________________
१९. अभयदेवसूरिचरितम् ।
चन्द्रशालां निजां चन्द्रज्योत्स्नानिर्मलमानसः । स तयोरार्पयत् तत्र तस्थतुः सपरिच्छदौ ॥ ६०॥ द्विचत्वारिंशता भिक्षादोषैर्मुक्तमलोलुपौ । नवकोटीविशुद्धं चायातं भैक्षमभुञ्जताम् ॥ ६१ ॥ मध्याह्ने याज्ञिकस्मार्त्तदीक्षितानग्निहोत्रिणः । आहूय दर्शितौ तत्र नियूंढौ तत्परीक्षया ॥ ६२॥ यावद् विद्याविनोदोऽयं विरिञ्चेरिव पर्षदि । वर्त्तते तावदाजग्मुर्नियुक्ताश्चैत्यमानुषाः ॥ ६३ ॥ ऊचुश्च ते झटित्येव गम्यतां नगराद् बहिः । अस्मिन्न लभ्यते स्थातुं चैत्यबाह्यसिताम्बरैः ॥ ६४ ॥ 5 पुरोधाः प्राह निर्णयमिदं भूपसभान्तरे । इति गत्वा निजेशानामाख्यातमिद' (?) भाषितम् ॥ ६५ ॥ इत्याख्याते च तैः सर्वैः समुदायेन भूपतिः । वीक्षितः प्रातरायासीत् तत्र सौवस्तिकोऽपि सः ॥६६॥ व्याजहाराथ देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवन्तौ सम्प्रापतुस्ततः ॥ ६७ ॥ मया च गुणगृह्यत्वात् स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे प्रहिताश्चैत्यपक्षिभिः ॥ ६८॥ अत्रादिशत मे क्षुणं दण्डं चात्र यथाईतम् । श्रुत्वेत्याह स्मितं कृत्वा भूपालः समदर्शनः॥६९ ॥ 10 मत्पुरे गुणिनः कस्माद् देशान्तरत आगताः । वसन्तः केन वार्यन्ते को दोषस्तत्र दृश्यते ॥ ७०॥ अनुयुक्ताश्च ते चैवं प्राहुः शृणु महीपते! । पुरा श्रीवनराजोऽभूचापोत्कटवरान्वयः ॥ ७१ ॥ स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण सूरिणा । नागेन्द्रगच्छभूद्धारप्राग्वराहोपमास्पृशा पंचाश्रयाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र राज्यं ददौ नवम् ॥ ७३ ॥ वनराजविहारं च तत्रास्थापयत प्रभुः । कृतज्ञत्वादसौ तेषां गुरूणामहणं व्यधात् ॥ ७४॥ 15 व्यवस्था तत्र चाकारि सङ्घन नृपसाक्षिकम् । सम्प्रदायविभेदेन लाघवं न यथा भवेत् ॥ ७५ ॥ चैत्यगच्छयतित्रातसम्मतो वसतान्मुनिः । नगरे मुनिभिर्नात्र वस्तव्यं तदसम्मतः ॥७६॥ राज्ञां व्यवस्था पूर्वेषां पाल्या पाश्चात्यभूमिपैः । यदादिशसि तत्कार्यं राजन्नेवंस्थिते सति ॥ ७७ ॥ राजा प्राह समाचारं प्राग्भूपानां वयं दृढम् । पालयामो गुणवतां पूजां तूलंघयेम 'न ॥ ७८ ॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः । एधन्ते युष्मदीयं तद् राज्यं नानास्ति संशयः ॥ ७९ ॥ 20 उपरोधेन नो यूयममीषां वसनं पुरे। अनुमन्यध्वमेवं च श्रुत्वा तेऽत्र तदा दधुः॥८॥ सौवस्तिकस्ततः प्राह स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थे श्रीमुखेन प्रदीयताम् ॥ ८१ ॥ तदा समाययौ तत्र शैवदर्शनवासवः । ज्ञानदेवाभिधः "कूरसमुद्रबिर(रु ? )दाई (हिँ ?)तः ॥ ८२॥ अभ्युत्थाय समभ्यर्च्य निविष्टं निज आसने । राजा व्यजिज्ञपत् किञ्चिद्य विज्ञप्यते प्रभो! ॥ ८३ ॥ प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् । इत्याकर्ण्य तपस्वीन्द्रः प्राह प्रहसिताननः ॥ ८४ ॥
25 गुणिनामर्चनां यूयं कुरुध्वे विधुतैनसाम् । सोऽस्माकमुपदेशानां फलपाकः श्रियां निधिः ॥ ८५ ॥ शिव एव जिनो 'बाह्यत्यागात् परपदस्थितः । दर्शनेषु विभेदो हि चिहं मिथ्यामतेरिदम् ॥८६॥ निस्तुषव्रीहिहट्टानां मध्ये त्रिपुरुषाश्रिता । भूमिः पुरोधसा ग्राह्योपाश्रयाय यथारुचि ॥ ८७ ॥ विघ्नः स्वपरपक्षेभ्यो निषेध्यः सकलो मया । द्विजस्तच्च प्रतिश्रुत्य तदाश्रयमकारयत् ॥ ८८॥ ततः प्रभृति सञ्जज्ञे वसतीनां परंपरा।
30 महद्भिः स्थापितं वृद्धिमश्नते नात्र संशयः॥८९॥ ६३. श्रीबुद्धिसागरः सूरिश्वके व्याकरणं नवम् । सहस्राष्टकमानं तत् श्री बुद्धि सागरा भिधम् ॥ ९०॥
अन्यदा विहरन्तश्च श्रीजिनेश्वरसूरयः । पुनर्धारापुरी प्रापुः सपुण्यप्राप्यदर्शनाः ॥ ९१ ॥ 1N मिह भाषितं। 20 लाघवं च यथाभवत् । 3D °तदसंमितेः। 4 N मान्या। 5D न नः। 6AB करः । 7N बालत्या।