________________
२२. हेमचन्द्रसूरिचरितम् ।
२०१
अर्णोराजोऽप्यजानानः सिद्धकुम्भभवत्रतम् । अवमेनेऽवलेपोप्रव्याहारोर्मिभिरेव तम् ॥ ५१९ ॥ अथैकादश वर्षाणि विजुगोप पदोरधः । ममाथ द्वादशेऽप्यस्तु काऽत्र भूपालकल्पना ॥ ५२० ॥ हतसत्त्वोद्वृतैर्भीत्या कृत्रिमैरपि दर्शनैः । जीव जीवेति जल्पद्भिर्मतो राजा स्वसेवकैः ॥ ५२१ ॥ तथा चारुभटः श्रीमत् सिद्धराजस्य पुत्रकः । हक्काढक्कास्वरभ्रान्तहस्ती मामुपतिष्ठते ॥ ५२२ ॥ इत्यनल्पविकल्पैः स यन्त्रान् नासज्जयत् तदा । दुर्गे स्वर्ग इवासीन उदासीनोऽकुतोभयः ॥ ५२३ ॥ कुन्ततोमरशक्त्याद्यैः पूर्णेष्वट्टालकेष्वपि । विलेभे न भटवातं निजभाग्यकदर्शितः ॥ ५२४ ॥ श्रीमान् कुमारपालोऽपि ज्ञात्वेति प्रणिधित्रजैः । अनीकिनीं निजां दानमानाद्यैः समपूजयत् ॥ ५२५ ॥ गजानां प्रतिमानानि शृङ्खलान् मुकुरांस्तथा । अश्वानां कविका वल्गा दाम - पल्ययनानि च ॥ ५२६ ॥ रथानां किंकिणीजालचक्राङ्गयुगशम्बिकाः । योधानां हस्तिका - वीरवलयानि च चन्द्रकान् ॥ ५२७ ॥ सुवर्णरत्न माणिक्यसूचीमुखमयान्यपि । चतुरङ्गेऽपि सैन्येऽसौ भूषणानि ददौ मुदा ॥ ५२८ ॥ - विशेषकम् | 10 रोहणद्रुमकर्पूर कश्मीरजविलेपनैः । स्वयं विलिप्य वक्राणि भटानां पटुताभृताम् ॥ ५२९ ॥ सहस्रपत्रचांपेयजातीविचिकिलस्रजः । कामं धम्मिल्लमालासु बबन्ध स्वयमीशिता ॥ ५३० ॥ - युग्मम् | हेमन्तसितपत्राभैः शातकुम्भसमैरसौ । स्कन्धानभ्यर्चयद् योधप्रधानानां प्रमोदतः ॥ ५३१ ॥ सान्धकारे निशीथे च राजा तेजः प्रतापभूः । तानुत्साह्य सुधासंधीचीभिर्वचनवीचिभिः ।। ५३२ ॥ चचाल संमदोत्तालकलकेलिकुलावनिः । अतूर्यवऋनिर्घोषं रहो योगीव निध्वनिः ॥ ५३३ ॥ पर्वताधित्यकाभूमिं गत्वा तूर्यरवान् समम् । व्यस्तारयत् तथा चक्रे भूपः सूकरिकास्तथा ॥ ५३४ ॥ तदा च वाग्भटामात्यस्तेनादिष्टः समानय । आप्रभातात् पंचशतीमार्द्राणां सैरिभत्वचाम् ॥ ५३५ ॥ तेनानीताश्च ताः संवर्मिणोऽथ रथमण्डपः । खंडीः प्रपातयामासुस्तन्मध्यस्था भटोत्कटाः ॥ ५३६ ॥ एके च दशनैः खड्गान्युत्पाट्यारुरुहुर्द्वतम् । प्राकारकपिशीर्षाणि तच्छीर्षाणीव विक्रमात् ॥ ५३७ ॥ व्यद्रवन्नथ तेऽन्तस्था विहिते संप्रसारणे । ह्रस्वीकृताः कुमारेण भूपेनाख्यातवेदिना ॥ ५३८ ॥ विवृत्य गोपुरद्वारं बहिर्निरसरत् प्रगे । अर्णोराजोऽपि तत्राजौ स्वजीवे विगतस्पृहः ॥ ५३९ ॥ बाद्यमानेषु संग्रामतूर्येषु प्रतिशब्दितैः । शब्दाद्वैतं बभूवात्र पक्षयोरुभयोरपि ॥ ५४० ॥ कातराणां तदा तत्र देहान्नाशाक्षमानिव । परित्यज्य ययुः प्राणाः पातालं शरणार्थिनः ५४१ ॥ ततः प्रववृते युद्धं खड्गाखड्गि शराशरि । बाहूबाहवि सर्वत्रादृश्यमानजनास्यकम् ॥ ५४२ ॥ शूरसंक्रान्तिकाले च भूधरा अस्मया इव । बहुशः खण्ड्यमानाङ्गा अदृश्यन्त गजेश्वराः ॥ ५४३ ॥ पक्ककूष्माण्डकानीवाखण्ड्यन्तात्र तुरङ्गमाः । शालिपर्पटवद्रध्याः समचूर्यन्त निर्भरम् ॥ ५४४ ॥ परिपक्त्रिमकालिङ्गवत् पत्तिजठरावलिः । पाटिता तत्र कालेयप्लीहफुप्फुससंकुलाः || ५४५ ॥ विचेरुर्गगने गृधा नूनं मांसाभिलाषुकाः । विमानस्थाप्सरो दूता इव प्राणेशसङ्गमे ॥ ५४६ ॥ इत्येवमन्वय ख्यातिनामोघट्टनपूर्वकम् । युद्धे भवति शान्तासु धूलीषु मदवारिभिः ।। ५४७ ॥ पट्टवारणयोस्तत्र दन्तादन्ति विलग्नयोः । दृष्टचारुभटो राज्ञाऽरिनिषादितया स्थितः ॥ ५४८ ॥ श्यामलाधोरणस्तत्र हस्तिहक्काभयापहृत् । उत्कील्याच्छपटीं द्विः स कृत्वा तस्य श्रुती प्यधात् ॥५४९॥ ततश्चारुभटो गर्वाद्धस्तिदन्ते पदं दधौ । यत् कियान् प्रतिमातङ्ग इति चेतसि चिन्तयन् ।। ५५० ॥ पक्षयोर्गुर्जरेशोऽपि लोचने संन्यवीविशत् । बलं विघटितं सर्वं महाधरमुखं तदा ॥ ५५१ ॥
1 N संवम्मिंणोघरघमं । 2 N B मध्ये तु । 3 N कृतः । 4 N देह नाशाक्षमानि च । 5A पिधात् ।
प्र० २६
5
15
20
25
30