________________
5
10
15
20
25
30
२०४
प्रभावकचरिते
२०. किञ्चिच्च स्वामिने विज्ञपये तदवधार्यताम् । श्रीकीर्तिपालतः पित्रा सन्दिष्टं मम यद्वचः ॥ ६११ ॥ श्रीशत्रुञ्जयतीर्थस्य प्रासादः श्रेयसे मम । जीर्णशीर्णस्त्वयोद्धार्य इति मे कृत्यमस्त्यदः ॥ ६१२ ॥ प्रभुपादैस्तथादिष्टं यात्रायाः प्रक्रमे तदा । देवतास्मृतिवेलायां कीर्तिपालप्रतिश्रुतात् ॥ ६१३ ॥ अस्मत्कोशधनं लात्वा कार्या चैत्योद्धृतिस्त्वया । स आदेशो ममास्तु स्वैः पितुरानृण्यहेतवे ।। ६१४ ॥ श्रुत्वेत्याह नृपोऽस्माकं कार्येऽस्मिन् सोदरादरात् । एवमप्यस्त्वनुल्लंघ्यवचनस्त्वं हि नः सखे ॥ ६१५ ॥ स्वामिन्! महाप्रसादोऽयमित्युक्त्वा तत्र धीसखः । विमलाद्रौ ययौ श्रेष्ठिव्या पारिपरिवारितः ॥ ६१६ ॥ तत्र तीर्थे प्रभुं नत्वा नाभेयं भक्तिनिर्भरः । गुरूदरान् प्रदाप्यास्थात् प्रतिसीराश्च सर्वतः ॥ ६१७ ॥ विमानकानि 'मंचांच प्रादात् करभिकास्तथा । वाटिकानि चतुष्पाटी: पट्टशाटकमण्डिताः ॥ ६१८ ॥ चञ्चच्चतुरकांश्चापि स्वर्विमानोपमद्युतीन् । अनेकभट सङ्घातसङ्कीर्णीकृत पर्वतान् ॥ ६१९ ॥ - विशेषकम् । तत्र चैको वणिक् प्रत्यासन्नग्रामात् समागतः । निधिर्दोस्थ्यस्य ' घृष्टातिपटच्चरयुगं दधत् ॥ ६२० ॥ षट्द्रम्मनी विकस्तैश्च क्रीताज्यकुतपं वहन् । कटके ग्राहकव्यूहबाहल्याद् रूपकाधिकम् ॥ ६२१ ॥ द्रम्मं स चार्जयित्वाऽतितुष्टः श्रीवृषभप्रभुम् । कुसुमै रूपकक्रीतैः पूजयामास भक्तितः ।। ६२२ ।। सप्त द्रम्मान् सप्त लक्षानिव ग्रन्थौ वहन् मुदा । वीक्षकः सचिवाधीशं तत्कंदीद्वार मागमत् ॥ ६२३ ॥ ददृशे तेन मन्त्रीन्दुरीषज्जवनिकान्तरात् । कूर्मेनेव हृदे बद्धजालशेवालरन्ध्रतः ॥ ६२४ ॥ स व्यमृक्षत् प्राच्यपुण्य-पापयोरेतदन्तरम् । पुरुषत्वे समेऽमुष्य मम चानीदृगाकृतिः ॥ ६२५ ॥ स्वर्णमौक्तिकमाणिक्याभरणांशुदुरीक्ष्यरुक् । व्यापारि व्यवहार्यत्रजीवि व्रातपरिच्छदः ॥ ६२६ ॥ चक्रीव मुकुटाबद्धमण्डलाभ्यर्चितक्रमः । श्रीनाभेय महातीर्थजीर्णोद्धारमनोरथः ॥ ६२७ ॥ अहं तु स्वगृहिण्याप्यभिभूतो निर्धनत्वतः । सन्ध्यावध्यपि सन्दिग्धाहारप्राप्तिर्मुधाश्रमः ॥ ६२८ ॥ कुतपोद्वहनक्लिष्टशिरा आशैशवादपि । एकरूपकलाभेन धन्यंमन्यो दिनं प्रति ॥ ६२९ ॥ एवं विचिन्तयन् द्वारपालेन परतः कृतः । श्रीमद्वाग्भटदेवेन मन्त्रिणादर्शि दैवतः ॥ ६३० ॥ वणिगाहूयतामेषेत्युक्ते स द्वारपालकः । दूरप्रयातमपि तमाह्वास्तादेशतः प्रभोः ॥ ६३१॥ तत्पुरः पर्षदन्तः स ऊर्ध्वोऽस्थात् स्थाणुवत् स्थिरः । अनभिज्ञः प्रणामादौ ग्रामणीत्वाद् ऋजुस्थितिः॥६३२॥ कस्त्वमित्युक्तिभाजि श्रीमत्रिणि प्रकटाक्षरम् । प्रागुक्तनिजवृत्तं स आख्यदक्षामदुःखभृत् ॥ ६३३ ॥ मनीश्वरः 'पुनः प्राह धन्यस्त्वं क्लेशतोऽर्जितम् । यद्रूपकं व्ययित्वाच श्रीजिनस्य समाचरः || ६३४ ॥ इत्युक्त्वा स करे धृत्वा स्वार्द्धासनि निवेशितः । धर्म्मबन्धुर्भवान् मे तत् कार्य्यं किंचिद् ब्रवीहि भोः!।।६३५॥ सोऽस्य प्रभोः प्रियैर्वाक्यैः प्रीणितोऽचिन्तयन्मुदा । संप्रापितः परां कोटिमनेना किञ्चनोऽप्यहम् ॥ ६३६ ॥ तदा साधर्मिकास्तत्र व्यवहारिनियोगिनः । इष्टे तीर्थसमुद्धारेऽनन्त' पुण्यभरार्थिनः ॥ ६३७ ॥ वहिकां मण्डयामासुर्द्रव्यमीलनिकाकृते । प्राग्मत्रिणस्ततो ज्येष्ठानुक्रमादभिधा व्यधुः ॥ ६३८ ॥ दृष्ट्वा नामान्यसौ दध्यौ चेद् द्रम्माः सप्त मामकाः । कार्येऽस्मिन्नपकुर्वन्ति तत्र धन्यो मया समः ॥६३९॥ वक्तुकामोऽसि किञ्चित् किमित्युक्ते मन्त्रिणा स च । प्राह सप्त गृहीत्वाऽमून् द्रम्मान् प्रीणय मां प्रभो ! ॥ ६४० ॥ तदाचारात् परानन्दमेदुरः सचिवोऽवदत् । त्वं मे धर्मसुहृद् भ्रातस्तत्तानर्पय सत्वरम् ॥ ६४१ ॥ श्रीतीर्थजीर्णोद्धारस्य निष्पत्त्याशाऽद्य मेऽभवत् । नीवीं जीवितवत्स्वीयां यदक्केशत्वमव्ययः ॥ ६४२ ॥ वहिकादौ च तन्नाम लिखित्वाऽथ निजाभिधाम् । अधस्तस्य ततो नामान्यन्येषां धनशालिनाम् ॥ ६४३ ॥
I
1 A D विमानकामिमं चा । 2 A पृष्टाति° । 3N मंत्रीश्वरं प्रति । 4 N नंतपुण्य° । 5 N ●मित्युक्तो ।