SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२ प्रभावकचरिते शर-वेदेश्वरे (११४५) वर्षे कार्तिक पूर्णिमानिशि । जन्माभवत् प्रभोर्योम-बाण-शम्भौ (१९५०) व्रतं तथा ॥ ८५० ॥ रस-षट्वेश्वरे (११६६) सूरिप्रतिष्ठा समजायत । नन्द-द्वयं-रवौ वर्षे (१२२९) ऽवसानमभवत् प्रभोः ॥ ८५१॥ इत्थं श्रीजिनशासनाभ्रतरणेः श्रीहेमचन्द्रप्रभो रज्ञानान्धतमःप्रचारहरणं मात्रादृशां मादृशाम् । विद्यापङ्कजिनीविकाशि विदितं राज्ञोऽतिवृद्ध्यै स्फुरद् वृत्तं विश्ववियोधनाय भवताद् दुष्कर्मभेदाय च ॥ ८५२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीहेमचन्द्रप्रथाश्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो द्विकद्विप्रमः ॥ ८५३ ॥ ॥ इति श्रीहेमचन्द्रसूरिप्रवन्धः ॥ ॥ *ग्रंथा० ८७१ ॥ छ ॥ स्वस्ति ॥ 1N प्रवाहहरणं । *B प्रथानं ८५५ ॥ उभयं ग्रंथसंख्या ५७८४, अक्षर २३ ।
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy