________________
२२. हेमचन्द्रसूरिचरितम् ।
२११ विसृज्य तान् महीशाय तलारक्षो व्यजिज्ञपत् । व्याजहे तत्क्षणान्नाथ[:] केल्हणं मण्डलेश्वरम् ।।८२६।। आज्ञाभङ्गापराधेन देशः श्रीकरणे त्वया । उद्गण्यतां स चावादीन जाने किमिदं प्रभो ! ॥ ८२७ ॥ द्वारावलगकाख्याते स्थगीशचरिते ततः । लक्षं विलक्षं हत्वा च तोषं चक्रे प्रभोरसौ ।। ८२८ ॥ चैत्रमाघाश्वयुग्मासमहेष्वपि सुरीगणः । अहिंसया मुदं प्राप गुणे को मत्सरं वदेत् ॥ ८२९ ॥ कर्पूरप्रमुखैर्भोगैलिभिर्मोदकादिभिः । तुष्टोऽसौ मद्य-मांसेषु पिच्छिलेषु श्नथादरः॥ ८३०॥ 5 शैवाचार्या अपि तदा मिथ्याधर्मेष्वनादृताः । 'जटान्तः स्थापनाचार्यमवहन कृतिकर्मणे ॥ ८३१ ॥ श्रीवीतरागमभ्यर्च्य परमेष्ठिनमस्कृतीः । परावर्त्तन्त धर्मोऽपि राजार्यः क्रियते जनैः ॥ ८३२ ॥
चराचरवपुभृतामभयदानदानेश्वरो ___ जडाखिलगापगाचरणरत्नराशिप्रदः। लसनिज-परागमाप्रकटतत्त्वपारंगमः
शशाङ्ककुलशेखरो जयति हेमचन्द्रप्रभुः॥८३३ ॥ व्याकरणं पञ्चाङ्गं प्रमाणशास्त्रं प्रमाणमीमांसा ।। छन्दोऽलङ्कतिचूडामणी च शास्त्रे विभुळधित ॥ ८३४ ॥ एकार्थानेकार्था देश्या निर्घण्ट इति च चत्वारः। विहिताश्च नामकोशाः शुचि कवितानापाध्यायाः ॥ ८३५ ॥ त्र्युत्तरषष्टिशलाकानरेतिवृत्तं गृहिव्रतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥ ८३६ ॥ लक्षण-साहित्यगुणं विदधे च याश्रयं महाकाव्यम् ।
चक्रे विंशतिमुच्चैः सवीतरागस्तवानां च ।। ८३७ ॥ इति तद्विहितग्रन्थसंख्यैव नहि विद्यते । नामापि न विदन्त्येषां मादृशा मन्दमेधसः ॥ ८३८ ॥ 20
३१. व्याख्यायामन्यदा श्रीमच्छत्रुञ्जयगिरेः स्तवम् । श्रीमद्भवतकस्यापि प्रभुराह नृपाग्रतः ॥ ८३९॥
उपदेशप्रदीपेन विध्वस्तान्तस्तमा नृपः । तीर्थयात्रां ततश्चक्रे 'शकेभोज्वलंकीर्तिभृत् ॥ ८४० ॥ प्रयाणैः पञ्चगव्यूतैः पादचारेण सोऽन्यदा । अनुपानत्कगुरुणा प्रापोपवलभि द्रुतम् ॥ ८४१ ॥ तत्रास्ति स्थाप ईर्ष्यालुरिति भूमिधरद्वयम् । तदधो गुरवः प्रीताः प्रातरावश्यकं दधुः ।। ८४२ ॥ भूपतिस्तत्र चागत्य वासनामोदमेदुरः । प्रभुत्वान्निर्जितात्मीयगुरुनिष्ठाविशिष्टधीः ॥ ८४३ ॥ 25 प्रणनाम प्रभोः पादौ प्रक्रान्तेऽतः प्रयाणके । प्रासादौ कारयामास भूपोऽत्र गुरुभक्तितः ॥ ८४४ ॥ श्रीनाभेय-त्रयोविंशजिनबिम्बे विधाप्य च । प्रतिष्ठाप्य प्रभोः पार्शदस्थापयत चात्र सः ॥ ८४५ ॥ विमलाद्रौ जिनाधीशं नमश्चक्रेऽतिभक्तितः । निजानुमानतोऽभ्यर्च्य ययौ रैवतकाचलम् ॥ ८४६ ॥ दुरारोहं गुरुं पद्याभावाद् दृष्ट्वा स वाग्भटम् । मत्रिणं तद् विधानाय समादिक्षत् स तां दधौ ॥८४७॥ तत्र छत्रशिलाशङ्कावशाच्छैलाधिरोहणम् । राज्ञो विघ्नाय तदधोभूस्थः श्रीनेमिमार्चयत् ॥ ८४८॥ 30 ततो व्यावृत्य स प्राप नगरं खं नराधिपः । जैनयात्रोत्सवं कृत्वा मेने स्वं पुण्यपूरितम् ॥ ८४९ ।।
1N जयंतस्थापना। 2N भुवि कविता। 3 N नरेशवृत्तं । 4N शकाभो ।