________________
२२. हेमचन्द्रसूरिचरितम् । अभ्युत्थाय महीशेन ते दत्तासन्युपाविशन् । राजाह सुगुरो ! धर्म दिश जैनं तमोहरम् ॥५८४ ॥ अथ तं च दयामूलमाचख्यौ स मुनीश्वरः । असत्यस्तेनवाब्रह्मपरिग्रहविवर्जनम् ॥ ५८५ ॥ निशाभोजनमुक्तिश्च मांसाहारस्य हेयता । श्रुति-स्मृति-स्वसिद्धान्तनियामकशतैर्दृढा ॥ ५८६ ॥
उक्तं च योगशास्त्रेचिखादिषति यो मांसं प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ ५८७॥ अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली स रोपयितुमिच्छति ॥ ५८८॥ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥ ५८९ ॥ 'अनुमन्ता विशसिता नियन्ता क्रयविक्रयी । संस्कर्ता चोपहत्तों च खादकश्चेति घातकाः' ॥ ५९० ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः खर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ५९१ ।। इत्यादिसर्वहेयानां परित्यागमुपादिशत् । तथेति प्रतिजग्राह तेषां च नियमान् नृपः ॥ ५९२ ॥ श्रीचैत्यवन्दनस्तोत्रस्तुतिमुख्यमधीतवान् । वन्दनक्षामणालोचप्रतिक्रमणकान्यपि ॥ ५९३ ॥ प्रत्याख्यानानि सर्वाणि तथा गाथाविचारकाः । नित्यं ब्यशनमाधत्त पर्वखेकाशनं तथा ॥ ५९४ ॥ स्नानाचारप्रकारं चारात्रिकस्याप्यशिक्षत । जैनं विधि समभ्यस्य चिरश्रावकवद् बभौ ॥ ५९५ ॥ प्राक्कृते चामिषाहारे परमानुशयं गतः । उवाचावाच्यमेतन्मे पातकं स्वभ्रपातकम् ॥ ५९६ ॥ निक्रयोऽस्याहसो नास्ति पुनरेतद् ब्रवीम्यहम् । अपराधी निगृह्येत राजनीतेरिति स्थितिः ॥ ५९७ ॥ 20 दशनान् पातयाम्यद्य मांसाहारापराधिनः । सर्वत्र सहते कर्ता दृष्टमित्थं स्मृतावपि ॥ ५९८ ॥ गुरुराह महाराज ! रूढं स्थूलमिदं वचः । सकृदेहापदा न स्यान्निःकृतिः कृतकर्मणः ॥ ५९९ ॥ तत आहेतधर्मेच्छापवित्रितमना भवान् । प्रवर्त्ततां तथा पङ्कः समस्तः क्षाल्यते यथा ॥ ६००॥ . दन्ता द्वात्रिंशतः पाप्ममोक्षाय त्वं विधापय । द्वात्रिंशतं विहाराणां हाराणामिव तेऽवनेः ॥ ६०१॥ निजवप्नुस्त्रिभुवनपालस्य सुकृताय च । मेरुशृङ्गोन्नतं चैत्यं श्रीजैनेन्द्रं विधापय ॥ ६०२॥ 25 अथाह मेदिनीपालः सुरीतिरियमुज्वला । भवकान्तारनिस्तार एतदेव च शम्बलम् ॥ ६०३ ॥ अथो परमया भक्त्या प्राहिणोत् प्रभुमालये । अपरेधुश्च संप्राप वाग्भटस्य जिनालयम् ।। ६०४ ॥ तत्रायातस्य भूपस्य ययौ नेपालदेशतः । श्रीबिम्बमेकविंशत्यङ्गुलं चान्द्रमणीमयम् ॥ ६०५ ॥ 'प्राभृतेऽप्रावृते तत्र मूर्ते चिन्तामणाविव । सर्वतो व्यकसद् राजा पूर्णमासीनिशीथवत् ॥ ६०६ ।। ततो मत्रिणमाकार्य प्रसाद विशदाननः । कुत्राप्यमात्य ! कार्येऽहमधमों भवामि वः ॥ ६०७ ॥ 30 इत्याकये स च प्राह प्राणाः स्वामिवशा मम । परिच्छदो धनं भूमिरास्था कान्येषु वस्तुषु ॥६०८॥ राजाह प्राञ्जलिर्याचे प्रासादो मे प्रदीयताम् । सनाथं करवै मित्र ! यथा प्रतिमयानया ॥ ६०९ ॥ महाप्रसादो मे नाथ! भवत्वेवं धृतिर्मम । श्री कुमारविहारोऽतः परं स्वाम्याख्ययाऽस्तु तत् ॥६१०॥
1A मनोहरम् । 2N सकृद्दे हापदां स्यान्निः। 3 N मनाऽभवत् ; B°भवन् । 40 ते वने। 5D प्रावृते।