Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
२१. वादिदेवसूरिचरितम् ।
१७५ तथा हिएकद्वित्रिचतुःपंचषण्मेनकमने न काः।
देवबोधे मयि क्रुद्धे षण् मेनकमनेनकाः॥६३ ॥ ततः सर्वेऽपि विद्वांस एनमालोक्य सूर्यवत् । दृशो विपरियन्ति स्म दुर्बोधं सुधियामपि ।। ६४ ॥ षण्मासान्ते तदा चाम्बाप्रसादो भूपतेः पुरः । देवसूरिप्रभु विज्ञराजं दर्शयति स्म च ॥ ६५ ॥ 5 स भूपालपुरः श्लोकं बिभेदोद्भेदधीनिधिः । कुलत्थजलवद्गण्डशैलं राज्ञा मतः सुहृत् ॥ ६६ ॥
अथास्य श्लोकस्य विवरणं-कै गै रै शब्दे । कायन्तीति क्वचित् डप्रत्यये काः शब्देन वादिनः। ते षट्काः । सन्तीति क्रियाध्याहारे, षड्वादिनो न सन्ति । क्व सति-देववोधे मयि क्रुद्ध सति । पुनः कथंभूते-एकद्वित्रि. चतुःपंचषण्मेनकमने। मांक माने, मानं माः क्विप् प्रमाणं । एकं प्रमाणं प्रत्यक्षरूपं येषां ते एकमाः, चार्वाकाः, एकप्रमाणवादिनः। तथा द्विमाः-द्वे प्रमाणे प्रत्यक्षानुमानरूपे येषां ते द्विमाः, द्विप्रमाणवादिनो बौद्धाः वैशे-10 बिकाश्च । तथा त्रिमाः-त्रीणि प्रमाणानि प्रत्यक्षानुमानागमरूपाणि येषां ते त्रिमाः, त्रिप्रमाणवादिनः सांख्याः। चत्वारि प्रत्यक्षानुमानागमोपमानरूपाणि प्रमाणानि येषां ते चतुर्माः, चतुःप्रमाणवादिनो नैयायिकाः । तथा पंचमाः-पंच प्रत्यक्षानुमानागमोपमानार्थापत्तिरूपाणि प्रमाणानि येषां ते पंचमाः, पंचप्रमाणवादिनः प्राभाकराः। तथा षण्माः-षट् प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि प्रमाणानि येषां ते षण्माः, षट्प्रमाणवादिनो मीमांसकाः। तेषामिनास्तद्वेत्तत्वात्, तान् कमते अभिलषति, स एकद्वित्रिचतुःपंचषण्मेनकमनः,15 तस्मिन्मयि । तथा मेनकमनेनका अपि न काः न वादिनः । मा लक्ष्मी, तस्या इनः स्वामी विष्णुः; कमनो ब्रह्मा; इन आदित्यः, मेनकमनेनाः। अल्पत्वात्कप्रत्यये मेनकमनेनकाः । तेऽपि विष्णु-ब्रह्म-सूर्या मयि देवबोधे क्रुद्ध सति अज्ञानत्वान्न काः न वादिनः। यती-देवान् बोधयति-इति शब्दव्युत्पत्त्या तेऽपि मया बोधिताः सुज्ञाना भवन्ति । ततो मानुषाणां पटुवादिनां विदुषामपि किं प्रमाणं का वार्ता ॥ इति पत्रावलंबव्याख्या ॥ ग्रं०१६॥
६६. अथास्ति 'थाहडो नाम धनवान् धार्मिकाग्रणीः । गुरुपादान् प्रणम्याथ चक्रे विज्ञापनामसौ ॥६७॥ 20
आदिश्यतामतिश्लाघ्यं कृत्यं यत्र धनं व्यये । प्रभुराहालये जैने द्रव्यस्य सफलो व्ययः ॥ ६८ ॥ आदेशानन्तरं तेनाकार्यत श्रीजिनालयः । हेमाद्रिधवलस्तुङ्गो दीप्यत्कुम्भमहामणिः ॥ ६९ ॥ श्रीमतो वर्द्धमानस्याबीभरद् बिम्बमद्भुतम् । यत्तेजसा जिताश्चन्द्रसूर्यकान्तमणिप्रभाः ॥ ७० ।। शतैकादशके साष्टासप्ततौ विक्रमार्कतः । वत्सराणां व्यतिक्रान्ते श्रीमुनिचन्द्रसूरयः ॥ १॥ आराधनाविधिश्रेष्ठं कृत्वा प्रायोपवेशनम् । शमपीयूषकल्लोलप्लुतास्ते' त्रिदिवं ययुः ॥ ७२ ।।-युग्मम् । 25
वत्सरे तत्र चैकत्र पूर्णे श्रीदेवसूरिभिः । श्रीवीरस्य प्रतिष्ठां स थाहडोऽकारयन्मुदा ॥ ७३ ॥ ३७. अथ नागपुरे श्रीमान् देवसूरिप्रभुर्ययौ । अभ्यागादत्र च श्रीमानाह्नादननरेश्वरः ॥ ७४ ॥ प्रणनाम सहायातः स च भागवतेश्वरः । देवबोध इमामार्यामार्याचारोऽवदत् प्रभुम् ।। ७५ ॥
सा चेयंयो वादिनो द्विजिह्वान् साटोपं विषममानमुद्रितः।
30 शमयति स देवसूरिनरेन्द्रवन्धः कथं न स्यात् ॥ ७६ ॥ एवं चासौ महाभक्त्या स्थापितो नगरान्तरा । राज्ञा विज्ञाततत्त्वार्थो भव्यान् बोधयति स्म सः॥ ७७ ॥ तच्च श्रीसिद्धराजोऽथ नगरं रुरुधेतराम् । तत्रस्थं देवसूरिं च ज्ञात्वा व्याववृते ततः ॥ ७८ ॥ मध्यस्थितेऽत्र तन्मित्रे दुर्ग लातुं न शक्यते । इति ध्यात्वाऽऽह्वयद् भक्त्या नृपः श्रीपत्तने प्रभुम् ॥७९॥
10 बाहडो। 2N पुतोऽसौ। 3 N ययौ। 4N तदायातः; B तदायात'; D सदायातः। 5 Bप्रभोःD प्रभुः।
Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252