________________
१९. अभयदेवसूरिचरितम् । १९. श्रीअभयदेवसूरिचरितम् ।
10
श्रीजैनतीर्थधम्मिलोऽभयदेवः प्रभुः श्रिये । भूयात् सौमनसोद्भेदभास्वरः सर्वमौलिभूः ॥१॥ आदृत्याष्टाङ्गयोगं यः स्वाङ्गमुद्धृत्य च प्रभुः। श्रुतस्य च नवाङ्गानां प्रकाशी स श्रिये द्विधा ॥२॥
वदन् बालो यथाऽव्यक्तं मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि गुरुहर्षकृते यथा ॥ ३ ॥ ६१. अस्ति श्रीमालवो देशः सद्वृत्तरसशालितः । जंबूद्वीपाख्यमाकन्दफलं सद्वर्णवृत्तसूः ॥४॥ 5
तत्रास्ति नगरी धारा मण्डलायोदितस्थितिः । मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी ॥५॥ श्रीभोजराजस्तत्रासीद् भूपालः पालितावनिः । शेषस्येवापरे मूर्ती विश्वोद्धाराय यद्भुजौ ॥ ६ ॥ तत्र लक्ष्मीपति म व्यवहारी महाधनः । यस्य श्रिया जितः श्रीदः कैलासाद्रिमशिश्रयत्' ॥७॥ अन्यदा मध्यदेशीयकृष्णब्राह्मणनन्दनौ । प्रहप्रज्ञाबलाक्रान्तवेदविद्याविशारदौ ॥ ८॥ अधीतपूर्विणौ सर्वान् विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां कुलकेतनतां गतौ ॥ ९॥
श्रीधरः श्रीपतिश्चेति नामानौ यौवनोद्यमात् ।
देशान्तरदिदृक्षायै निर्गतौ तत्र चागतौ ॥ १० ॥-त्रिभिर्विशेषकम् । तौ पवित्रयतः स्मात्र लक्ष्मीधरगृहाङ्गणम् । सोऽपि भिक्षां ददौ भक्त्या तदाकृतिवशीकृतः ॥ ११ ॥ गेहाभिमुखभित्तौ च लिख्यते स्मास्य लेखकम् । टंकविंशतिलक्षाणां नित्यं दद्दशतुश्च तौ ॥ १२॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसङ्कुलम् । तत्परिस्फुरितं सम्यक् सदाभ्यस्तमिवानयोः ॥ १३ ॥ 15 जनो मत्पार्वतः सूपकारवत्सूपकारवान् । वर्त्तते निष्ठुरः किं तु मम किञ्चिन्न यच्छति ॥ १४ ॥ ब्राह्मणा अपि गीर्वाणान् मन्मुखादाहुतिप्रदाः । तर्पयन्तु फलं तु स्यात् तत्कर्मकरतैव मे ॥ १५ ॥ इतीव कुपितो वह्निरद्वैकेनापि भस्मसात् । विद्धे तां पुरीमूरीकृतप्रतिकृतक्रियः ॥१६॥-त्रिभिर्विशेषकम् । लक्ष्मीपतिर्द्वितीयेऽह्नि न्यस्तहस्तः कपोलयोः । सर्वस्वनाशतः खिन्नो लेख्यदाहाद् विशेषतः ॥ १७॥ प्राप्ते काले गतौ भिक्षाकृते तस्य गृहाङ्गणे । प्राप्तौ प्लुष्टं च तदृष्ट्या विषण्णाविदमूचतुः॥१८॥ यजमान ! तवोन्निद्रकष्टेनावां सुदुःखितौ । किं कुर्वहे क्षुधा किं तु सर्वदुःखातिशायिनी ॥ १९॥ पुनरीहकुशुचाक्रान्तसत्त्ववृत्तिभेवान् किमु । धीराः सत्त्वं न मुञ्चन्ति व्यसनेषु भवादृशाः॥२०॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् । न मे धनान्नवस्त्रादिदाहाद् दुःखं हि तादृशम् ॥ २१ ॥ यादृग्लेख्यकनाशेन निर्धर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत् क्रियते हि किम् ॥२२॥-युग्मम् । जजल्पतुश्च तावावां भिक्षावृत्ती "तवापरम् । शक्नुवो नोपकर्तुं हि व्याख्यावो लेख्यकं पुनः ॥ २३ ॥ 25 श्रुत्वातिहर्षभूः श्रेष्ठी स्वपुरस्तौ वरासने । न्यवेशयजनः स्वार्थपूरकं ध्रुवमर्हति ॥ २४ ॥ तौ चादितः समारभ्यतिथिवाररूसङ्गतम् । व्यक्तवत्सरमासाङ्कसहितं खटिनीदलैः ॥ २५ ॥ वर्णजात्यभिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यातं लेख्यकं स्वाख्याख्यानवद्धिषणाबलात् ॥ २६॥ पत्रकेषु लिखित्वा तत् श्रेष्ठी दध्यावहो इमौ । मम गोत्रसुरौ कौचित् प्राप्तौ मदनुकम्पया ॥२७॥ यद्विशोपकमात्रेण वदन्तौ ताव विस्मृतम् । दस्तरी-संपुटी'-पत्रनिरपेक्षं हि लेख्यकम् ॥ २८ ॥-युग्मम् । 30 ततः सन्मान्य सद्भोज्य वस्त्राद्यैर्बहुमानतः । स्वगेहचिन्तकौ तेन विहितौ हितवेदिना ॥ २९ ॥
जितेन्द्रियौ स तौ शान्तौ दृष्ट्वेति व्यमृशद् धनी । शिष्यौ मद्गुरुपाद्येऽमू स्तां चेत् तत्संघभूषणौ ॥ ३०॥ 1 A D शिश्रियत् । 20 व्यसनेन । 3 N °लेखक। 4 N नचापरं । 5N दुस्तरीसंपुटे । 6 B °चित्रको।
प्र०२१