________________
२२. हेमचन्द्रसूरिचरितम् ।
१९९ तत्रोपयाचितं स्वामी चेदिच्छति ततो ध्रुवम् । विजयोऽस्याभिधाऽपीदृगपराजितताकरी ॥ ४५५ ॥ इति विज्ञापनां श्रुत्वा मामका नायको भुवः । विदधातु विचार्येव ननु प्रभुपुरो मतिः ॥ ४५६ ।। विज्ञप्तेऽत्रावनीनेता ध्यातामात्यवचःक्रमः । ऊचे मनिन् ! भवद्वाक्यात् कार्यजातं मया स्मृतम् ॥ ४५७॥ सखे ! शृणु यदा पूर्व वयं सामान्यवृत्तयः । स्तम्भतीर्थमगच्छाम दिनत्रयमुपोषिताः ॥ ४५८ ॥ बोसरिर्बटुरस्माभिः प्रैष्यतोदयनान्तिके । अकृतार्थस्ततश्चागात् तदागः स्फुरितं न मे ॥ ४५९॥ 5 एतेऽहो ! स्वामिनो भक्ता इति चेतस्यभून्मम । परेषु रोषणः स्वीयाभाग्यदर्शी कृती न सः॥४६० ॥ तथा श्वेताम्बराचार्यो हेमसूरिया तदा । प्रदोषसमयेऽदर्शि कल्पद्रुमसमः श्रिया ॥ ४६१ ॥ पाथेयं कृपया किंच न दद्याद् यद्यसौ प्रभुः । राज्यं कः प्राप्स्यदानन्दि भवत्सङ्गमसुन्दरम् ॥ ४६२ ॥ तथा तद्वचनं तथ्यमभूद् दैवतवाक्यवत् । अद्यापि ध्वनति ध्मातघण्टाटङ्कारवदृढम् ॥ ४६३ ॥ बिम्बस्यास्य प्रतिष्ठातृ'व्याजात् स्मारयता गुरुम् । ममोपकृतमत्यर्थं कृतावेदी नराधमः ॥ ४६४ ॥ 10 तथा श्रीसिद्धराजोऽपि हत्वा खंगारभूपतिम् । तज्जातीयबहुत्वेन शक्तो देशं न वासितुम् ॥ ४६५॥ इदानीं त्वपितुर्बुद्ध्या शत्रवस्ते विनाशिताः । सर्वेऽपि च यथा तेषां नामापि नहि बुध्यते ॥ ४६६ ॥ भुक्तौ न्यक्षेपि देशश्च मुक्तास्तत्राधिकारिणः । ईदृग् धीमान भवद्वप्ता स्वामिभक्तिफलं हि तत् ॥ ४६७ ॥ कीर्तिपालकुमारोऽसौ पदातिर्विग्रहादिषु । अबुधः सांयुगीनेन त्वत्पित्रैव बुधः कृतः ॥ ४६८॥ तीर्थोद्धारश्च सन्दिष्टस्तेन ते तदपीह नः । कार्यं ततोऽधुनैवायमादेशो भवतात् तव ॥ ४६९ ॥ 15 राजकोशात् समादाय धनान्यापूर्णतावधि । पूर्य तस्य प्रधानस्य स्वस्यास्माकं च वाञ्छितम् ॥४७॥ इदानीं त्वस्य देवस्य बिम्ब मे दर्शय द्रुतम् । पुण्यैर्लभ्यं समभ्यर्च्य प्रस्थानं कुर्महे ततः ॥ ४७१ ॥ ततः सन्दर्यमानाध्वा श्रीमद्वाग्भटमत्रिणा । संचचालाचलाधीशः प्राप चास्य जिनालयम् ॥ ४७२॥ श्रीमन्तं पार्श्वनाथं प्रागानतो मूलनायकम् । ददर्श मत्रिणा ख्यातमजितं तदनु प्रभुम् ॥ ४७३ ॥ कुङ्कमागुरुकपरकस्तूरीचन्दनद्रवैः । सुगन्धकुसुमैश्चार्चा विदधे वासनावशात् ॥४७४॥
20 व्यजिज्ञपञ्च तीर्थेशं त्वत्प्रभावान्नृपं रिपुम् । अस्मिन्नवसरे नाथ ! विजेष्ये त्वत्प्रसादतः ॥ ४७५ ॥ ततो मम भवानेव देवो माता गुरुः पिता । अत्र साक्षी भवान् मबिन्! पाल्यमेतद्वचो मया ॥-युग्मम् ।
इत्युक्त्वाऽऽनम्य तं भूपः पुलकाङ्कितविग्रहः । तदा विजययात्राय सैन्यानि समवायत् ॥ ४७७ ॥ . १७. उपचन्द्रावति प्रायात् प्रयाणैरप्रमाणकैः । आवासान् दापयामास तत्र भूवासवो मुदा ॥ ४७८ ॥
तत्र विक्रमसिंहोऽस्ति राज्ये मुख्य महाधरः । राज्ञः कटकसेवाया निर्विण्णो गमनामनाः ॥ ४७९ ॥25 प्रशस्तैः स महामात्यैर्निजैः समममत्रयत् । वयं खेदं परं प्राप्ता निर्जीवनृपसेवया ॥ ४८० ॥ कः प्रतापो बलं किं वा भ्रान्तदेशान्तरे नरे । अत्र चित्रपटाजीवे नमस्कारों ऽतिदुष्करः॥ ४८१ ॥ भस्माधारः पुटीपात्रं जटा मूर्ध्नि शिवार्चनम् । एवं वेषे प्रणामो नः काऽत्र राज्यविडम्बना ॥ ४८२ ॥ तस्मात् कथंचिदत्रैव यद्यसौ साध्यते नृपः । असौ हि शशकः खञ्जो रुणन्निष्पाववाटकम् ॥ ४८३ ॥ कोऽपि चौलुक्य वंशीयः क्षात्रतेजोभिरद्भुतः । राज्ये निवेश्यतेऽस्माकं तदाज्ञां कर्तुमौचिती ॥ ४८४ ।। 30 प्राहुस्तस्य प्रधानाच नोचितं भवतां कुले । स्वामिद्रोहो यतोऽधीशसिद्धाधिपपदस्थितः ॥ ४८५ ।। अस्माकं सर्वथाऽऽराध्यो युद्धेष्वनियतो जयः । दुर्गरोधविशेषेण विमृश्यं तदिदं घनम् ॥ ४८६ ॥ उवाच च कथं वध्यो भूपालोऽसौ भविष्यति । कृतं वोऽ परशिक्षाभिरुपायं वदत ध्रुवम् ॥ ४८७ ॥
10 प्रतिष्ठान। 2 N प्रधानं । 3 N यात्रायां । 4 N ऽमुष्यमहाधरः। 5N चमत्कारो । 6 A षंडो। 7 A B चौलिक्य। 8N बोध्यो। 9N वो परभिक्षाभि ।