________________
१८०
प्रभावकचरिते
एवं चानुमते राज्ञा प्रयोग केशवोऽलिखत् । बुवा च दूषिते तत्र देवसूरिस्तथाऽ'वदत् ॥ २३१ ॥ अनूद्य दूषणं भित्त्वा स्वपक्षं स्थापयन्निह । कोटाकोटीति शब्दं स प्रयुयोज विदूषणम् ॥ २३२ ॥ अपशब्दोऽयमित्युक्ते वादिना पार्षदेश्वरः । उत्साहः प्राह शुद्धोऽयं शब्दः पाणिनिसूचितः ॥ २३३ ।।
___ उक्तं च
15
कोटाकोटिः कोटिकोटिः कोटीकोटिरिति त्रयः।
शब्दाः साधुतया हन्त संमताः पाणिनेरमी ॥ २३४ ॥ इत्थं निरनुयोज्यानुयोगो निग्रहभूमिका । तवैवैषा समायाता व्यावर्त्तख ततो ग्रहात् ॥ २३५ ।। अशक्नुवन्निति प्रत्युत्तरे देवगुरोस्ततः । सवैलक्ष्यमथाहस्मानुत्तरः स दिगंबरः ॥ २३६ ॥
महाराज! महान् वादी देवाचार्यः किमुच्यते । राजाह वद निस्तन्द्रः कथयिष्यामि विस्मृतम् ॥२३॥ 10 अवदत्यन्यसभ्यैश्च 'हारिताला प्रपातिता । सम्बन्धकविधि भूप आदिशन्निजपूरुषैः ॥ २३८ ॥
जयपत्र प्रसादेन देवसूरेर्ददौ नृपः । ततोऽवादीद् गुरुस्तं च किमप्याचक्ष्महे वचः ॥ २३९ ।। शास्त्रीयवादमुद्रायां निग्रहो यत्पराजयः। तद्वादिनस्तिरस्कारः कोऽपि नैव विरच्यताम् ॥ २४०॥ राजाह भवतां वाग्भिरिदमप्यस्तु किं पुनः । आडम्बरापहारेण दर्शनित्वमवाप्यताम् ॥ २४१ ।। एवं कृते तदा वज्रार्गलाख्या सिद्धयोगिनी । श्रीमत्कामाख्यया देव्या प्रहिता साययौ रवात् ॥२४२॥ भूयास्त्वमक्षयस्कन्धः सिद्धाधीश! तथा सुहृत् । तथा श्रीदेवसूरिश्वाशिषेत्यभिननन्द तौ ॥२४३॥ मषीकूर्चकमालीय भाले न्यस्तो दिगम्बरः । ततः सा पश्यतामेव निश्चक्राम नभोध्वना ॥ २४४ ।। तुष्टिदाने ततो लक्षं द्रव्यस्य मनुजाधिपः । ददन्यषेधि निर्मन्थेश्वरेणास्पृहताजुषा ।। २४५ ॥ गणगन्धर्वसिद्धादिदेवैः पूर्वमनीक्षितः । राजादेशात् प्रवेशस्य सोऽवय॑त महोत्सवः ॥ २४६ ॥
समस्ततूर्यनिर्घोषपूर्व संगीतमङ्गलैः । कुलाङ्गनाकृतैः सूरिर्वसतौ प्रविवेश सः॥ २४७ ॥ 20 राजवैतालिकस्तत्र तारस्वरत आशिषम् । ददौ सदौचितीकृत्यविदं देवगुरुं प्रति ॥ २४८॥
सन्तोषं स्फारनिःकिञ्चनजनवचनैराहतं प्रेक्ष्य नव्यं ।
कामो हिंसादिकेभ्योऽप्यवगणिततमःशत्रुपक्षे शमादौ । आदिष्टो यस्य चेतो नृपतिपरिभवात् पुण्यपण्यं प्रवेश्य
___प्रायासीद् वालयित्वा शुचिमतिवहिकां देवसूरिः स नन्द्यात् ॥ २४९॥ 25 श्री सिद्ध हे म चं द्रा भि धा न शब्दानुशासने । सूत्रधारः प्रभुः श्रीमान् हेमचन्द्रप्रभुर्जगौ ॥ २५० ॥
तथा हियदि नाम कुमुदचन्द्रं नाजेष्यद् देवमूरिरहिमरुचिः।
कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ॥ २५१ ॥
श्रीचन्द्रसूरयस्तत्र सिद्धान्तस्येव मूर्तयः । शासनोद्धारकूर्मायाशासन् श्रीदेवसूरये ॥ २५२ ।। 30 ६११. श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि ॥ २५३ ॥
तदा गच्छस्य संघस्य समस्तस्य विभावरी । विभावरीयसी चैषा विनिद्रत्वात् क्षणादगात् ॥ २५४ ॥ प्रातश्च प्रत्युपेक्षायामुपधिं साधवस्तदा । अपश्यन् खण्डशश्चर्णीकृतामाखभिरुटैः ॥ २५५ ॥ प्रवर्तकेन विज्ञप्ते गुरूणां ते 'व्यचिन्तयन् । दिग्वासाः स्वसमं वेषं ममापि हि चिकीर्षति ॥ २५६ ॥
10 तदा। 2 N हरिताला । 3 N साह्यगौरवात् । 4 N पूर्वमपीक्षितः। 50 गच्छस्थ'। 6 N रुद्भवैः। 7 N व्यजिज्ञपन् ।