________________
प्रभावकचरिते
तेषामेको महाप्राज्ञः प्रादान्मत्रं प्रभो ! शृणु । मा वैलक्ष्यं प्रपद्येथा रत्नगर्भा वसुन्धरा ॥ १७५ ॥ निर्जरा इव देहस्था गुर्जराः श्वेतभिक्षवः । दुर्जेयास्तदतो मन्त्रसाध्यं कार्यमिदं प्रभो ! ॥ १७६ ॥ छात्रः कोऽपि महाप्राज्ञ आषोडशसमावया:' । प्रमाणशास्त्रो उपन्यास पाठ्यतामशठः सुधीः ॥ १७७ ॥ श्रुत्वेति भूपतिस्तुष्टिपुष्टः पण्डितवाक्यतः । अस्त्वेवमित्यवादीत् तत् त्वमेवैतत् कुरुष्व भो ! ॥ १७८ ॥ एकः पटुर्बटुः सौम्यः प्रज्ञावक्तृत्वशेवधिः । तर्कशास्त्र सदभ्यासोपन्यासं 'पाठतस्ततः ॥ १७९ ॥ अतिव्यक्ताक्षरं तेनादायि पाठो गुरोः पुरः । एतद् विज्ञाप्य राजानं मुहूर्तः शोधितः शुभः ॥ १८० ॥ ज्ञापितं वादसूराय सूराचार्याय भूभुजा । समाहूय च वादार्थं स्थापितोऽसौ वरासने ॥ १८१ ॥ पट्टवासोनिवसनश्छात्रः शृङ्गारितस्ततः । सुवर्णरत्नपुष्पाद्याभरणैः शरणैः श्रियः ॥ १८२ ॥ स्वमङ्कं तं समारोप्य राजाह प्रतिवाद्यसौ । ततो जगाद वादीन्द्रः प्रकटाक्षरपद्धतिः ॥ १८३ ॥ क्षीरकण्ठः क्षीरगन्धवक्त्रोऽपवित्रमवागसौ । यूनां न उचितो नैव समानो' विग्रहः खलु ॥ १८४ ॥ राजाह रभसा नायं बाल एवेति भाव्यताम् । शिशुरूपा ह्यसौ ब्राह्मी जितेऽस्मिन् मत्सभा जिता ॥ १८५ ॥ पूर्ववादो लघोरस्तु सूरिणोक्ते ततः शिशुः । यथालिखितपाठं च व्यक्तमस्खलिताक्षरम् ॥ १८६ ॥ अपदच्छेदवाक्यं तं विशरारुविभक्तिकम् । शृण्वन्मेने ह्यसावर्थावगमेन' विना वदेत् ॥ १८७ ॥ - युग्मम् । इत्येवं शङ्कया क्षुण्णं विमृशन्निश्विकाय च । पट्टिकापाठ एवायमीदृशोऽत्र नहीतरत् ॥ १८८ ॥ जपेद् यावद् रयेणासौ तावत् परुषशब्दतः । पाश्चात्यं तु पदं कूटं बभणे भवता हि भो ! ॥ १८९ ॥ पुनर्भणेति स प्रोक्तो रभसेति ततोऽवदत् । पट्टिकायां ममेदृक्षं लिखितं निश्चयो मम ॥ १९० ॥ सूराचार्य इति श्रुत्वा प्राह सन्तोषनिर्भरम् । यादृग् लक्षणशास्त्रादौ श्लोको वादोऽपि तादृशः ॥ १९१ ॥ तदापृच्छामहे श्रीमन् ! भोजभूपालपुङ्गव ! । अदर्शि मालवो देशो मण्डकाः स्वादिता अपि ॥ १९२॥ इत्युक्त्वा प्रययौ सूरिर्मठं हठजितद्विषन् । लज्जा-मन्युभराक्रान्तो राजाऽऽस्थानं व्यसर्जयत् ॥ १९३ ॥ 20 ६८. श्रीमान् बूटसरखत्याचार्यः प्राघुणमभ्यधात् ।
१९७ ।।
।। १९८ ॥
अस्माकं शासनोद्यतात् सुखं त्वन्मृत्युतोऽसुखम् ॥ १९४ ॥ श्रीभोजराजः स्वसभाजेतारं हन्ति निश्चितम् । जये पराजये वापि न श्रेयः किमु कुर्महे ॥ १९५ ॥ सूराचार्यस्ततोऽवादीद् वीरधोरणिधूर्धरः । स्वं रक्षिष्येऽहमात्मानं भवद्भिर्माऽनुतप्यताम् ॥ १९६ ॥ तदा श्रीधनपालेन प्रेषित:" कविचक्रिणा । पुरुषो गूर्जराचार्यं प्रोचे स्वस्वामिवाचिकम् ।। पूज्या छलेन" केनापि मद्वेश्मायान्तु सत्वरम् | अविश्वास्यो नृपस्यास्य प्रसादो पि भयंकरः मण्डनं सर्वदेशानां भवादृग् विश्रुतः सुधीः । भाग्यातिशयतो माहग्जनैर्दुर्लभ एव यत् ॥ १९९ ॥ मद्दर्शनानन्तरं च विधेया कापि नाधृतिः । सुखेन गूर्जरं देशं प्रापयिष्यामि निश्चितम् ॥ २०० ॥ अहो जागर्ति भाग्यं वः साधूनामिति भाषिणाम् । प्रातः क्षणेऽश्ववारैस्तचैत्यं " बाढमवेष्ट्यत ॥ २०१ ॥ सन्तोषाज्जयपत्रं वः प्रदास्यति नृपाप्रणीः । विद्वांसमतिथिं प्रेषयध्वं विध्वस्तवादिनम् ॥ २०२ ॥ इति वास्तव्यसूरिं तेऽभ्यधुर्विधुरिताननम् । आयास्यतीति तानाह शून्यतायातचेतनः ॥ २०३ ॥ मध्याह्ने कर्कशे सूर्यतापात् कुम्भे गुरौ तदा । कृतवेषपरावर्तो दाम दत्वा दृढं गले ॥ २०४ ॥ तत्रत्यैकानगारेण प्रावृत्यासौ जरत्पटीम् । मलिनां निःसरंचैत्यद्वारेण जगदे भटैः ॥ २०५ ॥ युग्मम् ।
5
10
15
25
30
१५८
4
1 N समाह्वयः । 2 N पाठत। 3N पाठं । 4 N पुष्पाढ्याभरणैः । 5 N समाने । 6 N तत् । 7 N 'वगमो न । 8 N सप्तो । 9 N हतजितद्विषम् । 10 N प्रेरितः । 11 N पूज्याश्च येन । 12 D प्रातरवेष्ट्यतः N वाटमवेष्ट्यत ।
13 N सन्तोषजय ।