________________
१८३
२२. हेमचन्द्रसूरिचरितम् । २२. श्रीहेमचन्द्रसूरिचरितम् ।
श्रीहेमचन्द्रसूरीणामपूर्व वचनामृतम् । जीवातुर्विश्वजीवानां राजचित्तावृनिस्थितम् ॥१॥ पातकान्तकमातङ्गस्पर्शदूषणपूषणः । श्रीहेमचन्द्रसूरीणां वाचः वर्णोदकद्युतः ॥२॥ अनन्तागमविद्याभृन्मृतखोजीवनस्थितिः । श्रीहेमसरिरव्याद् वः प्रतिश्रीपादलिप्तकः ॥ ३॥
कृतिसत्तमुक्तास्रनायकश्चरितं प्रभोः । स्थाप्यतेऽन्तः प्रकाशाय सतां हृदयवेश्मसु ॥४॥ ६१. अस्ति श्रीगूर्जरो देशः केशावेशवियुक्तभूः । पुरुषार्थत्रयश्रीषु स्वर्गोऽपीच्छति यत्तुलाम् ॥५॥
अणहिल्लपुरं नाम कामधुक् प्रणयिव्रजे । अस्ति प्रासादराजीभिर्नगरं नगरंगभूः ॥ ६ ॥ संक्रन्दनसुपारिद्विजिह्वा यस्य नोपमाम् । सुरासुरोरगाधीशाः प्रापुर्लोकेश्वरा अपि ॥७॥ स तत्र वाक्सुधासारसंप्रीणितचकोरकः । राजा सिद्धाधिपः सिद्धाधिपगीतयशा अभूत् ॥८॥-युग्मम् । सत्पूजाभोगशृङ्गारप्रभावदृढरङ्गभूः । बन्धूकमिव धन्धूकं देशे तत्रास्ति सत्पुरम् ॥ ९॥
10 व्यूढमोढान्वयप्रौढ उदूढमहिमा दृढः । बाढमाढौकयद् दाढ्यं प्रौढिषु प्रौढचेतसाम् ॥ १० ॥ उत्कोचकृतसंकोच' उल्लोचः सत्त्वमण्डपे । श्रेष्ठी तत्राभवच्चाचः प्रवाचः पूजयन् सदा ॥ ११॥-युग्मम् । हिनी पाहिनी तस्य देहिनी मन्दिरेन्दिरा । यस्याः सीता-सुभद्राद्याः सत्यः सत्याः सतीत्वतः॥१२॥ सा 'स्त्रीचूडामणिश्चिन्तामणिं स्वप्नेऽन्यदक्षत । दत्तं निजगुरूणां च भक्त्यावेशनिवेशतः ॥१३॥ चान्द्रगच्छसरःपद्मं तत्रास्ते मण्डितो गुणैः । प्रद्युम्नसूरिशिष्यः श्रीदेवचन्द्रमुनीश्वरः ॥ १४॥ 15 आचख्यौ पाहिनी प्रातः स्वममस्वप्नसूचितम् । तत्पुरः स तदर्थं च शास्त्रदृष्टं जगौ गुरुः ॥ १५ ॥ जैनशासनपाथोधिकौस्तुभः संभवी सुतः । तव स्तवकृतो यस्य देवा अपि सुवृत्ततः ॥ १६ ॥ श्रीवीतरागबिम्बानां प्रतिष्ठादोहदं दधौ । अन्यदा सा स चापूरि सत्पत्या भूरिपुण्यतः ॥ १७ ॥ असूत सा च पुण्येऽह्रि जितवह्निप्रभं रुचा । मलयाचलचूलेव चन्दनं नन्दनं मुदा ॥ १८ ॥ नानाविधध्वनत्तूर्यभरडम्बरिताम्बरैः । वर्धापने व्यतीते च द्वादशाहे मुदा तदा ॥ १९॥ अभिधाविधिमाधित्सुः सनाभीन् भक्तितो निजान् । आहूय व्याहरचाचः सदाचरणबन्धुरः ॥ २० ॥ अस्मद्गृहेऽवतीर्णेऽत्र प्रतिष्ठादोहदोऽजनि । एतन्मातुस्तया रम्याः पूजाभिः स्युः सुरा अपि ॥ २१॥ . तच्चंगदेव इत्यस्य स्थानभृन्नाम सान्वयम् । विदधे विश्ववस्तूनां यतः सत्यं शुभायतिः ॥ २२ ॥
-चतुर्भिः कलापकम् । क्रमुकैः क्रोडकर्पूरैः पत्रैः सौरभनिर्भरैः । दत्त्वा नागरखण्डैश्च ताम्बूलं तान् व्यसर्जयत् ॥ २३ ॥ 25 वर्द्धमानो वर्द्धमान इवासौ मङ्गलाश्रयः । शिशुत्वेऽप्यशिशुप्रज्ञः सोऽभूदक्षतदक्षतः ॥ २४ ॥
तस्याथ पंचमे वर्षे वर्षीयस इवाभवत् । मतिः सद्गुरुशुश्रूषाविधौ विधुरितैनसः ॥ २५ ॥ ६२. अन्यदा मोढचैत्यान्तः प्रभूणां चैत्यवन्दनम् । कुर्वतां पाहिनी प्रायात् सपुत्रा तत्र पुण्यभूः॥२६॥
सा च प्रदक्षिणां दत्त्वा यावत् कुर्युः स्तुति जिने । चंगदेवो निषद्यायां तावन्निविविशे द्रुतम् ॥ २७ ।। स्मरसि त्वं महास्वप्नं सकृदालोकयिष्यसि । तस्याभिज्ञानमीक्षस्व स्वयं पुत्रेण यत्कृतम् ॥ २८ ॥ 30 इत्युक्त्वा गुरुभिः पुत्रः सङ्घनन्दननन्दनः । कल्पवृक्ष इवाप्रार्थि स जनन्याः समीपतः ॥ २९ ॥ सा प्राह प्रार्थ्यतामस्य पिता युक्तमिदं ननु । ते तदीयाननुज्ञाया भीताः किमपि नाभ्यधुः ॥ ३० ॥
20
1N °भूषणाः, B'लूषणा । 2N स्त्री चिंतामणि 1 3 N जनन्या ।