________________
१६४
प्रभावकचरिते
10
15
श्रेष्ठी 'महाधरस्तत्र पुरुषार्थत्रयोन्नतः । मुक्त्वैकां स्वधने संख्यां यः सर्वत्र विचक्षणः ॥ ९२ ॥ तस्याभयकुमाराख्यो धनदेव्यङ्गभूरभूत् । पुत्रः सहस्रजिह्वोऽपि यद्गुणोक्तौ नहि प्रभुः ॥ ९३ ॥ सपुत्रः सोऽन्यदा सूरि प्रणन्तुं सुकृती ययौ । संसारासारतामूलः श्रुतो धर्मश्चतुर्विधः ॥ ९४ ॥ अथाभयकुमारोऽसौ वैराग्येण तरङ्गितः । आपपृच्छे निजं तातं तपःश्रीसङ्गमोत्सुकः ॥ ९५ ॥ अनुमत्या ततस्तस्य गुरुभिः स च दीक्षितः । ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥ ९६॥ स चावगाढसिद्धान्त तत्त्वप्रेक्षानुमानतः । बभौ महाक्रियानिष्ठः श्रीसङ्घाम्भोजभास्करः॥ ९७॥ श्रीवर्द्धमानसूरीणामादेशात् सूरितां ददौ । श्रीजिनेश्वरसूरिश्च ततस्तस्य गुणोदधेः॥ ९८॥ श्रीमानभयदेवाख्यः सूरिः पूरितविष्टपः । यशोभिर्विहरन प्राप पल्यपद्रपुरं शनैः ॥ ९९ ॥ आयुःप्रान्ते च संन्यासमवलम्ब्य दिवः पुरीम् । अलंचक्रुर्वद्धमानसूरयो भूरयः क्रमात् ॥ १०॥ समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः । सिद्धान्तस्युटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥ १०१ ॥ ईषत्स्थितं च यत्सूत्रं प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थ खिलं जज्ञे ततश्च तत् ॥ १०२॥ निशीथेऽथ प्रभुं धर्मस्थानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माभयदेवं मुनीश्वरम् ॥ १०३ ॥ श्रीशीलाङ्क: पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाझ्याः स विदधे धौतकल्मषः॥१०४॥ अङ्गद्वयं विनाऽन्येषां कालादुच्छेदमाययुः । वृत्तयस्तत्र संघानुग्रहायाद्य कुरूद्यमम ॥ १०५॥ सूरिः प्राह ततो मातः ! कोऽहमल्पमतिर्जडः । श्रीसुधर्मकृतग्रन्थदर्शनेऽप्यसमर्थधीः ॥ १०६॥ अज्ञत्वात् क्वचिदुत्सूत्रे विवृते कल्मषार्जनम् । प्राच्यैरनन्तसंसारभ्रमिभृद् दर्शितं महत् ॥ १०७॥ अनुल्लंघ्या च ते वाणी तदादिश करोमि किम् । इतिकर्तव्यतामूढो 'लेभे न किञ्चिदुत्तरम् ॥ १०८॥ देवी प्राह मनीषीश ! सिद्धान्तार्थविचारणे । योग्यतां तव मत्वाऽहं कथयामि विचिन्तय ।। १०९॥ यत्र सन्दिह्यते चेतः प्रष्टव्योऽत्र मया सदा । श्रीमान् सीमन्धरस्वामी तत्र गत्वा धृतिं कुरु ॥ ११०॥ आरभस्व ततो ह्येतत् माऽत्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये इहार्थे त्वत्पदोः शपे ॥ १११ ॥ श्रुत्वेत्यङ्गीचकाराथ कार्य दुष्करमप्यदः । आचामाम्लानि चारब्ध ग्रन्थसंपूर्णतावधिः ॥ ११२॥ अक्लेशेनैव संपूर्णा नवाझ्या वृत्तयस्ततः । निरवाह्यत देव्या च प्रतिज्ञा या कृता 'पुरा ॥ ११३ ॥ महाश्रुतधरैः शोधितासु तासु चिरन्तनैः । ऊरीचके तदा श्राद्धैः पुस्तकानां च लेखनम् ॥ ११४ ॥ ततः शासनदेवी च विजने तान् व्यजिज्ञपत् । प्रभो! मदीयद्रव्येण विधाप्या प्रथमा प्रतिः ॥ ११५ ॥ इत्युक्त्वा सा च समवसरणोपरि हैमनीम् । उत्तरीयां निजज्योतिःक्षतदृष्टिरुचिं दधौ ॥ ११६ ॥ तिरोधत्त ततो देवी यतयो गोचरादथ । आगता ददृशुः सूर्यबिम्बवत् तद्विभूषणम् ॥ ११७ ॥ चित्रीयितास्ततश्चित्ते पप्रच्छुस्ते प्रभून मुदा । ते चाचख्युरुदन्तं तं श्राद्धानाह्वाययंस्तथा ॥ ११८ ॥ आयातानां ततस्तेषां गुरवः प्रेक्षयंश्च तत् । अजानन्तश्च तन्मूल्यं श्रावकाः पत्तनं ययुः ॥ ११९ ॥ अदर्शि तैश्च सा तत्र स्थितरत्नपरीक्षिणाम् । अज्ञास्तेऽपि च तन्मूल्ये मत्रं विदधुरीदृशम् ॥ १२० ॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तदत्तो निःक्रयो ग्राह्यो मूल्यं निर्णीयते तु 'न ॥ १२१ ॥ समुदायेन ते सर्वे पुरो राज्ञस्तद्भुतम् । मुमुचुः किल शक्रेण प्रणयात् प्राभृतं कृतम् ॥ १२२ ॥ तदुदन्ते च विज्ञप्ते तुष्टः प्रोवाच भूपतिः । तपस्विनां विना मूल्यं न गृहामि प्रतिग्रहम् ॥ १२३॥ ते प्रोचुः श्रीमुखेनास्य यमादिशति निःक्रयम् । स एवास्तु प्रमाणं नस्ततः श्रीभीमभूपतिः॥ १२४ ॥
20
25
30
1N महीधर 12 B°सिद्धान्तः तखकावनुमानतः; D सिद्धान्ततत्त्वः प्रेक्षानु। 3Nऽत्र। 4 N लभते। 5N मन्ताहं। 6 D पुरा कृता। 7 N ननु ।