________________
२०२
प्रभावकचरिते
10
15
शङ्कितेन तदाऽजल्पि शामल ! त्वमपीह किम् । भेदितो वारणं पश्चाद् व्यावर्त्तयसि यत्सखे !॥५५२॥ स प्राह नाथ ! नो शंक्यं स्वप्नेऽपि त्रयभेदनम् । निषादी श्यामलः स्वामी गजः कलभकेसरी ॥५५३ ॥ पश्चात्क्रमैर्गतो नीचैस्ततः प्रतिगजात् पतन् । शत्रुराज्यस्य सर्वस्खं ग्राह्यश्चारुभटस्त्वया ॥ ५५४ ॥ यावदेवं वदत्येष तावद्विघटितौ रदौ । अन्तर्द्वयोर्जवात् तत्रापतत् स्वस्वामितेजसा ॥ ५५५ ॥ जगृहे तलवर्गीयैः सुभटैः संयतश्च सः। अर्णोराजश्च राज्ञापि कुन्तेन निहतोऽलिके ॥ ५५६ ॥ प्रणाशाभिमुखः कांदिशीकश्वारुभट विना । व्यावर्त्तयद् गजं सेनाप्यस्य व्याजुघुटे ततः ॥ ५५७ ॥ जितं जितमिति प्रोच्य पटमभ्रमयत् प्रभुः । मन्यमानश्च राजानं स्वं तदा विक्रमोर्जितात् ॥ ५५८ ॥ सामन्ताश्चाययुः सर्वे मंक्षु तं पर्यवारयन् । जितो भवद्भिरेवासावित्यावर्जयदत्र तान् ॥ ५५९ ॥ देशः कोशश्च लुण्टाकैस्तस्य सेनाप्यलुण्ट्यत । सुलूषणाः सत्त्वहीना युद्धे पृष्ठप्रदायिनः ॥ ५६० ॥ ततश्चमूचराः सर्वे तदीयद्रविणैर्घनैः । स्वयं ग्रहणतोऽतृप्यन्नासप्तपुरुषावधि ॥ ५६१ ॥
जितकाशी ततो भूपो न्यवर्तत पुरं प्रति । यच्छन् यथार्थनं दानमर्थिभ्यः कल्पवृक्षवत् ॥ ५६२ ॥ १८. अष्टादशशतीदेशप्रख्यपत्तनमासदत् । पूर्ववत् वृत्तमत्युग्रं तदीशस्याप्यबुध्यत'। ५६३ ।।
नृपतिर्विजये सौविदल्लान् मल्लानथादिशत् । ततो निमन्त्रणायातः पश्चाद्वाहुयययत ॥ ५६४ ॥ प्रेष्य प्रेष्यान् निजांस्तस्य मन्दिरं मन्दुरावरम् । अज्वालयत् क्षणादेव यथाभवदसत्सदृक् ॥ ५६५ ॥ शकटेऽनास्तृते क्षिप्तः स्वस्थानाञ्चालिताङ्गकः । हुंकारेऽप्यन लंभूष्णुः सोऽभूत् का वचने कथा ॥५६६ ।। नात्तारेषु पाषाणोद्घाटसंकटभूमिषु । अभूदमृग्विलिप्ताक्षः स षट्कारस्फुरच्छिराः ॥ ५६७ ॥ परमारान्वये राजपुत्रैरुत्तार्य भूपतिः । सम्यक्प्रणम्य विज्ञप्तोऽन्वमन्यत तृणास्तृतिम् ॥ ५६८ ॥ मञ्चातिमश्चकलितमुत्तुङ्गकृततोरणम् । अणहिल्लपुरं प्राप मापः प्राप्तजयोदयः॥ ५६९ ॥ महोत्सवे प्रवेशस्य गजारूढः सुरेन्द्रवत् । वाग्भटस्य विहारं स ददृशे दररसायणम् ॥ ५७० ॥ तत्र प्रविश्य श्रीमन्तमजितस्वामिनं नृपः । आर्चयत् सुरभिद्रव्यैरत्यासन्नोपकारिणम् ॥ ५७१ ॥ श्रीपार्श्वमथ च स्मृत्वा संपूज्य च ततोऽवदत् । प्रागुक्तं यन्मया नाथ ! तत्तथैवावधार्यताम् ॥ ५७२ ॥ ततः प्रणम्य सोत्कण्ठं कण्ठीरववरासने । पट्टकुञ्जरकुम्भस्थे स्थितोऽगाद् भूभृदालयम् ॥ ५७३ ॥ गोत्रवृद्धाङ्गनावर्गसङ्गीतस्फुटमङ्गलः । प्रतीच्छन् शिरसा वर्धापनान्यनुबभूव सः॥ ५७४ ॥ ततो विक्रमसिंहस्य स्थाने सन्धीनिवेश्य च । आनाय्यानतिदूरे तं भूपालः प्राह सस्मितः ॥ ५७५ ।। भो विक्रमाग्नियत्रेण भूपाला एव पञ्चताम् । प्रायान्ति नैव सामन्ता इति त्वं केन शिक्षितः॥५७६ ॥ तत्रैव यद्यहं त्वां भो! वह्नौ होता ततो भवान् । भस्मीभूतः क दृश्येत सपुत्रपशुबान्धवः ॥ ५७७ ॥ यादृशाश्च भवन्तः स्युर्गृहकर्मकरा मम । मलिना न वयं नाथास्तादृशास्तदसून वह ॥ ५७८ ॥ अक्षेपि बंदिशालायां ततोऽसौ निजकर्मतः । इह लोके हि भोज्यन्ते राजभिस्तामसास्तमः ॥ ५७९ ॥ तथा श्रीरामदेवाख्य'तद्भातुर्नन्दनं नृपः । श्रीयशोधवलं चन्द्रावत्यामेप न्यवीविशत् ॥ ५८० ।।
20
24
30 ६१९. अन्येधुर्वाग्भटामात्यं धर्मात्यन्तिकवासनः । अपृच्छदार्हताचारोपदेष्टारं गुरुं नृपः ॥ ५८१ ॥
सूरेः श्रीहेमचन्द्रस्य गुणगौरवसौरभम् । आख्यदक्षामविद्यौघमध्यामोपशमश्रियम् ॥ ५८२ ॥ शीघ्रमाहूयतामुक्तो राज्ञा वाग्भटमत्रिणा । राजवेश्मन्यनीयन्त सूरयो बहुमानतः ॥ ५८३ ॥
1N प्यबुध्य ते। 2N B सकृत् । 3 N शाकटेनासति । 4 N हुंकारेणान°1 5N बमुन्मत्तनृणां स्तुतिम् । 6N तां भूपालं। 7N रामदेवाख्यं । 8N °शमाश्रयम् ।