________________
२२. हेमचन्द्रसूरिचरितम् ।
२०५
10
1
वयं तु कोटिसंख्यस्य द्रव्यस्य खरकर्मभिः । उपात्तस्य व्यये 'तन्द्राभृतोऽन्यधनमिच्छवः ॥ ६४४ ॥ स्वकीयकोषादाहार्षीत् ततः पट्टांशुकत्रयम् । द्रम्मपञ्चशतीं चैवं प्रातद्धि गृहाण भोः ! ॥ ६४५ ॥ मन्त्रीशेन स चेत्युक्तः स्मित्वाऽवादीदसौ वणिक् । न विक्रीणे ध्रुवं पुण्यमस्थिरद्रव्यलेशतः ॥ ६४६ ॥ भवन्तः स्वामिनः प्राच्यपुण्यसम्पन्नवैभवाः । कुर्वन्तः किं न लज्जन्ते मादृशां विप्रलम्भनम् ॥ ६४७ ॥ इत्याकर्ण्योद्धुषद्रोमा मन्त्रीन्दुः प्राह वाणिजम् । मत्तो धन्यस्त्वमेवासि यस्येदृग् निःस्पृहं मनः ॥ ६४८ ॥ ॐ ततः केलिमपूगैः सपत्रैर्नागरखण्डकैः । बीटकं प्रददावस्य कर्पूरपरिपूरितम् || ६४९॥ तद् गृहीत्वा स सम्मानपूरितः स्वं गृहं ययौ । गेहिन्या बिभ्यद्भ्यस्तदुर्वाक्यालीकुलक्षितेः ॥ ६५० ॥ अकस्मात् सा च तं स्वादुवचनैः पर्यंतोषयत् । आजन्मादृष्टपूर्वं तद् दृष्ट्वा विस्मयमाप सः ॥ ६५१ ॥ तेनोक्ते च यथावृत्ते साऽवादीत् पारितोषिकम् । यन्न त्वया गृहीतं तन्निर्वृतिं मे व्यधाद् घनम् ॥ ६५२ ॥ यदि त्वं मन्त्रिणः पार्श्वे लोहटंकार्धमप्यहो । अग्रहीष्यत् ततो नाहमस्थास्यं त्वद्गृहे ध्रुवम् ॥ ६५३ ॥ 'वेनुयोग्यं ततः स्थाणुं थं गाढं कुरुष्व तत् । तयेत्युक्तः कुशीं प्रार्थ्यं दरमन्त्राखनत् ततः ।। ६५४ ॥ खाते चाल्पे खनित्रं च खटत्कृतमतः स तु । भार्यामाकार्य कथयामास सा च ततोऽवदत् ॥ ६५५ ॥ रात्रौ निर्व्यञ्जने किंचिद्विधेयं नतु सांप्रतम् । वेलां विलम्ब्य तत्तस्मात्तदाऽकृष्यत यत्नतः ॥ ६५६ ॥ चत्वारि हैमटकानां सहस्राणि स चासदत् । अल्पाया अपि पूजायाः फलमेतज्जिनेशितुः ।। ६५७ ॥ अर्पयिष्याम्यहं मत्रिवाग्भटस्य धनं ह्यदः । ईदृशि व्ययितं तीर्थे तद्धि कोटिगुणं भवेत् ॥ ६५८ ॥ पत्न्याप्यनुमतः प्रातर्गिरिमारुह्य मत्रिणम् । वीक्ष्य तद्दर्शयामास गृह्णीतेत्यवदश्ञ्च तम् ॥ ६५९ ॥ श्रुत्वेति धीसखस्वामी प्राह मद्वचनं शृणु । सत्त्वात्ते सप्तभिर्ब्रम्मैः पूर्णो मम मनोरथः ॥ ६६० ॥ अतः परं भवद्द्रव्यं ग्रहीतुं नाहमीशिता । अनेन भविता यस्मात् सौवर्णः सकलो गिरिः ॥ ६६१ ॥ अभिसन्धिर्न मे सोऽस्ति तत् स्वं द्रव्यं यथारुचि । व्यय वर्धय भुंक्ष्वाथ धर्मे वाऽऽधेहि शीघ्रतः ॥६६२॥ स प्राह कुतपोद्वाहभाग्यस्य कनकं किमु । स्थाता मे निलये तत्कः क्लेशोऽङ्गीक्रियतेऽस्य तु ॥ ६६३ ॥ भवान् यथातथाकर्तुमिमं शक्तः प्रभुत्वतः । तत्प्रसद्य गृहाणेदं तुष्टोऽस्तु कुतपो मम ॥ ६६४ ।। प्राह मत्री ततो द्रव्यं न गृह्णामि निरर्थकम् । एनं भारं न वोढाऽस्मि वाहीक इव दुर्वहम् ।। ६६५ ॥ एवं विवदतोर्मन्त्रि-वणिजोर्दिनमत्यगात् । रात्रौ च श्रीकपर्दीशः साक्षाद् वाणिजमभ्यधात् ॥ ६६६ ॥ . श्रीयुगादिप्रभो रूपका चतुष्टो धनं ह्यदः । अहं प्रादर्शयं ते तत् त्वं व्ययस्व निजेच्छया ।। ६६७ ॥ क्षयं यास्यति नैवैतद् दानभोगैर्धनैरपि । अन्यस्येदं हि नाधीनमत्रान्यन्मा विचार्यताम् ।। ६६८ ।। अत्र चैतदभिज्ञानं त्वत्पत्नी दुर्मुखाऽप्यलम् । अकस्मात् प्रियवाक्याऽभूद् भक्तिप्रह्वा च विद्धि तत्॥६६९॥ इदं समीक्ष्य च प्रातः श्रीनाभेयप्रभुं स च । सुवर्णरत्नपुष्पाद्यैस्तद्ध्यानः समपूजयत् ॥ ६७० ॥ अभ्यर्च्य श्रीकपर्दीशं ततः स्वगृहमागमत् । स्वकृतैः सुकृतैर्जन्म पवित्रं व्यतनोत्तराम् ॥ ६७१ ॥ श्रीमद्वाग्भटदेवोऽपि जीर्णोद्धारमकारयत् । सदेवकुलिकस्यास्य प्रासादस्यातिभक्तितः ॥ ६७२ ॥ घनद्रव्यव्ययाचिन्तावशादक्षेपतस्तदा । पर्यपूर्यन्त कुम्भश्चात्रारुरोह मुदा सह ॥ ६७३ ॥
शिखीन्दुरविवर्षे च ( १२१३ ) ध्वजारोपे व्यधापयत् ।
'प्रतिष्ठां सप्रतिष्ठां स श्रीहेमचन्द्रसूरिभिः || ६७४ ॥
*
1 N तं प्राभृतो° । 2 N निर्वृतं । 3N श्लाध्यं । 4 N स्थातामेकन के । 5 N पर्यपूर्यंत ककुभाश्चारुरोह । 6 N प्रतिमां ।
15
20
25
30