________________
10
प्रभावकचरिते .. तूष्णीकेष्विति विश्रुत्य तेषु भूपो निजैनरैः । समपिण्डयदेकत्र वाटके तान् पशूनिव ॥ ११६ ॥ सहस्रसंख्यया तत्र पुंसः स्त्रीरपि चानयत् । भोक्तं नादाच सर्वेषामैकमत्यचिकीर्षया ॥ ११७॥ अनादिसिद्धशास्त्रौघप्रमाणैश्च निजैनिजैः । मतिरेका' कथं तेषां धान्येष्वेको यथा रसः ।। ११८ ॥ क्षुधा बाधापरीणामादैकमत्यं त्वजायत । जीवो निजः कथं रक्ष्य इति चिन्तामहाज्वरे ॥ ११९ ॥ तन्मध्ये दर्शनस्थित्या सूराचार्योऽपि चागमत् । सर्वैरैक्येन सोऽभाणि सान्त्वनापूर्वकं तदा ॥ १२० ॥ भूपालः काल एवायं य एवं दर्शनबजे । ऐक्यबुद्धिं विधित्सुस्तन्न भूतं न भविष्यति ॥ १२१ ॥ भवन्तो गूर्जराश्छेका वाक्प्रपञ्चेन केनचित् । निवर्त्तयध्वमेनं कुविकल्पादमुतो दृढात् ।। १२२ ॥ परं सहस्रलोकानां भवन्तः प्राणदानतः । उपार्जयध्वमत्युग्रं पुण्यं यद्गणनातिगम् ॥ १२३ ॥ सूराचार्यस्ततः प्राहातिथीनां नः किमागतौ । कार्य भवेन्महीशोऽपि न नः' प्रतिवदेत् किमु ॥ १२४ ॥ परन्तु दर्शनश्रेणिराराध्याऽनादिपद्धतिः । तदुक्तोपक्रमं किञ्चित् करिष्यामो विमोचकम् ॥ १२५॥ अमात्यपार्श्वतो भूपपुरतोऽख्यापयद् गुरुः । आयातयातमस्माकं नृपेण सह नाग्रतः ॥ १२६ ।। परं दर्शनिलोकानां बहूनामनुकम्पया । किंचिद्वदामि चेद्भूपोऽवधारयति तत्त्वतः ॥ १२७ ॥ राजापि शीघ्रमायातु गूर्जरः कविकुञ्जरः । इत्युक्ते मत्रिभिः सार्धं स ययौ राजमन्दिरम् ॥ १२८ ॥ अवदद् भूपते ! अभ्यागतानामातिथ्यमद्भुतम् । उचितं विदधे सम्यक् तप एव तपस्विनाम् ॥ १२९ ॥ परं न नः स्वकं' कार्य दर्शनानि धृतानि यत् । तत्तु दूयेत तेनैव वयं यामो भुवं स्वकाम् ॥ १३०॥ तत्रापि हि गताः किं नु स्वरूपं कथयेमहि । धारापुरश्च संस्थानं पृच्छामो भवदन्तिके ॥ १३१ ॥ राजाहाभ्यागतानां वो नाहं किमपि संमुखम् । भणाम्येषां तु पार्थक्ये हेतुं पृच्छामि निश्चितम् ॥ १३२ ।। स्वरूपं मत्पुरो यूयं शृणुताव्यप्रचेतसः । चतुर्भिरधिकाशीतिः प्रासादानामिह स्थिता ॥ १३३ ॥ चतुष्पथानि तत्संख्यानि च प्रत्येकमस्ति च । चतुर्विंशतिरट्टानामेवं पुरि च सूत्रणा ॥ १३४ ॥ सूरिः प्राहैकमेकाटुं कुरु किं बहुभिः कृतैः । एकत्र सर्वं लभ्येत लोको भ्रमति नो यथा ॥ १३५ ॥ राजाऽवदत् पृथग्वस्त्वर्थिनामेकत्र मीलने । महाबाधा ततश्चक्रे पृथग हद्रावली मया ॥१३६॥ इत्याकावदत् सूरि रिर्वक्तृत्वकेलिषु । विद्वानपि महाराज! विचारयसि किं नहि ॥ १३७ ॥ स्वकृतान्यपि हट्टानि भक्तुं न क्षमसे यदि । अनादिदर्शनानि त्वं कथं ध्वस्तुं समुद्यतः ॥ १३८ ॥ दयार्थी जैनमास्थेयाद् रसार्थी कौलदर्शनम् । वेदांश्च व्यवहारार्थी मुक्त्यर्थी च निरञ्जनम् ॥ १३९ ।। चिरप्ररूढचित्तस्थावलेपैः सकलो जनः । एकः कथं भवेत् तस्मान्महीपाल ! विचिंतय ॥ १४०॥ श्रुत्वेति भ्रष्टकुग्राहावलेपो भूपतिस्तदा । संमान्य भोजयित्वा च दर्शनान्यमुचद् धृतेः ॥ १४१ ।।
अवस्थेयं भवद्भिश्च सांगत्याग्रहमाह्वयम् । इत्थं बहुमतोऽगच्छन् निजं सूरिरुपाश्रयम् ॥ १४२ ॥ ६६. तत्र व्याकरणं श्रीमद्भोजराजविनिर्मितम् । तच्च विद्यामठे छात्रैः पठ्यतेऽहर्निशं भृशम् ॥ १४३ ।। मिलन्ति सुधियः सर्वे तत्राकारणमागमत् । ततः प्रचलितः सूरिः श्रीमान् "बूटसरखती" ॥१४४॥ सहैष्यामो वयमपि सूराचार्येण जल्पिते । गूर्जरावनिविद्वत्ताशया च न्यषेधि तैः ॥ १४५ ॥ दर्शनार्थे परिश्रान्ता यूयमद्यावतिष्ठथ । सदोद्यतः पुनरसौ प्राह तत्प्रेक्षणोत्सुकः ॥ १४६ ॥ तारुण्ये कः श्रमो युष्मादृशविद्वनिरीक्षणे । कुतूहलाद् विहारो नः समागच्छाम एव तत् ॥ १४७ ।। अथ तेऽप्यनुमन्तारोऽप्रतिषेधेन तान् सह । नीतवन्तस्तदा पाठशालायां शङ्कितास्तदा ॥ १४८॥
20
25
30
1 N गतिरेकः। 2 A D क्षुदा। 3D महेशोऽपि। 4 A B न न प्रति। 5 N सहसाग्रतः। 6N भूष । 7 N पर ततः कथं । 8 N कथयामहो। 9 A B भूरिवत्कृवकेलिषु। 10 N तत्र । 11 N चूडसर । 12 A सरस्वतीं।