्ते भवत्पतिः । प्रवेशादिषु मानं च स्वयं दत्ते तदस्तु तत् ॥ ७८ ॥ सूराचार्योऽपि दध्यौ च तोषाद् भाग्यमिहोदितम् । मम पूज्यप्रसादेन यत् तस्याह्वानमागमत् ॥ ७९ ॥ अथाह भूपते' धाराधिनाथकृतिनां मया । गाथया कविता दृष्टा तत्रोत्तरमदामहम् ।। ८०॥ शमिनां कौतुकं नः किं विचित्रे जगति ध्रुवे । श्रीमद्भोजस्य चित्रार्थ गम्यते "त्वदनुज्ञया ॥ ८१॥ राजाह तत्र माता त्वं किं तं वर्णयिष्यसि । स प्राहाहं मुनिर्भूपं कुतो हेतौ" स्तुवे ततः ॥ ८२ ॥ ऊरीकृते प्रधानैश्च तत्र मालवभूपतेः । प्रयाणायानुजज्ञे तं विज्ञेशं भीमभूपतिः ॥ ८३ ॥
गजमेकं ततः प्रैषीत् सप्तीनां शतपश्चकम् । पदातीनां सहस्रं च स बन्धौ भक्तिनिर्भरः॥ ८४ ॥ 80
शुभे मुहूर्ते नक्षत्र-वार-ग्रहबलान्विते । चरे लग्ने ग्रहे क्रूरे तत्रस्थे शुभवीक्षिते ॥ ८५ ॥ गुरुसङ्घाभ्यनुज्ञातो बहिः प्रस्थानमातनोत् । पञ्चमेऽह्नि प्रयाणं च चक्रे चक्रेश्वराकृतिः ॥ ८६ ॥-युग्मम् । ततः प्रयाणकस्तोकमेवासौ गूर्जरावनेः । सन्धिक्षोणिमवापाथ" ससज्ज स च सज्जयः ॥ ८७ ॥ धाराधिरूढप्रज्ञाभूर्धारापुरमवाप्तवान् । प्रधानैश्च प्रतिज्ञातं ज्ञापितः स्वप्रभुस्ततः ।। ८८ ॥
ततः सर्वद्धिसामग्र्या सैन्यमान्यमदैन्यभूः । अवन्तिनायकः सजयित्वा"ऽस्याभिमुखोऽचलत् ॥ ८९ ।। ___ 10 व्यहृत्य । 2 N हृतो। 3 N सेक्षणं । 4 D सूरिसूरि 1 5 N च । 6 N हेमात्य। 7 A भूपते धराधिनाथः । 8N'कृतिना। 9 N गाथाया। 10 N ध्रुवम् । 11 N तदनु। 12 N हेतोः। 13 N 'मवाप्याथ । 14 N सज्जयिता।
20
25