________________
१६२
प्रभावकचरिते
10
15
६२. इतः सपादलक्षेऽस्ति नान्ना कूर्चपुरं पुरम् । मषीकूर्चकमाधातुं यदलं शात्रवानने ॥ ३१ ॥ अल्लभूपालपौत्रोऽस्ति' प्राक्पोत्रीव' धराधरः।
श्रीमान् भुवनपालाख्यो विख्यातः सान्वयाभिधः ॥ ३२ ॥ तत्रासीत् प्रशमश्रीभिर्वर्द्धमानगुणोदधिः । श्रीवर्द्धमान इत्याख्यः सूरिः संसारपारभूः ॥ ३३ ॥ चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे । सिद्धान्ताभ्यासतः सत्यतत्त्वं विज्ञाय संसृतेः ॥ ३४ ॥ अन्यदा विहरन् धारापुर्यां धाराधरोपमः । आगाद् वाग्ब्रह्मधाराभिर्जनमुज्जीवयन्नयम् ॥ ३५ ॥ लक्ष्मीपतिस्तदाकर्ण्य श्रद्धालक्ष्मीपतिस्ततः । ययौ प्रद्युम्न-शाम्बाभ्यामिव ताभ्यां गुरोर्नतौ ॥ ३६॥ सर्वाभिगमपूर्वं स प्रणम्योपाविशत् प्रभुम् । तौ विधाय निविष्टौ च करसम्पुटयोजनम् ॥ ३७ ।। वर्यलक्षणवर्यां च दध्यौ वीक्ष्य तनुं तयोः । गुरुराहानयोर्मूर्तिः सम्यक् स्वपरजित्वरी ॥ ३८ ॥ तौ च प्राग्भवसम्बद्धाविवानिमिषलोचनौ । वीक्षमाणौ गुरोरास्यं व्रतयोग्यौ च तैर्मतौ ॥ ३९ ॥ देशनाभीशुभिर्ध्वस्ततामसौ बोधरङ्गिणौ । लक्ष्मीपत्यनुमत्या च दीक्षितौ शिक्षितौ तथा* ॥ ४०॥ महाव्रतभरोद्धारधुरीणौ तपसां निधी । अध्यापितौ च सिद्धान्तं योगोद्वहनपूर्वकम् ॥ ४१ ॥ ज्ञात्वौचित्यं च सूरित्वे स्थापितौ गुरुभिश्च तौ । 'शुद्धवासो हि सौरभ्यवासं समनुगच्छति ॥ ४२ ॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः । नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ॥ ४३ ॥ ददे शिक्षेति तैः श्रीमत्पत्तने 'चैत्यसूरिभिः । विघ्नं सुविहितानां स्यात् तत्रावस्थानवारणात् ॥ ४४ ॥ युवाभ्यामपनेतव्यं शक्त्या बुद्ध्या च तत् किल । यदिदानीतने काले नास्ति प्राज्ञो भवत्समः॥४५॥-युग्मम् । अनुशास्तिं प्रतीच्छाव इत्युक्त्वा गूर्जरावनौ । विहरन्तौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥ ४६॥ सद्गीतार्थपरीवारी तत्र भ्रान्तौ गृहे गृहे । विशुद्धोपाश्रयालाभाद वाचां सस्मरतर्गरोः॥४७॥ श्रीमान दुर्लभराजाख्यस्तत्र चासीद् विशांपतिः । गीष्पतेरप्युपाध्यायो नीतिविक्रमशिक्षणे ॥४८॥ श्रीसोमेश्वरदेवाख्यस्तत्र चासीत् पुरोहितः । तद्गहे जग्मतुर्युग्मरूपौ सूर्यसुताविव ॥ ४९ ॥ तहारे चक्रतुर्वेदोच्चारं सङ्केतसंयुतम् । तीर्थं सत्यापयन्तौ च ब्राह्मं पित्र्यं च दैवतम् ॥ ५० ॥ चतुर्वेदीरहस्यानि सारणीशुद्धिपूर्वकम् । व्याकुर्वन्तौ स शुश्राव देवतावसरे ततः ॥ ५१॥ तद्ध्वानध्याननिर्मग्नचेताः स्तम्भितवत् तदा । समग्रेन्द्रियचैतन्यं श्रुत्योरेव' स नीतवान् ॥ ५२ ॥ ततो भक्त्या निजं बन्धुमाप्याय वचनामृतैः । आव्हानाय तयोः प्रैषीत् प्रेक्षापेक्षी द्विजेश्वरः ॥ ५३॥ तौ च दृष्ट्वान्तरायातौ दध्यावम्भोजभूः किमु । द्विधा भूयाद आदत्त दर्शनं शस्यदर्शनम् ॥ ५४ ॥ हित्वा भद्रासनादीनि तद्दत्तान्यासनानि तौ । समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः ॥ ५५ ॥ वेदोपनिषदां जैनतत्त्वश्रुतगिरां तथा । वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम् ॥ ५६ ॥
तथा हिअपाणिपादो ह्यमनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः।
स वेत्ति विश्वं नहि तस्यास्ति वेत्ता शिवो ह्यरूपी स जिनोऽवताद् वः ॥५॥ ऊचतुश्चानयोः सम्यगवगम्यार्थसङ्ग्रहम् । दययाभ्यधिकं जैनं तत्रावामाद्रियावहि ॥ ५८॥ युवामवस्थितौ कुत्रेत्युक्ते तेनोचतुश्च तौ । न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः॥ ५९॥
20
25
30
1 N पुत्रोऽपि; 'वंश्यो' इति D टिप्पणी । 2 N शक्योऽतीव। * इदं पयं नोपलभ्यते N पुस्तके। 3 N सूरिणौ तपसो। 4 N सिद्धवासो। 5N पत्तनैश्चैत्य। 6N शिक्षणात् । 7D श्रुत्यामेव । 80 ह्यरूपः।