________________
प्रभावकचरिते तथाऽन्तेवासिनोऽमी श्रीगुरुपादाग्रतो मम । क्ष(क्षु ?)णं नाकथयिष्यन्ताशिक्षिष्यत न च प्रभुः ॥२३८॥ बालोऽहं यदि दर्पण न व्यधास्यं प्रतिश्रवम् । गुरुमस्तकहस्तस्य कः प्रमाणमथोच्यते ॥२३९॥-युग्मम्। इत्याकर्ण्य प्रभुयॊणः शोणहद इव स्थिरः । उवाच वाचमाचारचारुचारित्रचक्षुरः ॥ २४०॥ एवं प्रतिश्रवं क्लीबदुष्करं विदधीत कः । निर्वाहयेत च श्रीमन् ! विना त्वामाप्तवाग्वरम् ॥ २४१ ॥ सगच्छ-सङ्घाश्च वयमाचामाम्लैरुपस्थिताः । आभवद्वदनालोकात् सम्यक्शासनदेवताम् ॥ २४२ ॥ सगद्गदमुदित्वैवं स बाढं परिषस्वजे । गुरुभिश्चाथ भूपोऽपि श्रीभीमः प्राह सादरम् ॥ २४३ ॥ मनीषी विनयी छेकस्तत्कालोत्पन्नबुद्धिमान् । त्वां विना दृश्यते नान्यस्तेजस्वी दृढधैर्यभूः ॥ २४४ ॥ श्रीभोज छलयित्वा यत्तादृप्राज्ञपरिग्रहम् । आगत्याक्षतदेहस्त्वं मम तेजोऽभ्यवर्द्धय ॥ २४५ ॥
किश्चित् पृच्छामि सन्देहं नृपतिः स 'स्तुतो न वा । सूरसूरिरथ प्राह पयोवाहनिभध्वनिः ॥ २४६ ॥ 10
रसना मे महाराज! त्वां विना स्तौति नापरम् । मदुक्तस्य च काव्यस्य भावार्थ शृणु कौतुकात् ॥२४॥ शिला विद्धा सती विद्धा छिद्रे शरमुचां हि कः । विक्रमः कार्यकक्रीडां मुश्च तद व्याजतः कृताम ॥२४॥ व्यसने दृषदां भेदाद् भवतां पूर्वजो गिरिः। अबंदस्तस्य भेदे तु ध्वस्ताधारा धरित्र्यपि ॥ २४९ ॥ पातालमूलं यान्तीयं शिक्षयेऽहमिति ब्रुवन् । अपि द्विषति सच्छिक्षा दातव्या शमजीवितैः ।। २५० ॥
श्रीभीमः प्राह तच्छ्रुत्वा पुलकोद्भेदमेदुरः । मद्वन्धुना जिते भोजे का मे चिन्तास्ति तजये ॥ २५१ ।। 15 खसमीपे समारोप्य गजराजवरासने । सूराचार्यस्य भूपालः प्रवेशोत्सवमातनोत् ।। २५२ ॥ ६११. अतीचारान् स विज्ञप्य गुरुपा महामतिः । देशान्तरगतौ जातांस्तपसाऽशोधयद् दृढम् ॥ २५३ ॥
युगादिनाथ-श्रीनेमिचरिताद्भुतकीर्तनात् । इतिवृत्तं द्विसन्धानं व्यधात् स कविशेखरः ॥ २५४ ॥ यः पूर्वं पिपठीः शिष्यवर्गस्तमिह सूरिराट् । सम्यग् निष्पाद्य वादीन्द्रतया स समयोऽजयत् ॥ २५५ ।। श्रीद्रोणसूरिणेङ्गिन्यां परलोके सुसाधिते । क्षितावक्षामचारित्रपवित्रः 'सूरसद्गुरुः ॥ २५६ ॥ प्रभावनाभिः श्रीसङ्घमुन्नमय्य श्रुतोदधिः । शिष्यान्निष्पाद्य सम्पाद्य जैनप्रवचनोन्नतिम् ॥ २५७॥ योग्यं सूरिपदे न्यस्य भारमत्र निवेश्य च । प्रायोपवेशनं पञ्चत्रिंशद्दिनमितं दधौ ॥ २५८॥ आत्मारामादरः सम्यग् योगत्रयनिरोधतः ।।
__ श्रीभीमभूपतेर्बन्धुरुत्तमां गतिमाश्रयत् ॥ २५९ ॥-चतुर्भिः कलापकम् ।
श्रीसूराचार्यवृत्तं व्यरचि परिचितं वादविद्याविनोद25
क्षुभ्यद्वादिप्रवादं किमपि गुरुमुखादन्यतो वाथ किश्चित् । श्रेयो देयादमेयं जिनपतिवचनोद्योतनस्थैर्यहेतुः __सेतुजोड्याम्बुराशेर्भवतु भवभृतामद्य विद्योद्यमाय ॥ २६० ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीसूरसूरेः कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽयमष्टादशः॥ २६१ ॥ ॥ ग्रंथ० २६९, अ० २३ । उभयं ४२७७, अ० २८॥
॥ इति श्रीसूराचार्यप्रबन्धः॥
20
30
___ 1 N बालोऽयं । 2 A D °माप्तवान् भरं । 3 N °वीर्यभूः। 4 N ससुतो। 5A विधात् । 6 N द्रोणसूरिणां गया। 7N सूरि। 8AD योगत्रितयरोधतः। 9CN वाप्य ।