Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 222
________________ २२. हेमचन्द्रसूरिचरितम् । १९९ तत्रोपयाचितं स्वामी चेदिच्छति ततो ध्रुवम् । विजयोऽस्याभिधाऽपीदृगपराजितताकरी ॥ ४५५ ॥ इति विज्ञापनां श्रुत्वा मामका नायको भुवः । विदधातु विचार्येव ननु प्रभुपुरो मतिः ॥ ४५६ ।। विज्ञप्तेऽत्रावनीनेता ध्यातामात्यवचःक्रमः । ऊचे मनिन् ! भवद्वाक्यात् कार्यजातं मया स्मृतम् ॥ ४५७॥ सखे ! शृणु यदा पूर्व वयं सामान्यवृत्तयः । स्तम्भतीर्थमगच्छाम दिनत्रयमुपोषिताः ॥ ४५८ ॥ बोसरिर्बटुरस्माभिः प्रैष्यतोदयनान्तिके । अकृतार्थस्ततश्चागात् तदागः स्फुरितं न मे ॥ ४५९॥ 5 एतेऽहो ! स्वामिनो भक्ता इति चेतस्यभून्मम । परेषु रोषणः स्वीयाभाग्यदर्शी कृती न सः॥४६० ॥ तथा श्वेताम्बराचार्यो हेमसूरिया तदा । प्रदोषसमयेऽदर्शि कल्पद्रुमसमः श्रिया ॥ ४६१ ॥ पाथेयं कृपया किंच न दद्याद् यद्यसौ प्रभुः । राज्यं कः प्राप्स्यदानन्दि भवत्सङ्गमसुन्दरम् ॥ ४६२ ॥ तथा तद्वचनं तथ्यमभूद् दैवतवाक्यवत् । अद्यापि ध्वनति ध्मातघण्टाटङ्कारवदृढम् ॥ ४६३ ॥ बिम्बस्यास्य प्रतिष्ठातृ'व्याजात् स्मारयता गुरुम् । ममोपकृतमत्यर्थं कृतावेदी नराधमः ॥ ४६४ ॥ 10 तथा श्रीसिद्धराजोऽपि हत्वा खंगारभूपतिम् । तज्जातीयबहुत्वेन शक्तो देशं न वासितुम् ॥ ४६५॥ इदानीं त्वपितुर्बुद्ध्या शत्रवस्ते विनाशिताः । सर्वेऽपि च यथा तेषां नामापि नहि बुध्यते ॥ ४६६ ॥ भुक्तौ न्यक्षेपि देशश्च मुक्तास्तत्राधिकारिणः । ईदृग् धीमान भवद्वप्ता स्वामिभक्तिफलं हि तत् ॥ ४६७ ॥ कीर्तिपालकुमारोऽसौ पदातिर्विग्रहादिषु । अबुधः सांयुगीनेन त्वत्पित्रैव बुधः कृतः ॥ ४६८॥ तीर्थोद्धारश्च सन्दिष्टस्तेन ते तदपीह नः । कार्यं ततोऽधुनैवायमादेशो भवतात् तव ॥ ४६९ ॥ 15 राजकोशात् समादाय धनान्यापूर्णतावधि । पूर्य तस्य प्रधानस्य स्वस्यास्माकं च वाञ्छितम् ॥४७॥ इदानीं त्वस्य देवस्य बिम्ब मे दर्शय द्रुतम् । पुण्यैर्लभ्यं समभ्यर्च्य प्रस्थानं कुर्महे ततः ॥ ४७१ ॥ ततः सन्दर्यमानाध्वा श्रीमद्वाग्भटमत्रिणा । संचचालाचलाधीशः प्राप चास्य जिनालयम् ॥ ४७२॥ श्रीमन्तं पार्श्वनाथं प्रागानतो मूलनायकम् । ददर्श मत्रिणा ख्यातमजितं तदनु प्रभुम् ॥ ४७३ ॥ कुङ्कमागुरुकपरकस्तूरीचन्दनद्रवैः । सुगन्धकुसुमैश्चार्चा विदधे वासनावशात् ॥४७४॥ 20 व्यजिज्ञपञ्च तीर्थेशं त्वत्प्रभावान्नृपं रिपुम् । अस्मिन्नवसरे नाथ ! विजेष्ये त्वत्प्रसादतः ॥ ४७५ ॥ ततो मम भवानेव देवो माता गुरुः पिता । अत्र साक्षी भवान् मबिन्! पाल्यमेतद्वचो मया ॥-युग्मम् । इत्युक्त्वाऽऽनम्य तं भूपः पुलकाङ्कितविग्रहः । तदा विजययात्राय सैन्यानि समवायत् ॥ ४७७ ॥ . १७. उपचन्द्रावति प्रायात् प्रयाणैरप्रमाणकैः । आवासान् दापयामास तत्र भूवासवो मुदा ॥ ४७८ ॥ तत्र विक्रमसिंहोऽस्ति राज्ये मुख्य महाधरः । राज्ञः कटकसेवाया निर्विण्णो गमनामनाः ॥ ४७९ ॥25 प्रशस्तैः स महामात्यैर्निजैः समममत्रयत् । वयं खेदं परं प्राप्ता निर्जीवनृपसेवया ॥ ४८० ॥ कः प्रतापो बलं किं वा भ्रान्तदेशान्तरे नरे । अत्र चित्रपटाजीवे नमस्कारों ऽतिदुष्करः॥ ४८१ ॥ भस्माधारः पुटीपात्रं जटा मूर्ध्नि शिवार्चनम् । एवं वेषे प्रणामो नः काऽत्र राज्यविडम्बना ॥ ४८२ ॥ तस्मात् कथंचिदत्रैव यद्यसौ साध्यते नृपः । असौ हि शशकः खञ्जो रुणन्निष्पाववाटकम् ॥ ४८३ ॥ कोऽपि चौलुक्य वंशीयः क्षात्रतेजोभिरद्भुतः । राज्ये निवेश्यतेऽस्माकं तदाज्ञां कर्तुमौचिती ॥ ४८४ ।। 30 प्राहुस्तस्य प्रधानाच नोचितं भवतां कुले । स्वामिद्रोहो यतोऽधीशसिद्धाधिपपदस्थितः ॥ ४८५ ।। अस्माकं सर्वथाऽऽराध्यो युद्धेष्वनियतो जयः । दुर्गरोधविशेषेण विमृश्यं तदिदं घनम् ॥ ४८६ ॥ उवाच च कथं वध्यो भूपालोऽसौ भविष्यति । कृतं वोऽ परशिक्षाभिरुपायं वदत ध्रुवम् ॥ ४८७ ॥ 10 प्रतिष्ठान। 2 N प्रधानं । 3 N यात्रायां । 4 N ऽमुष्यमहाधरः। 5N चमत्कारो । 6 A षंडो। 7 A B चौलिक्य। 8N बोध्यो। 9N वो परभिक्षाभि ।

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252