Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 223
________________ प्रभावकचरिते 15 वयं हि तस्य वक्तारः स्वामिना करणे पुनः । प्रमाणं स्वरुचिर्नाथ ! तत्कुरु प्रतिभासितम्' ।। ४८८ ॥ अथाह विक्रमो वह्नियत्रं प्रकुरुताधुना । मत्सौधेऽसौ यथावश्यमक्लेशेन विनश्यति ॥ ४८९ ॥ 'व्यचारयन्निमित्तं ते निजावासेऽग्निदीपनम् । प्रागल्भ्यात् कुमतेरेतद् विनाशस्यैव सूचकम् ॥ ४९० ॥ किं च प्रविदधामोऽत्र दुर्लघ्या भवितव्यता । राज्योच्छेदोऽस्य सम्पन्नो भूपालो विजयी पुनः॥ ४९१ ॥ श्रीसिद्धाधीशपट्टे यः प्राच्यपुण्यैर्निवेशितः । एतत्सदृशभृत्यानां नासौ योग्यो भविष्यति ॥ ४९२ ॥ एवं विमृश्य तेऽवोचन हस्तस्पृष्टललाटकाः । स्वाम्यादेशः प्रमाणं नः कार्या नाऽत्र विचारणा ॥ ४९३ ॥ सूत्रधारैस्ततो भूम्यन्तरा सौधं निवेशितम् । ऊर्ध्वं च स्तम्भपट्टादि चलं वस्त्राञ्चलोपमम् ॥ ४९४ ॥ तस्योपरि प्रतिसीराप्रावारास्तरणास्तृताः । मण्डिता विततोल्लोचाऽवचूलैः पद्मकैस्तथा ॥ ४९५ ॥ मौक्तिकैः कुसुमैर्गुच्छैर्विच्छन्दकशतैरपि । सुन्दरा तत्र शय्या च सूत्रतन्तुमयाऽरचि ॥ ४९६ ।।-युग्मम् । एकत्र कीलके कृष्टे' तत्सर्वं गतमन्दिरे । खदिराङ्गारसंपूर्ण भस्मीभवति तत्क्षणात् ॥ ४९७ ॥ एवं निवेद्य ते नेत्रे नेत्रे बाष्पप्लुते दधुः । तन्नायकोऽप्युवाचैवं मतिः कार्यप्रसाधिका ॥ ४९८ ।। असौ यथा तपस्वीहक्शय्यायां चङ्गभङ्गिभिः । आक्षिप्ताक्षो निवेश्येत तदास्याधोगते' मृतिः॥४९९॥ इति प्रातर्विचिन्त्यायमायाच्छिबिरमध्यतः । राजपादान नमश्चक्रेऽवनीलुठनपूर्वकम् ॥ ५० ॥ विज्ञो विज्ञपयामास मारवो मण्डलेश्वरः । दम्भात् सुधां मुखे बिभ्रद् विषपूर्णो घटो यथा ॥ ५०१ ।। अलंकुरुत हयं मे प्रसादः क्रियतां प्रभो!। तत्र प्रत्यवसानेनावसानेनाद्य दुःस्थितेः ॥ ५०२॥ "ध्यात्वेति धीनिधिर्भूपो मारवेषु न विश्वसेत् । प्राह नः परिवारः प्राग् भुंक्तामनु वयं ततः ॥ ५०३ ॥ क एवं हि हितान्वेषी स्वामिभक्तश्च दृश्यते । परमारकुलोद्भूतं भवन्तमभयं विना ॥ ५०४ ॥ तत्र कः प्रतिषेद्धास्ति शुभे कार्ये महाधर!। अस्माकं भवदावास एव योग्यो विलोकितुम् ॥ ५०५॥ स्वाम्यादेशः प्रमाणं मे इति प्रोच्य परिच्छदम् । भक्तोऽसौ भोजयांचवेऽपराहावध्यबाधया ॥ ५०६॥ अङ्गरक्षास्ततः स्वामिमूतिरक्षासदोद्यताः । आहूतास्तत्समस्तं च कुट्टिमं प्रकटीकृतम् ॥ ५०७ ॥ यत्रासन्नः पुमानेको वृद्धो मतिमतां पतिः । आजिघ्रन् गन्धमत्युयं ध्माताङ्गारगणस्य सः ॥ ५०८॥ विममर्श निजस्वान्ते विज्ञानं किञ्चिदद्भुतम् । तत्रास्ते वह्निसम्बद्धं प्रभुद्रोहस्य कारणम् ॥ ५०९ ॥ ततस्तं विक्रमः साभिप्रायं दृष्टिविकारतः । परिज्ञायातिसच्चक्रे वक्राशयशिरोमणिः ॥ ५१० ॥ ययौ विक्रमसिंहोऽथ सह तेनैव मन्दिरम् । राज्ञः प्राह च मत्सौधे नाथ ! पादोऽवधार्यताम् ॥५११॥ अथ भ्रूसञ्ज्ञया तेन न्यषेधि गमनं प्रति । भूपतिः प्राह तत्रं मे समस्तं भोजितं त्वया ॥ ५१२ ॥ वयं तु प्राक्त्रियामायां चिन्ताजागरपीडिताः । अधुनाऽभ्यवहारेषु" नाभिलाषुकचेतसः ॥ ५१३ ॥ मुहूर्त्तश्चापि दैवज्ञैः प्रयाणाय विचारितः । संप्रत्येव ततो ढक्का वाद्या प्रस्थीयते यथा ॥ ५१४ ।। त्वमपि स्वां चमूं सज्जीकृत्य कृत्यविशारद ! । शीघ्रमागच्छ न च्छेका जृम्भायन्ते त्वरायिते" ॥५१५॥ अन्तःशङ्कां वहन्नोमित्युक्त्वा च प्रययौ स्वकम् । धाम ज्ञातमिवायं स्वं विमृशन" चेतसि क्षणम् ॥५१६।। झटित्येव प्रतस्थे च स्कन्धावार प्रभोस्तदा । अचिराद रिपुदुर्गस्योपकण्ठे शिबिरं दधौ ॥ ५१७॥ स यथास्थानमातस्थौ शिबिरस्य निवेशनम्" । अहर्दिवं प्रहरके जाग्रव्यग्रभटोद्धरम् ॥ ५१८ ॥ 20 25 30 1N प्रतिभाषितं । 2 B विचारयन्नि। 3 N कुमारेतत् । 4 N कुष्टे । 5 B चंगभंगिनः। 6 D निविश्येत । 7 B तदाधोवगतेप॑तिः। 8 A प्रत्यवसानेनाव्यसनेनाद्य; B प्रत्यवसानेनावसीनेनाद्य । 9 N ध्वांतेति । 10 A प्रभोद्रोहस्य; N प्रभुविद्रोहका। 11 B भ्यवहारे तु। 12 N निवेदितः। 13 N तच्छेका। 14 A Mभायां खरितायते; N जंभायंते खरायते । 15 A व्यमृशन् । 16A स्तंभाचारप्रभो D स्तंवाचार खंवाचाट। 17 N निकेतनं ।

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252