________________
प्रभावकचरिते
15
वयं हि तस्य वक्तारः स्वामिना करणे पुनः । प्रमाणं स्वरुचिर्नाथ ! तत्कुरु प्रतिभासितम्' ।। ४८८ ॥ अथाह विक्रमो वह्नियत्रं प्रकुरुताधुना । मत्सौधेऽसौ यथावश्यमक्लेशेन विनश्यति ॥ ४८९ ॥ 'व्यचारयन्निमित्तं ते निजावासेऽग्निदीपनम् । प्रागल्भ्यात् कुमतेरेतद् विनाशस्यैव सूचकम् ॥ ४९० ॥ किं च प्रविदधामोऽत्र दुर्लघ्या भवितव्यता । राज्योच्छेदोऽस्य सम्पन्नो भूपालो विजयी पुनः॥ ४९१ ॥ श्रीसिद्धाधीशपट्टे यः प्राच्यपुण्यैर्निवेशितः । एतत्सदृशभृत्यानां नासौ योग्यो भविष्यति ॥ ४९२ ॥ एवं विमृश्य तेऽवोचन हस्तस्पृष्टललाटकाः । स्वाम्यादेशः प्रमाणं नः कार्या नाऽत्र विचारणा ॥ ४९३ ॥ सूत्रधारैस्ततो भूम्यन्तरा सौधं निवेशितम् । ऊर्ध्वं च स्तम्भपट्टादि चलं वस्त्राञ्चलोपमम् ॥ ४९४ ॥ तस्योपरि प्रतिसीराप्रावारास्तरणास्तृताः । मण्डिता विततोल्लोचाऽवचूलैः पद्मकैस्तथा ॥ ४९५ ॥ मौक्तिकैः कुसुमैर्गुच्छैर्विच्छन्दकशतैरपि । सुन्दरा तत्र शय्या च सूत्रतन्तुमयाऽरचि ॥ ४९६ ।।-युग्मम् । एकत्र कीलके कृष्टे' तत्सर्वं गतमन्दिरे । खदिराङ्गारसंपूर्ण भस्मीभवति तत्क्षणात् ॥ ४९७ ॥ एवं निवेद्य ते नेत्रे नेत्रे बाष्पप्लुते दधुः । तन्नायकोऽप्युवाचैवं मतिः कार्यप्रसाधिका ॥ ४९८ ।। असौ यथा तपस्वीहक्शय्यायां चङ्गभङ्गिभिः । आक्षिप्ताक्षो निवेश्येत तदास्याधोगते' मृतिः॥४९९॥ इति प्रातर्विचिन्त्यायमायाच्छिबिरमध्यतः । राजपादान नमश्चक्रेऽवनीलुठनपूर्वकम् ॥ ५० ॥ विज्ञो विज्ञपयामास मारवो मण्डलेश्वरः । दम्भात् सुधां मुखे बिभ्रद् विषपूर्णो घटो यथा ॥ ५०१ ।। अलंकुरुत हयं मे प्रसादः क्रियतां प्रभो!। तत्र प्रत्यवसानेनावसानेनाद्य दुःस्थितेः ॥ ५०२॥ "ध्यात्वेति धीनिधिर्भूपो मारवेषु न विश्वसेत् । प्राह नः परिवारः प्राग् भुंक्तामनु वयं ततः ॥ ५०३ ॥ क एवं हि हितान्वेषी स्वामिभक्तश्च दृश्यते । परमारकुलोद्भूतं भवन्तमभयं विना ॥ ५०४ ॥ तत्र कः प्रतिषेद्धास्ति शुभे कार्ये महाधर!। अस्माकं भवदावास एव योग्यो विलोकितुम् ॥ ५०५॥ स्वाम्यादेशः प्रमाणं मे इति प्रोच्य परिच्छदम् । भक्तोऽसौ भोजयांचवेऽपराहावध्यबाधया ॥ ५०६॥ अङ्गरक्षास्ततः स्वामिमूतिरक्षासदोद्यताः । आहूतास्तत्समस्तं च कुट्टिमं प्रकटीकृतम् ॥ ५०७ ॥ यत्रासन्नः पुमानेको वृद्धो मतिमतां पतिः । आजिघ्रन् गन्धमत्युयं ध्माताङ्गारगणस्य सः ॥ ५०८॥ विममर्श निजस्वान्ते विज्ञानं किञ्चिदद्भुतम् । तत्रास्ते वह्निसम्बद्धं प्रभुद्रोहस्य कारणम् ॥ ५०९ ॥ ततस्तं विक्रमः साभिप्रायं दृष्टिविकारतः । परिज्ञायातिसच्चक्रे वक्राशयशिरोमणिः ॥ ५१० ॥ ययौ विक्रमसिंहोऽथ सह तेनैव मन्दिरम् । राज्ञः प्राह च मत्सौधे नाथ ! पादोऽवधार्यताम् ॥५११॥ अथ भ्रूसञ्ज्ञया तेन न्यषेधि गमनं प्रति । भूपतिः प्राह तत्रं मे समस्तं भोजितं त्वया ॥ ५१२ ॥ वयं तु प्राक्त्रियामायां चिन्ताजागरपीडिताः । अधुनाऽभ्यवहारेषु" नाभिलाषुकचेतसः ॥ ५१३ ॥ मुहूर्त्तश्चापि दैवज्ञैः प्रयाणाय विचारितः । संप्रत्येव ततो ढक्का वाद्या प्रस्थीयते यथा ॥ ५१४ ।। त्वमपि स्वां चमूं सज्जीकृत्य कृत्यविशारद ! । शीघ्रमागच्छ न च्छेका जृम्भायन्ते त्वरायिते" ॥५१५॥ अन्तःशङ्कां वहन्नोमित्युक्त्वा च प्रययौ स्वकम् । धाम ज्ञातमिवायं स्वं विमृशन" चेतसि क्षणम् ॥५१६।। झटित्येव प्रतस्थे च स्कन्धावार प्रभोस्तदा । अचिराद रिपुदुर्गस्योपकण्ठे शिबिरं दधौ ॥ ५१७॥ स यथास्थानमातस्थौ शिबिरस्य निवेशनम्" । अहर्दिवं प्रहरके जाग्रव्यग्रभटोद्धरम् ॥ ५१८ ॥
20
25
30
1N प्रतिभाषितं । 2 B विचारयन्नि। 3 N कुमारेतत् । 4 N कुष्टे । 5 B चंगभंगिनः। 6 D निविश्येत । 7 B तदाधोवगतेप॑तिः। 8 A प्रत्यवसानेनाव्यसनेनाद्य; B प्रत्यवसानेनावसीनेनाद्य । 9 N ध्वांतेति । 10 A प्रभोद्रोहस्य; N प्रभुविद्रोहका। 11 B भ्यवहारे तु। 12 N निवेदितः। 13 N तच्छेका। 14 A Mभायां खरितायते; N जंभायंते खरायते । 15 A व्यमृशन् । 16A स्तंभाचारप्रभो D स्तंवाचार खंवाचाट। 17 N निकेतनं ।