Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
२१२
प्रभावकचरिते शर-वेदेश्वरे (११४५) वर्षे कार्तिक पूर्णिमानिशि । जन्माभवत् प्रभोर्योम-बाण-शम्भौ (१९५०) व्रतं तथा ॥ ८५० ॥ रस-षट्वेश्वरे (११६६) सूरिप्रतिष्ठा समजायत ।
नन्द-द्वयं-रवौ वर्षे (१२२९) ऽवसानमभवत् प्रभोः ॥ ८५१॥ इत्थं श्रीजिनशासनाभ्रतरणेः श्रीहेमचन्द्रप्रभो
रज्ञानान्धतमःप्रचारहरणं मात्रादृशां मादृशाम् । विद्यापङ्कजिनीविकाशि विदितं राज्ञोऽतिवृद्ध्यै स्फुरद्
वृत्तं विश्ववियोधनाय भवताद् दुष्कर्मभेदाय च ॥ ८५२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीहेमचन्द्रप्रथाश्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो द्विकद्विप्रमः ॥ ८५३ ॥
॥ इति श्रीहेमचन्द्रसूरिप्रवन्धः ॥
॥ *ग्रंथा० ८७१ ॥ छ ॥ स्वस्ति ॥
1N प्रवाहहरणं । *B प्रथानं ८५५ ॥ उभयं ग्रंथसंख्या ५७८४, अक्षर २३ ।
Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252