________________
१८. सूराचार्यचरितम् । उपाध्यायश्च तत्राहातिथयः कुत आययुः । ऊचे तत्रस्थिताचार्यैरणहिल्लपुरादिति ॥ १४९॥ विशेषसम्भ्रमाच्चक्रेऽध्यापकः' स्वागतादिकम् । उपावीविशदेषोऽपि प्रधानासनि तद्वयम् ॥ १५० ।। सूराचार्यस्ततः प्राह ग्रन्थः कोऽत्र प्रवाच्यते । कृतिः श्रीभोजराजस्य शब्दशास्त्रं स चावदत्॥१५॥ प्रोच्यतां तन्नमस्कार इत्युक्तेऽभ्यागतैर्बुधैः । उपाध्यायः सह च्छात्रैः पटुवरमुवाच तम् ॥ १५२॥
तद्यथाचतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं शुद्धवर्णा सरखती ॥ १५३ ॥ सूराचार्यस्ततः प्राह किञ्चिदुत्प्रासगर्भितम् । एवंजातीयविद्वांसो देशेऽत्रैव न चान्यतः ॥ १५४ ॥ अस्माभिर्भारती पूर्वमश्रावि ब्रह्मचारिणी । कुमारी साम्प्रतं तत्र व्यपदिष्टा वधूरिति ॥ १५५ ॥ चित्रमश्रुतपूर्व तदन्यत् पृच्छामि किञ्चन । मातुलस्य सुता गम्या यथाऽऽस्ते दक्षिणापथे ॥ १५६ ॥ 10 सुराष्ट्रायां भ्रातृजाया देवरस्य यथोचिता । भवद्देशे तथा गम्याऽनुजाङ्गजवधूः कथम् ॥ १५७ ॥ यद्वधूशब्दसामीप्ये 'मानसे रमतां मम' । प्रयुक्तं तद् भवन्त्येव देशाचाराः पृथग्विधाः ॥ १५८ ॥ अनुत्तरं प्रतिहतश्चालयन्नन्यसंकथाः । कालं विलम्बयामासेष्टानध्यायकृतादरः॥ १५९॥ सन्ध्यावसरसंप्राप्तः श्रीभोजनृपतेः पुरः । अपराहृतिवृत्तं स जगौ विस्मयकारकम् ॥ १६० ।। भपश्च विस्मितः प्राह सम्भाव्यं गर्जरावनौ । इदं प्रातर्विलोक्योऽसौ विद्वानाहय निश्चितम् ॥ १६१॥ 15 तत्रस्थाचार्यपार्श्वे च भूपालः प्रेषयन्नरान् । आह्वातुमतिथिं ते 'च भक्तिपूर्व तमाह्वयन् ॥ १६२ ॥ ततो बूटसरस्वत्याचार्येण सह स प्रभुः । ययौ श्रीभोजभूनाथसभां स्वर्गसभानिमाम् ॥ १६३ ॥ राज्ञा नृपाङ्गणेऽग्रे च शिलैका निहिता तदा । गूर्जराने निजप्राणस्फूर्तिदर्शनहेतवे ॥ १६४ ॥ तत्र पूर्ण पुनश्छिद्रं प्राग् विधाप्य पिधाय' च । तद्वर्णसमकल्केन तादृशोऽपि छलार्थिनः ॥१६५॥-युग्मम् । आगच्छन्तं तदाऽऽलोक्य सूरि शरमिलापतिः । आकर्ण धनुराकृष्यामुचल्लले दृशं दधन् ॥ १६६ ॥ 20 सूराचार्यश्च सूक्ष्मेक्षी कल्कालेपं तटस्थितम् । बाणामोत्कीर्णमालोक्य गर्भार्थं काव्यमब्रवीत् ॥ १६७ ॥
तथा हिविद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन __ श्रीमन् पाषाणभेदव्यसनरसिकतां मुश्च मुश्च प्रसीद । वेधे कौतूहलं चेत् कुलशिखरिकुलं बाणलक्षीकरोषि ।
25 ध्वस्ताधारा धरित्री नृपतिलक ! तदा याति पातालमूलम् ॥ १६८॥ इत्थमद्भुतसामर्थ्यवर्णनात् तोषितो नृपः । अधृष्यप्रज्ञमेनं श्रीधनपालोऽपि बुद्धवान् ॥ १६९ ॥ व्यचिन्तयच्च बुद्धव' विज्ञानं भूपतेरियम् । गर्भितोक्तिरहो जैना जीयन्ते केन मेधया ॥ १७ ॥
निजाश्रयं ययौ श्रीमान् सूराचार्यो नृपार्चितः। ६७.
राजाऽऽस्थानमथाऽऽस्थाय समस्तविदुषोऽवदत् ॥ १७१ ॥ 30 गूर्जरोऽयं महाविद्वानाययौ श्वेतचीवरः । अनेन साध कोऽपीह वादमुद्रां बिभर्तु वः ॥ १७२ ॥ पण्डितानां सहस्रार्धमध्ये सर्वेऽप्यवाङ्मुखाः । भग्नास्तत्प्रतिघातेन घनगार्भका इव ॥ १७३ ॥
विलक्षो नृपतिः प्राह किं गेहेनर्दिनः खलु । स्वयं वृत्तिभुजोऽस्माकं विद्वजल्पा मुधा बुधाः ॥ १७४ ॥ 1N व्यापकः। 2N तं च। 30 ततश्चडसर। 4 N नृपांगणाग्रे च। 5A विधाय। 6N सूरीश्वरमिला। 7N बुद्धिं च।