________________
5
10
15
20
25
30
प्रभावकचरिते
प्रतापाक्रान्त दिक्चक्रोऽनेकभूपालजित्वरः । भविष्यति पुनस्तस्य पश्चाद् राज्यं विनंक्ष्यति ॥ ३५९ ॥ श्रुत्वेति भूपतिर्भाव्यं भवतीति विदन्नपि । तत्र द्वेषं परं वोढा वधेच्छुरभवत् ततः ॥ ३६० ॥ कथंचिदिति स ज्ञात्वाऽपसृत्य शिवदर्शने । जटामुकुटवान् भस्मोद्धूलनः सत्तपो दुधे ॥ ३६१ ॥ विज्ञप्तमन्यदा चारैर्जटाधरशतत्रयम् । अभ्यागादस्ति तन्मध्ये भ्रातृपुत्रो भवद्रिपुः || ३६२ ॥ भोजनाय निमन्त्रयन्ते ते सर्वेऽपि तपोधनाः । पादयोर्यस्य पद्मानि ध्वजश्छत्रं स ते द्विषन् ॥ ३६३ ॥ श्रुत्वेत्याह्वाप्य तान् राजा तेषां प्राक्षालयत् स्वयम् । चरणौ भक्तितो यावत् तस्याप्यवसरोऽभवत् ॥ ३६४ ॥ पद्मेषु दृश्यमानेषु पदयोर्हष्टिसञ्ज्ञया । ख्यातेऽत्र तैर्नृपो ज्ञानात् ' कुमारोऽपि बुबोध तत् ॥ ३६५ ॥ ततः कमण्डलुं हस्ते कृत्वा प्रश्रावदम्भतः । बहिर्भूय नृपावासादुपलक्षणभीर्दिने ॥ ३६६ ॥ वसतिं हेमसूरीणां त्रस्तः स्रस्तवपुर्बलः । आययौ भूपतो रक्ष रक्षेत्याख्यन् स्खलद् गिरा ॥ ३६७ ॥ प्रभुभिः साहसात् ताडपत्रलक्षान्तराहितः । राजमर्त्यैः पदायातैर्व्यालोकि नतु चेक्षितः ॥ ३६८ ॥ - युग्मम् । निश्याकृष्य प्रेषितश्च प्रायाद् देशान्तरं पुनः । प्राग्वदागात् साहसिक्यमहो भाग्यस्य लक्षणम् ॥ ३६९ ॥ तथा निर्गत्य तस्मात्तु वामदेवतपोवने । तत्तीर्थस्नानदम्भेन जटी प्रायादपायभीः || ३७० ॥ आलिनाम्नः कुलालस्य यावदालयसन्निधौ । आययौ पृष्ठतो लग्नान् सादिनस्तावदैक्षत ॥ ३७१ ॥ आह प्रजापते ! रक्ष शरणागतवत्सल ! । मां संकटादतो रक्ष तत्रमागतमेव यत् ।। ३७२ ॥ स च ' सचितनीवाह कोणे संस्थाप्य तं तदा । मुमोच वह्निमहाय विमुच्य तदवस्थितिम् ॥ ३७३ ॥ सतुरङ्गिभिरायातैः पृष्टः कोऽपि जटाधरः । तत्रायातो नवाऽजल्पि न व्यग्रत्वान्मयैक्ष्यत ॥ ३७४ ॥ निर्विद्यानादराचैते व्यावृत्य प्रययुस्तदा । रात्रौ सोऽपि बहिः कृष्टस्तेन देशान्तरेऽचलत् ।। ३७५ ।। १५. स्तम्भतीर्थपुरं प्रायाद् द्विजेनानुगतस्ततः । तदा वोसरिणा श्रीमान् कुमारः स्फारवृत्तभूः॥३७६॥ श्रीमालवंश भूस्तत्र व्यवहारी महाधनः । समस्त्युदयानाभिख्यस्तस्य पार्श्वेऽगमद्' बटुः || ३७७ ॥ एकान्तेऽस्य स्ववृत्तान्ते तेन सत्ये निवेदिते । अवादीद् वणिजां श्रेष्ठः किंचित्प्रार्थितशम्बलः ॥ ३७८ ॥ अनभीष्टो महीशस्य यस्तेनार्थो न नः स्फुटम् । तद् द्रागपसरेह त्वां मा द्राक्षू राजपूरुषाः ॥ ३७९॥ बटो ! स्वामिनमात्मीयं पुरः सीमां प्रहापय । एवमुक्तः स नैराश्यं प्राप प्राप्तभयोदयः ॥ ३८० ॥ श्रुत्वा कुमारपालोsपि तत्पुरं प्राविशन् निशि । बुभुक्षाक्षामकुक्षिः सन् चतुर्थे लङ्घने तदा ।। ३८१ ॥ सूरिः श्रीहेमचन्द्रश्च चतुर्मासकमास्थितः । तदा चारित्रसज्ज्ञान 'लब्धिभिगौतमोपमः ॥ ३८२ ॥ उद्यद्व्याख्यानलीलाभिर्वारिदस्येव वृष्टिभिः । शीतीकुर्वन् सदा भव्यमनोभूमिं शमिप्रभुः ॥ ३८३ ॥ कथंचिदपि तत्रागात् कुमारोऽपीक्षितश्च तैः । आकृत्या लक्षणैश्चायमुपालक्षि विचक्षणैः ॥ ३८४ ॥ वरासन्युपवेश्योच्चै राजपुत्रास्स्व निर्वृतः । अमुतः सप्तमे वर्षे पृथ्वीपालो भविष्यसि ॥ ३८५ ॥ *स प्राह पूज्यपादानां प्रसादेन भविष्यति । सर्वं कथं 'तु स" प्राप्यः कालो " निःकिंचनैः क्षुधा ॥ ३८६ ॥ द्वात्रिंशतमथ द्रम्मानस्य श्रावकपार्श्वतः । दापयित्वा पुनः प्राहुः शृण्वेकं नो वचः स्थिरम् ॥ ३८७ ॥ अद्यप्रभृति दारिद्र्यं नायाति तव सन्निधौ । व्यवहारैरमोच्योऽसि भोजनाच्छादनादिभिः ॥ ३८८ ॥ एवं भावीति चेद्राज्ये प्राप्ते मम कृतं विभो ! । अवलोक्यमिदानीं तु बहूक्तैः फल्गुभिः किमु ॥ ३८९॥ इत्युक्त्वा प्रययौ देशान्तरं गूढो नराधिपः । घनं घनाघनैश्छन्न इव पार्वणचन्द्रमाः ।। ३९० ॥
१९६
1 N जानात् । 2 N प्रस्ताव | 3BN नतु वीक्षितः, A ननु वेक्षितः । 4 N चिन्तित । 5N D तदा । 6 N मह द्वदुः । 7 N संज्ञात । 8 DN भविष्यति । एष पूर्वाद्धों नास्ति ABN आदर्शपुस्तके । 9BNन। 10 A B सुप्राप्यः । 11 BN कालं ।
*