________________
१८. सूराचार्यचरितम् ।
१५९ बहिः कथं तु निर्यासि मध्ये गच्छ सिताम्बर ! । अर्पिते गूर्जरे सर्वे सर्वतो मुत्कला ध्रुवम् ॥ २०६॥ स च श्रुत्वा करालोक्तिर्विकरालमुखोऽवदत् । मध्ये सिंहासनासीनं भूपालमिव गर्वतः ॥ २०७॥ कर्णे धृत्वा प्रभोरले नयतास्माकवैरिणम् । जयपत्रमथाप्नोति यमपत्रमथापि वा ॥ २०८ ॥ तृषाक्रान्ता वयं युष्मत्पुरवास्तव्यतां गताः । भवद्धर्मेण नीराय गच्छामो मुञ्चत द्रुतम् ॥ २०९॥ एकेन चाश्ववारेण कृपया मोचितोऽथ सः । मनीषिमौलिरत्नस्य गृहं प्रापापभीः प्रभुः ॥ २१०॥ 5 स चाह वाक्पथातीताच्छेकताने यतीश्वरः । यमदृष्टिपथादन्तर्धाय मे दृक्पथे स्थितः ॥ २११॥ अद्य ते जन्म मन्येऽहं गच्छस्तेऽद्य सपुण्यकः' । यद्भवानागतो जैनशासनव्योमभास्करः ॥ २१२ ॥ कथमागा इदं पृष्टः सूराचायों यथातथम् । अभ्यधादिति च श्रुत्वा परमानन्दमाप्तवान् ॥ २१३ ॥ भूमीगृहे सावकाशेऽवस्थाप्यादरपूर्वकम् । शुद्धाहारेण तं भक्त्या प्रत्यलाभयदुद्यतः ॥ २१४ ॥ ततस्ताम्बूलिकस्तोमं तत्र यान्तं निरीक्ष्य सः । अत्यादरेण संमान्य भोजनाच्छादनादिना ।। २१५॥ 10 ततश्चाभ्यर्थयामास तान् मम भ्रातरं स्वकम् । अणहिल्लपुरं यावत् परानयत निश्चितम् ॥ २१६ ॥ तेऽप्यूचुर्ब्राह्मणः पूज्यो राज्ञां ज्ञातो बुधाग्रणीः । तदादेशः प्रमाणं नः कार्यमावश्यकं ह्यदः ॥ २१७ ।। नावानिवृतिराधेया नयामः सपरिच्छदम् । यानारोहे वरे' मुक्तौ निश्चिन्तो वर्ततामसौ ॥ २१८ ॥ श्रीमता धनपालेन दीनाराणां शतं ददे । अङ्गीकरणतोऽमीषां रङ्गसङ्गतरङ्गिणा ॥ २१९॥ गुरचोल्लकमध्ये च गुप्तं कृत्वा गुरुं तदा । पर्याण्य वृषभान शीघ्रं ते चेलुगूजरावनौ ॥ २२० ॥ 15
महीतटागतेन श्रीसूराचार्येण सद्गुरोः । विज्ञापितं नरैरात्मागमनं कोशलोत्तरम् ॥ २२१ ॥ ६९. इतश्च विविशुश्चैत्यमपराह्ने भटाः स्वयम् । साधुं स्थूलोदरं दृष्ट्वा सिंहासन्युपवेशितम् ॥ २२२ ॥
प्रधानवस्त्रसंवीतमुद्यन्मदकलाकृतिम् । एवमूचुनपादेशानिर्गच्छत जिनालयात् ॥ २२३॥-युग्मम । मध्ये योऽत्र विलम्बः सोदूखले घातवञ्चना । उत्थाय सोऽप्रतो भूत्वाऽश्ववारैः सह जग्मिवान् ॥ २२४॥ पार्थिवस्य पुरो भूत्वाऽवतस्थे मौनमास्थितः । विलक्षण ततो राज्ञाऽऽह्वायका' जल्पितास्तदा ॥ २२५ ॥ 20 कोऽयं भवद्भिरानीतो बठरः स्थूलदेहभृत् । गतोऽसौ गूर्जरश्छेको भवतामग्रतो ननु ॥ २२६ ॥ अक्षिण रेणुं हि निक्षिप्य केनाप्यन्धाः कृताः कथम् । भवतां सदृशः कश्चिञ्चेतनारहितो नहि ॥ २२७ ॥ तेऽप्यूचुर्नाथ ! नीरस्य वाहकं दुर्गतं मुनिम् । एकं मुक्त्वा न कस्यापि निर्गमोऽस्मत्पुरः प्रभो! २२८ ॥ भूप आह परावृत्य वेषं वः पश्यतां ययौ । विजित्य नः" सभां नान्यस्तं विनोत्पन्नबुद्धिमान् ॥ २२९ ॥ पुरस्थं प्राह राजा स्वमावासं गच्छ पुण्यतः । मूर्खत्वं हि वरं श्लाघ्यं येनास्मत्तोऽपि जीवितः ॥ २३० ॥ 25
इत्यसौ प्रहितो राज्ञा मठे व्यावृत्य चाययौ । मूर्ध्न एव भ्रुवो वाक्षतवर्द्धन-मुण्डने ॥ २३१ ॥ १०. इतः श्रीभीमभूपालः प्रजिघाय नरान् निजान् । आह्वायकान् निजभ्रातुर्मातुलो ब्रतिभिः" सह॥२३२॥
स्वदेशे प्रकटो भूत्वा राजधानीमथाययुः । गुरवः" सङ्घसंवीतास्तस्याभिमुखमागमन ।। २३३ ॥ राजा च सर्वसामग्र्या प्रतिपन्थीव कः शुभे । आचार्यः स्वगुरोः पादौ प्रेक्ष्य ह्रीमानिवानमत् ॥ २३४ ॥ प्रत्यासन्नश्च तेषां स सर्वाभिगमपूर्वकम् । योगीवाष्टाङ्गयोगेन प्रह्वोऽभिहितवान् वचः ॥ २३५॥ 30 सफलाऽद्य गुरोराशा सफला मातुराशिषः । प्रसन्ना दृक् च मादृक्षे श्रीसङ्घस्य फलेग्रहिः ॥ २३६ ॥ अविमृश्य विधायी च गतो मालवके तदा ।
अक्षतोऽहमिहागच्छं यज्जित्वा भोजपर्षदम् ।। २३७ ॥-युग्मम् । 1N सुपुण्यकः । 2 N यथा तथा। 3 N अभ्ययादिति । 4 A D N यानारोहेतरे । 5 N भक्तौ। 6 N गुरवोऽल्लक । 7N हायिका। 8N ततो। 9 N प्यन्धः कृतः। 10D N न सतां । 11 N वृत्तिभिः। 12 A सभूपः संघ संवीतः खस्या : D स संघः संवीतः स्वस्या ।