________________
१८. सूराचार्यचरितम् ।
दन्तावलैः कलैर्विन्ध्य इव पर्यन्तपर्वतैः । रथैर्ध्वनिप्रथैरभैर भैर भ्रवद् व्यभात् ॥ ९० ॥ शोभमानो वराश्वयैः कल्लोलैरिव वारिधिः ।
१५५
1
पदातिराजिभिजे' राजा राजेव तारकैः ॥ ९१ ॥ - त्रिभिर्विशेषकम् । राजामात्योपरोधेन' व्रताचारव्यतिक्रमे । प्रायश्चित्तचिकीश्चित्ते' सूरिरारूढवान् गजम् ॥ ९२ ॥ दृग्गोचरे करिस्कन्धात् तावुत्तीर्य स्थितौ भुवि । राजा च मुनिराजश्च मिलितौ भ्रातराविव ॥ ९३ ॥ देशागतमहाविद्वदुचितं नृपकोशतः । प्रवालकमयं पट्टं तदध्यक्षाः समानयन् ॥ ९४ ॥ नियुक्तैश्वाथ तैः स्थूलवेष्टनेभ्यो विवेष्ट्य च । कम्बिकाहस्तमानेन दैर्घ्यविस्तरयोः समः ॥ ९५ ॥ अष्टाङ्गुलोच्छ्रयः सूर्यबिम्बवत्तेजसा दृशा । दुर्दर्शः शुद्धभूपीठे व्यमुच्यत नृपाज्ञया ।। ९६ ।। -युग्मम् । अत्राध्वमिति भूपालानुज्ञाताः प्रत्यलेखयन् । ते रजोहरणात् त्रिस्तं तत्रोपविविशुस्ततः ॥ ९७ ॥ अथ श्रीभोज आह स्मौरणरोमा लिपिच्छकात् । किं नु प्रमार्जितं रेणुजीवा' वात्र 'लसन्ति किम् ॥ ९८ ॥ 10 उपविष्टस्ततः सूरिः कम्पमानशरीरकः । राज्ञा पृष्टः कथं कम्पो जज्ञे वः प्राह सोऽप्यथ ॥ ९९ ॥ राजपत्तीन् विकोशास्त्रहस्तान्' वीक्ष्य बिभेम्यहम् । राज्ञोचेऽसौ स्थिती राज्ञां स प्राहासौ प्रतिस्थितिः ॥१००॥ अस्त्वेवमिति राज्ञोक्ते स जैनीमाशिषं ददौ । भूपालायोत्तरस्थैर्यहर्षिताय कलानिधिः ॥ १०१ ॥ हुत्वा मन्त्री विधाता लवणमुडुगणं सान्ध्यतेजः कृशानौ धात्रीपात्रं विमोच्य द्विजनिनदमहामन्त्रघोषेण यावत् । आदायेन्दुं घर कृषति मुहुरुषा शाकिनी ताम्रचूड "
ध्वानान् तावज्जय त्वं वसुमतिसुमनोमंडले भोजराज ! ॥ १०२ ॥ परस्परं प्रशंसाभिर्निर्गम्य कमपि क्षणम् । राजा स्वं मन्दिरं प्राप सूरिः पुर्यन्तरीयिवान् ॥ १०३ ॥ १५. मध्ये नगरि तत्रास्ति विहारो हारवत्" क्षितेः । जनाद् विज्ञाय तत्रायात् सूराचार्यः कलानिधिः॥१०४॥ सुवर्णमणिमाणिक्यपूजाभिः प्रसरत्प्रभाः । प्रतिमा वीतरागाणां ववन्दे भक्तिनिर्भरम् ॥ १०५ ॥ लुठत्पाठकपाठाप्तिकर्म्मठाशठपण्डिते । प्रणष्टबठरे प्रायान्मठे निष्ठितकल्मषः ॥ १०६ ॥ तत्र "बूटसरखत्याचार्योऽनार्यतमोऽर्यमा । अस्ति प्रशस्तिर्यस्यास्ति विश्वविद्वन्मुखे सदा ॥ १०७ ॥ सर्वाभिगमपूर्वं च प्रणतस्तैः प्रभुर्मुदा । तच्छिष्याः प्राणमन्तामून् " सौवागतिकवाणयः ।। १०८ ।। तैस्तथातिथयो नैव गोचरे प्रहितास्तदा । आनीय शुद्धमाहारं भोजिता भक्तिपूर्वकम् ॥ १०९ ॥ साधर्मिकनृपश्राद्धकुशलप्रश्नकेलिभिः । अपराह्नोऽभवत् तेषां परितोषभराल्लघुः ॥ ११० ॥ अवलेपश्च भूपस्य प्रभूतातिशयादभूत् । तदा कदाचिदम्भोजादपि कीटः प्रजायते ॥ १११ ॥ असौ षडपि संमील्य दर्शनानि तदाऽभणत् । भवद्भिर्भ्राम्यते लोकः पृथगाचारसंस्थितैः ११२ ॥ तस्मात् सर्वेऽपि संगत्य दर्शनस्थ " मनीषिणः । कुरुध्वमेकमेवेदं सन्दिहाम यथा नहि ॥ ११३ ॥ विज्ञप्तं मत्रिमुख्यैस्तु भूपः प्राच्योऽपि कोऽपि न । समर्थोऽपि विधाताऽऽसीदीदृक्षस्येह कर्मणः ॥ ११४ ॥ भूपतिः " प्राह किं कोऽपि परमारान्वये पुरा ।
30
आसीत् स्वशक्तितो भोक्ता सगौडं दक्षिणापथम् ॥ ११५ ॥
1 A विभात् । 2 N B C भ्राजद् । 3 D राजमर्त्योपरोधेन । 4 N प्रायश्चितं चिकीर्षुश्चित्ते | 5 B N तदध्यक्षः समानयत् । 6 D रेणुर्जीवा | 7 N चात्र नसंति । 8 N Sथ । 9 N राजपत्नी विकाशस्त्रिहस्तान् । 10 N व्रतस्थितिः । 11 B शाकिनीं ताम्रचूडध्वानां । 12 N हारवक्षिते । 13 N चूडसर° । 14 N 15 N दर्शनस्य । 16 N भूपतिं ।
5
15
20
25