SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८२ प्रभावकचरिते शिखिवेदशिवे (११४३) जन्म दीक्षा युग्मशरेश्वरे (११५२)। वेदाश्वशंकरे वर्षे (११७४) सूरित्वमभवत् प्रभोः ॥ २८६ ॥ नवमे वत्सरे दीक्षा एकविंशत्तमे तथा । सूरित्वं सकलायुश्च त्र्यशीतिवत्सरा अभूत् ॥ २८७ ।। इत्थं श्रीदेवसूरेश्चरितमधरितक्षुद्रवादिप्रवादं नादं वर्द्धिष्णु जैनप्रवचनभविनां सत्त्वमुक्तैरसेव्यम् । श्रेष्ठश्रेयाप्रदं तद् भवतु भवभृतामद्य काले भवानां नन्द्यादाचन्द्रकालं विवुधजनशतैर्नित्यमभ्यस्यमानम् ॥ २८८॥ श्रीचन्द्रप्रभसूरिपद्दसरसीहंसप्रभः श्रीप्रभा__चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीदेवसूरेः कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः कुयुग्मक्रमः ॥ २८९ ॥ अर्थ यच्छति संमृतिस्थितिमतां दुःखापनोदक्षम __ कल्पद्रुव्रजचिन्तिताश्मनिवहादप्यद्भुतं यः प्रभुः। स श्रीमान् कनकप्रभः कथमयं शक्यो मया वर्णितुं प्रद्युम्नो यतिनायकश्च समभूदू यन्नाममन्त्रस्मृतेः॥ २९० ॥ ॥ इति श्रीदेवसूरिप्रबन्धः॥ ॥ ग्रं० ३२५, उभयं ४८७९ ॥ 16
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy