Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 203
________________ १८० प्रभावकचरिते एवं चानुमते राज्ञा प्रयोग केशवोऽलिखत् । बुवा च दूषिते तत्र देवसूरिस्तथाऽ'वदत् ॥ २३१ ॥ अनूद्य दूषणं भित्त्वा स्वपक्षं स्थापयन्निह । कोटाकोटीति शब्दं स प्रयुयोज विदूषणम् ॥ २३२ ॥ अपशब्दोऽयमित्युक्ते वादिना पार्षदेश्वरः । उत्साहः प्राह शुद्धोऽयं शब्दः पाणिनिसूचितः ॥ २३३ ।। ___ उक्तं च 15 कोटाकोटिः कोटिकोटिः कोटीकोटिरिति त्रयः। शब्दाः साधुतया हन्त संमताः पाणिनेरमी ॥ २३४ ॥ इत्थं निरनुयोज्यानुयोगो निग्रहभूमिका । तवैवैषा समायाता व्यावर्त्तख ततो ग्रहात् ॥ २३५ ।। अशक्नुवन्निति प्रत्युत्तरे देवगुरोस्ततः । सवैलक्ष्यमथाहस्मानुत्तरः स दिगंबरः ॥ २३६ ॥ महाराज! महान् वादी देवाचार्यः किमुच्यते । राजाह वद निस्तन्द्रः कथयिष्यामि विस्मृतम् ॥२३॥ 10 अवदत्यन्यसभ्यैश्च 'हारिताला प्रपातिता । सम्बन्धकविधि भूप आदिशन्निजपूरुषैः ॥ २३८ ॥ जयपत्र प्रसादेन देवसूरेर्ददौ नृपः । ततोऽवादीद् गुरुस्तं च किमप्याचक्ष्महे वचः ॥ २३९ ।। शास्त्रीयवादमुद्रायां निग्रहो यत्पराजयः। तद्वादिनस्तिरस्कारः कोऽपि नैव विरच्यताम् ॥ २४०॥ राजाह भवतां वाग्भिरिदमप्यस्तु किं पुनः । आडम्बरापहारेण दर्शनित्वमवाप्यताम् ॥ २४१ ।। एवं कृते तदा वज्रार्गलाख्या सिद्धयोगिनी । श्रीमत्कामाख्यया देव्या प्रहिता साययौ रवात् ॥२४२॥ भूयास्त्वमक्षयस्कन्धः सिद्धाधीश! तथा सुहृत् । तथा श्रीदेवसूरिश्वाशिषेत्यभिननन्द तौ ॥२४३॥ मषीकूर्चकमालीय भाले न्यस्तो दिगम्बरः । ततः सा पश्यतामेव निश्चक्राम नभोध्वना ॥ २४४ ।। तुष्टिदाने ततो लक्षं द्रव्यस्य मनुजाधिपः । ददन्यषेधि निर्मन्थेश्वरेणास्पृहताजुषा ।। २४५ ॥ गणगन्धर्वसिद्धादिदेवैः पूर्वमनीक्षितः । राजादेशात् प्रवेशस्य सोऽवय॑त महोत्सवः ॥ २४६ ॥ समस्ततूर्यनिर्घोषपूर्व संगीतमङ्गलैः । कुलाङ्गनाकृतैः सूरिर्वसतौ प्रविवेश सः॥ २४७ ॥ 20 राजवैतालिकस्तत्र तारस्वरत आशिषम् । ददौ सदौचितीकृत्यविदं देवगुरुं प्रति ॥ २४८॥ सन्तोषं स्फारनिःकिञ्चनजनवचनैराहतं प्रेक्ष्य नव्यं । कामो हिंसादिकेभ्योऽप्यवगणिततमःशत्रुपक्षे शमादौ । आदिष्टो यस्य चेतो नृपतिपरिभवात् पुण्यपण्यं प्रवेश्य ___प्रायासीद् वालयित्वा शुचिमतिवहिकां देवसूरिः स नन्द्यात् ॥ २४९॥ 25 श्री सिद्ध हे म चं द्रा भि धा न शब्दानुशासने । सूत्रधारः प्रभुः श्रीमान् हेमचन्द्रप्रभुर्जगौ ॥ २५० ॥ तथा हियदि नाम कुमुदचन्द्रं नाजेष्यद् देवमूरिरहिमरुचिः। कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ॥ २५१ ॥ श्रीचन्द्रसूरयस्तत्र सिद्धान्तस्येव मूर्तयः । शासनोद्धारकूर्मायाशासन् श्रीदेवसूरये ॥ २५२ ।। 30 ६११. श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि ॥ २५३ ॥ तदा गच्छस्य संघस्य समस्तस्य विभावरी । विभावरीयसी चैषा विनिद्रत्वात् क्षणादगात् ॥ २५४ ॥ प्रातश्च प्रत्युपेक्षायामुपधिं साधवस्तदा । अपश्यन् खण्डशश्चर्णीकृतामाखभिरुटैः ॥ २५५ ॥ प्रवर्तकेन विज्ञप्ते गुरूणां ते 'व्यचिन्तयन् । दिग्वासाः स्वसमं वेषं ममापि हि चिकीर्षति ॥ २५६ ॥ 10 तदा। 2 N हरिताला । 3 N साह्यगौरवात् । 4 N पूर्वमपीक्षितः। 50 गच्छस्थ'। 6 N रुद्भवैः। 7 N व्यजिज्ञपन् ।

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252