Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
२२. हेमचन्द्रसूरिचरितम् ।
२०९ ६२७. अन्येदुरुपदिष्टे च सम्यक्त्वे सङ्घसाक्षिकम् । राजा गृहीते गुरुभिर्गाथामेनां स जल्पितः ॥ ७६७ ॥
तथा हितुम्हाण किंकरो हं तुम्हे नाहा भवोयहिगयस्स ।
सयलधणाइसमेओ मइँ तुम्ह समप्पिओ अप्पा ॥ ७६८ ॥ व्याख्यातायामथैतस्यामर्थं सत्यापयन्नृपः । राज्यं समर्पयामास जगदुर्गुरवस्ततः ॥ ७६९ ॥
5 निस्सङ्गानां निरीहाणां नार्थो राज्येन नो नृप ! । आपिबामः कथं भोगान् वान्ताननुचितं ह्यदः ॥७७०॥ एवं विवादसम्बाधे दानाग्रहणकारणे । गुरु-भूपालयोर्मत्री' वैशिष्ट्यमकरोदिदम् ॥ ७७१ ॥ सर्वाणि राजकार्याणि कार्याण्यश्रावितानि न । अतः परं प्रभो राज्ये भूयादनुमतं ह्यदः ॥ ७७२ ॥ प्रतिपन्ने ततः श्राद्धव्रतसद्ध्यानहेतवे । भूपस्याध्यात्मतत्त्वार्थावगमाय च स प्रभुः ॥ ७७३ ॥
योगशास्त्रं सुशास्त्राणां शिरोरत्नसमं व्यधात् । अध्याप्य तं स्वयं व्यक्तं तत्पुरश्च व्यचारयत् ॥-युग्मम् । 10 ६२८. जग्राह नियमं राजा दर्शनी जिनदर्शने । यादृशस्तादृशो वा मे वन्द्यो मुद्रेव भूपतेः ॥ ७७५ ॥
चतुरङ्गचमूमध्ये राजा राजाध्वना ब्रजन् । गजारूढोऽन्यदाऽद्राक्षीजैनर्षि वेश्यया समम् ॥ ७७६ ॥ क्षुरलूनशिरःकेशं सितवैकक्षकावृतम् । कस्तीरास्तीर्णसध्वानपन्नद्धारूढपादकम् ॥ ७७७ ॥ अतुल्यफणभृद्वल्लीदलबीटकहस्तकम् । आलम्बितभुजादण्डमंसेऽस्या मन्दिराद् बहिः॥-त्रिभिर्विशेषकम् । कुम्भयोन्यस्य मूर्द्धानं तं ननाम महीपतिः । पृष्ठासनस्थितश्चक्रे नड्डुलनृपतिः स्मितम् ॥ ७७९ ॥ 15 ददर्श वाग्भटामात्यस्तत् प्रभोश्च न्यवेदयत् । ततो राज्ञः पुरः पूज्या इत्थं धर्मकथां व्यधुः ॥ ७८० ॥
तथा हिपासत्थाइ वंदमाणस्स नेव कित्ती न निजरा होइ।
कायकिलेसं एमेव कुणइ तह कम्मबंधं वा ॥ ७८१ ॥ व्यमृशद् भूपतिः केनाप्यद्य वृत्तं निवेदितम् । व्यजिज्ञपञ्च पूज्यानां शिक्षाभिनितो ऽस्म्यहम् ॥ ७८२ ॥ 20
इतश्च पृथिवीशक्रनमस्कारमुदीक्ष्य सः। दध्यावध्यामचैतन्यं का मय्यस्ति नमस्यता ॥ ७८३ ॥ विध्वस्तवीतरागाझे त्यक्तभोगपुनर्ग्रहे । अदृश्यास्ये प्रतिज्ञाया भ्रष्टे दुर्ग्राह्यनामनि ॥ ७८४ ॥-युग्मम् । अमुचद् भुजमस्याश्च चापतुल्यं मनोभुवः । कुधियां पेटकं वाथ बीटकं व्रतकण्टकम् ॥ ७८५ ॥ नरकाध्वनि यानाभे मुमोचायमुपानहौ । विरागी खाश्रयेऽगच्छदतुच्छं स्वल्पभर्तृकः ॥ ७८६ ॥ पुनव्रतं समुच्चार्य गुरूपान्ते महामनाः । सङ्गत्यागादनशनप्रत्याख्यानी बभूव सः ॥ ७८७ ॥ 25 निजैरनेकधाऽप्युक्तो दृढो नासौ निजाग्रहात् । पश्चाद् व्याजुघुटे द्रोणीमब्धौ लब्धां हि कस्त्यजेत् ॥७८८॥ अनशन्याश्रयास्तत्र प्रावर्त्तन्त प्रभावनाः । वरिवस्यां तपस्यायाः श्रेयोर्थी कः करोति न ॥ ७८९ ॥ विज्ञप्तेऽधिकृतैस्तत्र भूपो नन्तुं तपोनिधिम् । अभ्याययौ प्रमोदेन सान्तःपुरपरिच्छदः ॥ ७९० ॥ यावत् पश्यति तद्वक्त्रं तावद् दृष्टः स एव यः। पण्याङ्गनागृहद्वारे कुवेषोऽपि नतस्तदा ॥ ७९१ ॥ तद्गुरून् मुनिवर्ग च नत्वा भूपालपुङ्गवः । तत्पादौ प्रणमस्तेन निषिद्धो भुजधारणात् ॥ ७९२॥ 30 महाराज ! गुरुस्त्वं मे भवाब्धेस्तारितस्त्वया । तव विश्वेऽपि वन्द्यस्य प्रणामो ह्यतिदुर्जरः ॥ ७९३ ॥ मादृशा भ्रष्टचारित्रा विराधितजिनोक्तयः । आराधकाः कथं नु स्युः स्फुरन्नरकदौहृदाः ॥ ७९४ ।।
1D मैत्री। 2 N स्वयं चक्र। 30 वेद्यो। 4 N शिष्याभिनिवृतो। 5N रागांसे ।
प्र० २७
Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252