________________
10
15
१९८
प्रभावकचरिते बहुधा बहुभिर्मश्छिद्यमानमपि क्षयम् । प्राप्नोति न ततः खिन्नो व्यावर्त्तत नराधिपः ॥ ४२२ ॥ उपवर्ष समागत्याणहिल्लपुरमध्यतः । चतुर्मास्यां पुनः सैन्यं जातशोषमपोषयत् ॥ ४२३ ॥ प्रावर्त्तत च तस्यान्ते पुनीष्मे न्यवर्तत । एवमेकादश समा व्यतीयुः पृथिवीपतेः ॥ ४२४ ॥ मम पीतपराम्भोधेरपि' भाग्याधिकः कथम् । अर्णोराज इति ध्यायन क्षणं तस्थौ नराधिपः ॥ ४२५ ॥ तस्य वाग्भटदेवोऽस्ति मत्री मत्रीव नाकिनाम् । नीत्या क्षत्रेण मत्रेणोदयनस्याङ्गभूस्तदा ॥ ४२६ ।। अपृच्छत् तं नराधीशः सङ्कटेऽस्मिन् समागते । अस्ति सप्रत्ययः कश्चित् सुरो यक्षोऽथवा सुरी ॥४२७॥ प्रातिहार्यप्रभावेण भवामो जितकाशिनः । यस्य तस्य मनोऽवश्यं वश्यं नो भवतु ध्रुवम् ॥ ४२८ ॥ व्यजिज्ञपदथ श्रीमान् वाग्भटस्तस्य वाग्भटः । अवधार्य वचः सावधानेन प्रभुणा मम ॥ ४२९ ॥ यदा श्रीस्वामिपादानामादेशात् प्रभुसोदरः । कीर्तिपालो महाबाहुः सुराष्ट्रामण्डलं ययौ ॥४३०॥ तद्देशाधीश्वरं निग्रहीतुं नवघनाभिधम् । अनेकशो विग्रहैश्व खेदिताद्यनराधिपम् ॥ ४३१॥ तदा मजनकस्तत्र श्रीमानुदयनाभिधः । स्तंभतीर्थपुरावासी जज्ञे सैन्यबलप्रदः ॥ ४३२ ॥ अन्यदा गच्छता तत्र पुंडरीकाद्रिरुद्धुरः । द्रष्टव्यस्यावधेईष्टस्तेन दुष्प्राप्यदर्शनः ॥ ४३३ ॥
ख्ये च निजेशस्य तस्य माहात्म्यमद्भुतम् । *धर्मश्रद्धाश्रिताश्चर्यादथ सोऽप्यारुरोह तम् ॥ ४३४ ॥ श्रीमद्यगादिनाथं च नमस्कृत्यातिभक्तितः । मेने कृतार्थमात्मानं स ध्यानादनुजः प्रभोः ॥ ४३५॥ प्रासाद आलुलोके च तेन सोऽप्यतिजर्जरः । ततः श्रीकीर्तिपालेन प्रोचेऽसौ भांडशालिकः ॥ ४३६॥ प्रासादस्यास्य नश्चेतस्युद्दिधीर्षा स्थिता ध्रुवम् । जित्वामुं विग्रहं प्रत्यावृत्तः सर्व विधास्यते ॥ ४३७ ।। पर्वतादवतीर्याथ प्रतस्थे पुरतोऽधिपः । अभ्यमित्रीणतां प्राप नृपः सोऽपि मदोद्धतः ॥ ४३८ ॥ तत आसीन्महायुद्धं कुन्ताकुन्ति गदागदि । सैन्ययोरुभयोः शौर्यावेशादज्ञातघातवान् ॥ ४३९॥ तस्मिन्नुदयनोऽपि स्वस्वामिनः पुरतः स्थितः । प्रजहे प्रहृतश्चासौ न्यपतद् भूमिमण्डले ॥ ४४०॥ युद्धे जिते हते शत्रौ शोध्यमाने रणे प्रभुः । निरीक्ष्योदयनं श्वासावशेषायुषमूचिवान् ॥ ४४१ ॥ अनित्यो भौतिको देहः स्थिरेण यशसा त्वया । व्यकीयत स्फुटं साधु वणिग्व्यवहृतिः कटः ॥ ४४२ ॥ किंचिद् यदस्ति ते चित्ते शल्यं खुरखुरायितम् । ब्रूहि तद् विधानोऽहं किंचित् ते स्यामृणातिगः ॥४४३॥ अथ स प्राह नाथ स्मो वयं स्वामिवशाः स्थिताः । तत्कार्यादपरं नैव जानीमोऽनन्यचेतनाः ॥ ४४४ ॥ श्रीमसिद्धाधिपाद् बिभ्यद् भवबन्धुः क्षितीश्वरः । बटुमेकं समीपे मे प्रैषीत् स न्यकृतो मया ॥४४५॥ श्रीमान कुमारपालोऽपि क्षणं मयि तदा घनम् । अधारयिष्यदत्युप्रमूरीचक्रे मयापि तत् ॥ ४४६॥ इदानीं तु त्वदंहीणामग्रेऽसून मुञ्चतो मम । उभौ लोकौ निजाम्नायः श्रुतं शीलं पवित्रितम् ॥ ४४७ ॥ मृत्यौ विप्रतिसारो नास्माकं विज्ञापयामि तु । किंचिन्मन्नन्दनस्यास्य वाग्भटाख्यस्य कथ्यताम् ॥४४८॥ शत्रुञ्जयमहातीर्थे प्रासादस्य प्रतिश्रुतः । जीर्णोद्धारस्ततः श्रेयोहेतुर्मे स विधीयताम् ॥ ४४९॥ ओमित्युक्त्वा ततः कीर्तिपालेनाङ्गीकृते तदा । परासुरभवत् तत्र श्रीमानुदयनः शमी ।। ४५० ॥ कृते तत्रानृणो वप्तुरहं स्यामधुना पुनः । स्वां देवकुलिकामेकां नगरान्तय॑धापयम् ॥ ४५१ ॥ तथाऽत्रैव पुरे 'वासी व्यवहारी महाधनः । श्रीछडुक इत्याख्यः श्रेष्ठी नवतिलक्षकः ॥ ४५२ ॥ मन्मैञ्या तेन चाकारि धर्मस्थानेऽत्र खत्तकम् । श्रीमत्तत्राजितस्वामिबिम्बं चास्थाप्यतामुना ॥ ४५३ ॥ प्रतिष्ठितं च श्रीहेमसूरिभिर्ज्ञानभूरिभिः । तदीयहस्तमन्त्राणां माहात्म्यात् सकलं ह्यभूत् ॥ ४५४ ॥
20
25
30
1A °परांभोधिरपि भाग्याधिपः। * पतित एष उत्तरार्द्धः N पुस्तके। 2 A D स्वखमिव । 3 N व्यवहते कटुः । 40 तन्मुंचतो। 5N तत् । 6N परिश्रुतः। 7 N पुरे वासीद् ।