________________
२१०
प्रभावकचरिते
10
15
भवादृशः पृथिव्यां चेन्नाथोऽपूर्वपितृप्रभुः । न स्याल्लोकद्वयापायसंहर्ता प्राणभृद्गणे ॥ ७९५ ॥-युग्मम् । अवन्धं वन्द्यमानेन मां निस्तारयितुं त्वया । पुपूरे समसंवेगवासना सङ्गमोचिनी ॥ ७९६ ॥ निर्जंहस्थैर्यतिभिरभियुक्तोऽपि जीवितुम् । क्लीबो व्रतस्य कष्टानि न सोढा प्रायमासदम् ।। ७९७ ।। उवाच भूपतिर्थीमन् ! मुनीशः कस्त्वया समः । निमित्तादेकतस्त्यक्तसङ्गः प्रत्येकबुद्धवत् ॥ ७९८ ॥ तीर्थकृद्दर्शनाधारं प्रणामं मे स्वभावजम् । मानयन्नुपकाराय कृतज्ञमुकुटायसे ।। ७९९ ॥ ममाथ वन्दनामात्रार्जितमप्यप्रतीच्छया । अदित्सन् सुकृतं संविभागार्ह मां न मन्यसे ॥८००॥ उदरंभरिता युक्ता सतां नैतदिति ब्रुवन् । तद्वचोऽवसरादानात् प्रणनाम बलादपि ॥ ८०१॥ अथाहानशनी धन्यो देशः पुण्यश्रियः प्रजाः । क्षाल्यते यत्र पङ्करत्वदर्शनामृतवृष्टिभिः ॥ ८०२॥ श्रुत्वेत्यानन्दसम्भेदगद्गदाक्षः क्षमापतिः । प्रभोः श्रीहेमचन्द्रस्य गत्वा वृत्तमथावदत् ॥ ८०३ ॥ युष्माभिरुपदिष्टानां नियमानां प्रपालना । प्रभो ! कामदुधैवेयं समस्तहृदभीष्टदा ॥ ८०४ ॥ अवोचन गुरवः पुण्यदशेयं तव जाग्रती । प्रकाशयति वस्तूनि गुरुभक्त्यर्चिरर्चिता ॥ ८०५॥
एवं कृतार्थयन् जन्म सप्तक्षेत्र्यां धनं वपन् । चक्रे संप्रतिवज्जैनभवनैर्मण्डितां महीम् ॥ ८०६ ॥ ६२९. श्रीशलाकानृणां वृत्तं स्वोपझं प्रभवोऽन्यदा । व्याचख्युपतेधर्मस्थिरीकरणहेतवे ॥ ८०७॥
श्रीमहावीरवृत्तं च व्याख्यान्तः सूरयोऽन्यदा । देवाधिदेवसम्बन्धं व्याचख्युभूपतेः पुरः ॥ ८०८ ॥ यथा प्रभावती देवी भूपालोदयनप्रिया । श्रीचेटकावनीपालपुत्री तस्या यथा पुरा ॥ ८०९ वारिधौ व्यन्तरः कश्चिद् यानपात्रं महालयम् । स्तम्भयित्वाऽर्पयच्छ्राद्धस्याद्धं संपुटं दृढम् (?)*॥८१०॥ एनं देवाधिदेवं य उपलक्षयिता प्रभुम् । स प्रकाशयिता' नान्य इत्युक्त्वाऽसौ तिरोदधे ॥ ८११ ॥ पुरे वीतभये यानपात्रे सङ्घटिते यथा । अन्यैर्नोद्घाटितं देव्या वीराख्यायाः प्रकाशितम् ।। ८१२ ॥ यथा प्रद्योतराजस्य हस्तं सा प्रतिमा गता । दास्या तत् प्रतिबिम्बं च मुक्तं पश्चात् पुरे यथा ॥ ८१३ ।। ग्रन्थगौरवभीत्या च न तथा वर्णिता कथा । श्रीवीरचरिताज्ज्ञेया तस्यां श्रुतिसकौतुकैः।-षभिःकुलकम्। तां श्रुत्वा भूपतिः कल्पहस्तान्निपुणधीरसौ । प्रेष्य वीतभये शून्येऽचीखनत् तद्भुवं क्षणात् ॥ ८१५ ॥ राजमन्दिरमालोक्य भुवोऽन्तस्तेऽतिहर्षतः । देवतावसरस्थानं प्रापुर्बिम्बं तथार्हतः ॥ ८१६ ॥ आनीतं च विभो राजधानीमतिशयोत्सवैः । स प्रवेशं दधे तस्य सौधदैवतवेश्मनि ॥ ८१७ ॥ प्रासादः स्फाटिकस्तत्र तद्योग्यः पृथिवीभृता । प्रारेभेऽथ निषिद्धश्च' प्रभुभि विवेदिभिः ॥ ८१८ ॥ राजप्रासादमध्ये च नहि देवगृहं भवेत् । इत्थमाज्ञामनुल्लंघ्य न्यवर्त्तत ततो नृपः ।। ८१९ ॥
एकातपत्रतां जैनशासनस्य प्रकाशयन् । मिथ्यात्वशैलवनं श्रीहेमचन्द्रप्रभुर्बभौ ॥ ८२० ॥ ३०. तथा लोलार्कचैत्यस्याग्रतः क्षेत्राधिपालये । अपश्यदामिषापूर्ण शरावं तण्डकाधिपः ।। ८२१ ॥
तेन त्रिलोचनस्येव संहर्तुरनयस्पृशाम् । तत् त्रिलोचननाम्नश्च तलारक्षस्य दर्शितम् ॥ ८२२ ॥ असंख्यजनसञ्चारानुपलब्धपदस्ततः । अन्वेषयन्नुपायं स लेभे मतिमतां वरः ॥ ८२३ ॥ कुलालवृन्दमाकार्य प्रत्येकं तदुदैक्षयत् । शरावं घटितं केन पप्रच्छेति कुशाग्रधीः ॥ ८२४ ॥ एकस्तेषाम भिज्ञाय व्याहरद् घटितं मया । अचीकरच्च तं लक्षो नड्डलेशस्थगीधरः।। ८२५ ॥
20
25
30
1A N प्राणिभृद्। 2 A 'मोचिती। 3 N यतिभिरेभिर्युक्तोऽपि । 4 N सुकृतं संविभागार्ह न मन्यसे । 5 N गद्दाख्यः सभापतिः। 6 BN श्राद्धतस्याई। * सप्ताक्षरपादोऽयम् AD आदर्शद्वयेऽपि। 7 A प्रकाशयता । 8 B'न्यत्य । 90 प्रतिषिद्धश्च । 10 A D°भाववेदिभिः ।