________________
२२. हेमचन्द्रसूरिचरितम् ।
१९७ कापालिकव्रते' कौले शैवे चित्रपटोत्तरे । चरन् कदापि कुत्रापि कृत्रिमे कृत्रिमक्रमः॥ ३९१ ॥ ततो वर्षाणि सप्तापि दिनानीवात्यवाहयत् । गुरुवाक्यैर्मनो बिभ्रत् सङ्कटेऽपि विसङ्कटम् ॥ ३९२ ॥ तस्य भोपलदेवीति कलत्रमनुगाऽभवत् । छायेव सर्वावस्थास्वमुञ्चन्ती सविधे स्थितिम् ॥ ३९३ ॥
द्वादशस्वथ वर्षाणां शतेषु विरतेषु च ।
एकोनेषु महीनाथे सिद्धाधीशे दिवं गते ॥ ३९४ ॥ ज्ञात्वा कुतोऽपि सत्त्वाढ्यः कुमारोऽगान्निजं पुरम् । अस्थादासन्नदेशस्थो वासके श्रीतरोरधः॥३९५॥ दुर्गादेव्याः स्वरं तत्र मधुरं शुश्रुवे सुधीः । तामाजुहाव भाग्यस्य जिज्ञासुः प्रमिति तदा ॥ ३९६ ॥ मम पश्यसि चेद राज्यं देवि ज्ञाननिधे! ततः । उपविश्यैव मे मूर्ध्नि स्वरं श्रुतिसुखं कुरु ॥ ३९७ ॥ वचनानन्तरं साऽपि तथैवाधादतिस्फुटम् । 'तू राज' इति संरावं तच्चतःसौधदीपकम् ।। ३९८॥ आयात् पुरान्तरा श्रीमत्सांबस्य मिलितस्ततः । चित्ते सन्दिग्धराज्याप्तिनिमित्तान्वेषणाहतः॥ ३९९ ।। 10 स तेन सह संगत्य पार्श्वे श्रीहेमसुप्रभोः । तन्निषद्यावृते पट्टे उपविष्टो विशिष्टधीः ॥ ४००॥ भविष्यत्येव ते राज्यं यन्निविष्टोऽस्मदासने । एतदेव निमित्तं न इत्यमुष्य गुरुर्जगौ ॥४०१॥ राज्येच्छया पादपातीति विगानभिया नहि । नतोऽहमिति शंक्यो न प्रभो दुर्विनयो मयि ॥४०२॥ तत्रास्ति कृष्णदेवाख्यः सामन्तोऽश्वायुतस्थितिः। स्वसुः पतिः कुमारस्य मिलितो निशितस्य च ॥४०३॥
-युग्मम् । 15 श्रीसिद्धराजमेरौ च संजग्मुः शिवमन्दिरे । प्रधाना राज्यसर्वस्वं राज्ययोग्यपरीक्षिणः ॥ ४०४ ॥ कुमारोऽपि पुरस्यान्तराऽऽजगाम चतुष्पथे । एकत्र सङ्गतानां च प्रधानानां तदाऽमिलत् ।। ४०५॥ कृष्णः प्रवेशयामास प्रासादे तं करे कृतम् । तत्रापरौ च तस्थाते राजपुत्रौ प्रवेशितौ ॥ ४०६॥ तयोरेकः प्रणम्यात्र पार्षद्यान् स उपाविशत् । अपरोऽपि स्वसंव्यानपट' मुत्कुलमातनोत् ॥ ४०७ ॥ अथ श्रीकृष्णदेवेनोपविशेत्युदिते सति । संवृत्य वस्त्रयुग्मं स्वमुपाविक्षद् वरासने ॥ ४०८॥ 20 व्यचारयन्त नीतिज्ञा एकस्तावत् कृतानतिः । निस्तेजाः परिभूयेत स्वैः परैरपि निन्द्यधीः ॥ ४०९॥ सम्भ्रान्तलोचनं पश्यन्नपरो मुत्कलाञ्चलः । तस्य पार्थात् परैर्भूपैर्विश्वं राज्यं ग्रहीष्यते ॥ ४१० ॥ असौ कुमारपालश्च दैवज्ञानुमतः पुरा । धीरं पश्यनिहायातः संवृत्याञ्चलमण्डलम् ॥ ४११ ॥ निग्रहीता विपक्षाणां विग्रहीता दिगन्तरान् । भविष्यति महाभाग्यः सार्वभौमसमः श्रिया ॥४१२॥ अभिषेकमिहैवास्य विदध्वं ध्वस्तदुर्द्धियः । आसमुद्रावधिं पृथ्वीं पालयिष्यत्यसौ ध्रुवम् ॥ ४१३ ॥ 25 अथ द्वादशधा तूर्यध्वनिडम्बरिताम्बरम् । चक्रे राज्याभिषेकोऽस्य भुवनत्रयमङ्गलम् ॥ ४१४ ॥ प्रविवेशोत्सवै राजा राजसौधं नृपासनि । निविष्टो गोत्रवृद्धाभिरक्षतैरभ्यवर्यत ॥ ४१५ ॥
कृतप्रशमनाचारः प्रतापोग्रः परंतपः । कुमारपालभूपालः पालयामास मेदिनीम् ॥ ४१६ ॥ ६१६. सपादलक्षभूमीशमोंराज मदोद्धतम् । विग्रहीतुमनाः सेनामसावेनामसज्जयत् ॥ ४१७ ॥
हास्तिकाश्वीयपादातरथ्याभिरभितो वृतः । धिष्ण्यग्रहौषधीतारानिकरैरिव चन्द्रमाः ॥ ४१८ ॥ 30 चचाल लघु सामन्तमण्डलीकमहाधरैः' । अन्यैश्च क्षत्रियैः सेव्यपादाम्भोजयुगस्ततः ॥ ४१९ ॥ दिनैः कतिपथैरेवाजयमेरु सुदुर्ग्रहम् । लंकादुर्गमिवागम्यं नृपः प्राकारमासदत् ।। ४२०॥-विशेषकम्। परितोऽस्य च बब्बूलबदिरीखदिरद्रुमैः। करीरैर्गुपिलं नृणां दुर्गमं योजनद्वयम् ॥ ४२१ ॥
1व्रतैः। 20 वासकैः। 3N भिशिष्टधीः। 4 तत्रापरावतस्थाते। 5N °पदं मुकुल°। 6N मदोद्धरम् । 7N मंडलैकमहीधरैः। 8 N करीरैगुंफित ।