________________
२१. वादिदेवसूरिचरितम् ।
१८१ तत्र प्रतिविधौ शक्तिर्मम पूज्यप्रसादतः । सौवीरपूर्ण आनायि कुम्भो यतित एकतः ॥ २५७ ॥ गलपिण्डनतः कण्ठं तस्य बद्धाऽन्तराऽमुचन् । अभिमत्र्य ततः साधूनाह सर्वत्र साहसी ॥ २५८ ॥ खेदं कमपि मा कार्युभवन्तः कौतुकं महत् । समीक्षत यदेतेषां 'भावि दुर्विनये फलम् ॥ २५९ ॥ पादोनप्रहरे श्राद्धा नमस्याजग्मुरानताः । प्रसादाद् गुरुमस्माकं मुञ्चैनमिति 'भाषिणः ॥ २६० ॥ मद्वन्धोः का भवेद् बाधा न जानीमो वयं नर्नु । अज्ञानदम्भतः सर्वप्रकारैस्ते निषेधिताः ।। २६१ ॥5 सार्द्धयामे च संपूर्णे ननाचार्यस्तदागमत् । नग्नाचार्य इवाहार्यः प्रशंसां प्रकटं दधत् ॥ २६२ ॥ आश्लिष्यार्द्धासने सूरिरुपावेशयदत्र तम् । भ्रातः ! का तव पीडाऽस्ति ममाज्ञातमिदं ध्रुवम् ॥ २६३ ॥ स प्राह छिन्धि मा त्वं मां भव मा दीर्घरोषभूः । विमोचय निरोधं मे तन्निरोघे मृतिर्बुवम् ॥ २६४ ॥ तस्यैतद् वचनं दीनं श्रुत्वाऽवददसौ प्रभुः । भवान् सपरिवारोऽपि यातु मे वसतेर्बहिः ॥ २६५ ॥ तदादेशेन ते द्वारे स्थिता 'आध्माततुन्दकाः । लुलाया इव संपूर्णतिम्यदङ्गास्तदा बभुः ॥ २६६ ॥ 10 साधोः पार्थात् समानाय्य कुम्भं सौवीरपूरितम् । आच्छोटयन्मुखं तेषां सञ्जज्ञे मुत्कलः श्रवः ॥ २६७ ॥ अनिरोधे निरोधे सत्यसपत्राकृताच* ते । नृजलस्य प्रवाहेण जनः सर्वोऽपि विस्मितः ॥ २६८॥ अहितोऽपि भृशं शोकतप्तस्तस्मात् पराभवात् । ययौ कुमुदचन्द्रोऽयमदृश्यत्वममाविव ॥ २६९ ॥ तुष्टिदानं ददानस्य राज्ञः सूरेरगृहृतः । आशुकोऽन्दे' गते मत्री राज्यारामशुकोऽब्रवीत् ॥ २७० ॥ देवैषां निःस्पृहाणां न धनेच्छा तजिनालयः । विधाप्यते यथामीषां पुण्यं तव च वर्धते ॥ २७१ ॥ 15 भवत्वेवं नृपप्रोक्ते मश्री चैत्यमकारयत् । खेन तेनेतरेणापि स्वामिनाऽनुमतेन सः॥ २७२ ॥ दिनस्तोकं च संपूर्णः प्रासादोऽभ्रंलिहो महान् । मेरुचूलोपमः स्वर्णरत्नकुम्भध्वजालिभिः ॥ २७३ ॥ श्रीनाभेयविभोर्बिम्ब पित्तलामयमद्भुतम् । दृशामगोचरं रोचिःपूरतः सूर्य बिम्बवत् ॥ २७४ ॥
अनलाष्टशिवे वर्षे (११८३) वैशाखद्वादशीनिशि । प्रतिष्ठा विदधे तत्र चतुर्भिः सूरिभिस्तदा ॥ २७५ ॥
20 एवं प्रभावनापूरप्लाविते धर्मिणां हृदि । क्षेत्रे वपन् बोधिवीजं चिरं च व्यहरत् प्रभुः ॥ २७६ ॥ ६१२. अन्यदा ब्रजतोऽरण्ये नाम्ना पिप्पलवाटके । शार्दूलं गुरुशार्दूलो रेखया स न्यषेधयत् ॥ २७७ ॥
बालवृद्धाकुलो गच्छो विहारे प्रान्तरावनौ । क्षुधादिबाधया तत्र क्लिष्टो दुःप्रतिकारया ॥ २७८ ॥ . तदीयचिन्तामात्रेण सार्थेऽकस्मादुपागते । प्रासुकैर्भक्तपानैस्तद्भव्यास्तं प्रत्यलाभयन् ॥ २७९ ॥-युग्मम् । स्या द्वाद पूर्वकं रत्नाकरं स्वादुवचोऽमृतम् । प्रमेयशतरत्नाढ्यममुक्तं स किल श्रिया ॥ २८० ॥ 25 पीतान् दृष्ट्वा पुरा कुम्भोद्भवेनाम्भोनिधीनिह । परवादिघटोद्भूतशतागम्यं व्यधान्नवम् ।। २८१ ।।-युग्मम् । इति श्रीदेवसूरीणामसंख्यातिशयस्पृशाम् । वर्षाणां व्यधिकाशीतिरत्यक्रामदतन्द्रिणाम् ॥ २८२ ।। श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते । जैनप्रभावनास्थेमनिस्तुपश्रेयसि स्थिताः ॥ २८३ ।।
रसयुग्मरवौ वर्षे (१२२६) श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराह्ने गुरोदिने ॥ २८४ ॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरंदरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ २८५ ॥-त्रिभिर्विशेषकम् ।
30
1 N मावि। 2 D न तु। 3N बत। 4 D आध्मान। 5N संपूर्णेतिम्पदंगा। * 'सपत्राकृति निःपत्राकृती खत्रतपीडने।' इति D टिप्पणी। 6N 'ममास्थि च। 7N आशुकोष्ठे। 8 N तिथौ। 9N रेखायातं ।