Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 221
________________ 10 15 १९८ प्रभावकचरिते बहुधा बहुभिर्मश्छिद्यमानमपि क्षयम् । प्राप्नोति न ततः खिन्नो व्यावर्त्तत नराधिपः ॥ ४२२ ॥ उपवर्ष समागत्याणहिल्लपुरमध्यतः । चतुर्मास्यां पुनः सैन्यं जातशोषमपोषयत् ॥ ४२३ ॥ प्रावर्त्तत च तस्यान्ते पुनीष्मे न्यवर्तत । एवमेकादश समा व्यतीयुः पृथिवीपतेः ॥ ४२४ ॥ मम पीतपराम्भोधेरपि' भाग्याधिकः कथम् । अर्णोराज इति ध्यायन क्षणं तस्थौ नराधिपः ॥ ४२५ ॥ तस्य वाग्भटदेवोऽस्ति मत्री मत्रीव नाकिनाम् । नीत्या क्षत्रेण मत्रेणोदयनस्याङ्गभूस्तदा ॥ ४२६ ।। अपृच्छत् तं नराधीशः सङ्कटेऽस्मिन् समागते । अस्ति सप्रत्ययः कश्चित् सुरो यक्षोऽथवा सुरी ॥४२७॥ प्रातिहार्यप्रभावेण भवामो जितकाशिनः । यस्य तस्य मनोऽवश्यं वश्यं नो भवतु ध्रुवम् ॥ ४२८ ॥ व्यजिज्ञपदथ श्रीमान् वाग्भटस्तस्य वाग्भटः । अवधार्य वचः सावधानेन प्रभुणा मम ॥ ४२९ ॥ यदा श्रीस्वामिपादानामादेशात् प्रभुसोदरः । कीर्तिपालो महाबाहुः सुराष्ट्रामण्डलं ययौ ॥४३०॥ तद्देशाधीश्वरं निग्रहीतुं नवघनाभिधम् । अनेकशो विग्रहैश्व खेदिताद्यनराधिपम् ॥ ४३१॥ तदा मजनकस्तत्र श्रीमानुदयनाभिधः । स्तंभतीर्थपुरावासी जज्ञे सैन्यबलप्रदः ॥ ४३२ ॥ अन्यदा गच्छता तत्र पुंडरीकाद्रिरुद्धुरः । द्रष्टव्यस्यावधेईष्टस्तेन दुष्प्राप्यदर्शनः ॥ ४३३ ॥ ख्ये च निजेशस्य तस्य माहात्म्यमद्भुतम् । *धर्मश्रद्धाश्रिताश्चर्यादथ सोऽप्यारुरोह तम् ॥ ४३४ ॥ श्रीमद्यगादिनाथं च नमस्कृत्यातिभक्तितः । मेने कृतार्थमात्मानं स ध्यानादनुजः प्रभोः ॥ ४३५॥ प्रासाद आलुलोके च तेन सोऽप्यतिजर्जरः । ततः श्रीकीर्तिपालेन प्रोचेऽसौ भांडशालिकः ॥ ४३६॥ प्रासादस्यास्य नश्चेतस्युद्दिधीर्षा स्थिता ध्रुवम् । जित्वामुं विग्रहं प्रत्यावृत्तः सर्व विधास्यते ॥ ४३७ ।। पर्वतादवतीर्याथ प्रतस्थे पुरतोऽधिपः । अभ्यमित्रीणतां प्राप नृपः सोऽपि मदोद्धतः ॥ ४३८ ॥ तत आसीन्महायुद्धं कुन्ताकुन्ति गदागदि । सैन्ययोरुभयोः शौर्यावेशादज्ञातघातवान् ॥ ४३९॥ तस्मिन्नुदयनोऽपि स्वस्वामिनः पुरतः स्थितः । प्रजहे प्रहृतश्चासौ न्यपतद् भूमिमण्डले ॥ ४४०॥ युद्धे जिते हते शत्रौ शोध्यमाने रणे प्रभुः । निरीक्ष्योदयनं श्वासावशेषायुषमूचिवान् ॥ ४४१ ॥ अनित्यो भौतिको देहः स्थिरेण यशसा त्वया । व्यकीयत स्फुटं साधु वणिग्व्यवहृतिः कटः ॥ ४४२ ॥ किंचिद् यदस्ति ते चित्ते शल्यं खुरखुरायितम् । ब्रूहि तद् विधानोऽहं किंचित् ते स्यामृणातिगः ॥४४३॥ अथ स प्राह नाथ स्मो वयं स्वामिवशाः स्थिताः । तत्कार्यादपरं नैव जानीमोऽनन्यचेतनाः ॥ ४४४ ॥ श्रीमसिद्धाधिपाद् बिभ्यद् भवबन्धुः क्षितीश्वरः । बटुमेकं समीपे मे प्रैषीत् स न्यकृतो मया ॥४४५॥ श्रीमान कुमारपालोऽपि क्षणं मयि तदा घनम् । अधारयिष्यदत्युप्रमूरीचक्रे मयापि तत् ॥ ४४६॥ इदानीं तु त्वदंहीणामग्रेऽसून मुञ्चतो मम । उभौ लोकौ निजाम्नायः श्रुतं शीलं पवित्रितम् ॥ ४४७ ॥ मृत्यौ विप्रतिसारो नास्माकं विज्ञापयामि तु । किंचिन्मन्नन्दनस्यास्य वाग्भटाख्यस्य कथ्यताम् ॥४४८॥ शत्रुञ्जयमहातीर्थे प्रासादस्य प्रतिश्रुतः । जीर्णोद्धारस्ततः श्रेयोहेतुर्मे स विधीयताम् ॥ ४४९॥ ओमित्युक्त्वा ततः कीर्तिपालेनाङ्गीकृते तदा । परासुरभवत् तत्र श्रीमानुदयनः शमी ।। ४५० ॥ कृते तत्रानृणो वप्तुरहं स्यामधुना पुनः । स्वां देवकुलिकामेकां नगरान्तय॑धापयम् ॥ ४५१ ॥ तथाऽत्रैव पुरे 'वासी व्यवहारी महाधनः । श्रीछडुक इत्याख्यः श्रेष्ठी नवतिलक्षकः ॥ ४५२ ॥ मन्मैञ्या तेन चाकारि धर्मस्थानेऽत्र खत्तकम् । श्रीमत्तत्राजितस्वामिबिम्बं चास्थाप्यतामुना ॥ ४५३ ॥ प्रतिष्ठितं च श्रीहेमसूरिभिर्ज्ञानभूरिभिः । तदीयहस्तमन्त्राणां माहात्म्यात् सकलं ह्यभूत् ॥ ४५४ ॥ 20 25 30 1A °परांभोधिरपि भाग्याधिपः। * पतित एष उत्तरार्द्धः N पुस्तके। 2 A D स्वखमिव । 3 N व्यवहते कटुः । 40 तन्मुंचतो। 5N तत् । 6N परिश्रुतः। 7 N पुरे वासीद् ।

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252