Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 238
________________ २१५ ग्रन्थकारकृता स्वकीया प्रशस्तिः। तत्पद्रोदयपर्वतामृतरुचिः प्रीणंश्चकोरव्रज श्रीचन्द्रप्रभसूरिरद्भुतमतिज्योत्स्लानिधानं बभौ । आश्चर्य न कलङ्कधाम तमसानुल्लंघ्यमूर्ति भवं पाथोधि क्षणुते' विनम्रकमलोल्लासी न दोषाकरः ॥ १४ ॥ आचार्यः श्रीप्रभाचन्द्रस्तत्पादाम्भोजषट्पदः । चित्रं यः सुमनःस्थोऽपि सदानवगुरुक्रमः ॥ १५ ॥ श्री हेमचन्द्रसूरीणामनुध्यानप्रवृत्तितः। पर्वणः परिशिष्टस्य दृष्टेः सम्पुटवासनः ॥ १६॥ 10 श्रीवज्रानुप्रवृत्तप्रकट मुनिपतिप्रष्ठवृत्तानि तत्तद् ग्रन्थेभ्यः कानिचिच्च श्रुतधरमुखतः कानिचित् सङ्कलय्य । दुष्प्रापत्वादमीषां विशकलिततयैकत्र चित्रावदातं जिज्ञासैकाग्रहाणामधिगतविधयेऽभ्युच्चयं स प्रतेने ॥ १७ ॥ -त्रिभिर्विशेषकम् । अत्र शूणं हि यत्किश्चित् संप्रदायविभेदतः। मयि प्रसादमाधाय तच्छोधयत कोविदाः ॥ १८॥ 15 यतः आराधितं मया शून्यं यथा तुष्टं खतामदात् । निजोक्तौ स्थापितं तत् प्राक् कथाकन्थी कृतास्ततः ॥१९॥ रोदोरन्ध्रगसिद्धकिन्नरगणानुल्लंघ्यशृङ्गस्थिति स्तुङ्गत्वोदितवृत्तशेवधिरतिप्रौढार्थसंपत्तिकृत् । पूरत्नप्रभया तिरस्कृतपरज्योतिःप्रकाशोदयः श्रीपूर्वर्षिचरित्ररोहणगिरौ स्यादारवीन्दुब्रुवः ॥ २० ॥ 20 N°वज्रानुप्रभप्रकट। 4 N आराधितमया। 5N ख(म)तमे(मे). 1N क्षपुले विलनकमलो। 2N °शिष्टस्याष्टे । दात् । 6A कथाकंठीकृताः ।

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252