Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 204
________________ २१. वादिदेवसूरिचरितम् । १८१ तत्र प्रतिविधौ शक्तिर्मम पूज्यप्रसादतः । सौवीरपूर्ण आनायि कुम्भो यतित एकतः ॥ २५७ ॥ गलपिण्डनतः कण्ठं तस्य बद्धाऽन्तराऽमुचन् । अभिमत्र्य ततः साधूनाह सर्वत्र साहसी ॥ २५८ ॥ खेदं कमपि मा कार्युभवन्तः कौतुकं महत् । समीक्षत यदेतेषां 'भावि दुर्विनये फलम् ॥ २५९ ॥ पादोनप्रहरे श्राद्धा नमस्याजग्मुरानताः । प्रसादाद् गुरुमस्माकं मुञ्चैनमिति 'भाषिणः ॥ २६० ॥ मद्वन्धोः का भवेद् बाधा न जानीमो वयं नर्नु । अज्ञानदम्भतः सर्वप्रकारैस्ते निषेधिताः ।। २६१ ॥5 सार्द्धयामे च संपूर्णे ननाचार्यस्तदागमत् । नग्नाचार्य इवाहार्यः प्रशंसां प्रकटं दधत् ॥ २६२ ॥ आश्लिष्यार्द्धासने सूरिरुपावेशयदत्र तम् । भ्रातः ! का तव पीडाऽस्ति ममाज्ञातमिदं ध्रुवम् ॥ २६३ ॥ स प्राह छिन्धि मा त्वं मां भव मा दीर्घरोषभूः । विमोचय निरोधं मे तन्निरोघे मृतिर्बुवम् ॥ २६४ ॥ तस्यैतद् वचनं दीनं श्रुत्वाऽवददसौ प्रभुः । भवान् सपरिवारोऽपि यातु मे वसतेर्बहिः ॥ २६५ ॥ तदादेशेन ते द्वारे स्थिता 'आध्माततुन्दकाः । लुलाया इव संपूर्णतिम्यदङ्गास्तदा बभुः ॥ २६६ ॥ 10 साधोः पार्थात् समानाय्य कुम्भं सौवीरपूरितम् । आच्छोटयन्मुखं तेषां सञ्जज्ञे मुत्कलः श्रवः ॥ २६७ ॥ अनिरोधे निरोधे सत्यसपत्राकृताच* ते । नृजलस्य प्रवाहेण जनः सर्वोऽपि विस्मितः ॥ २६८॥ अहितोऽपि भृशं शोकतप्तस्तस्मात् पराभवात् । ययौ कुमुदचन्द्रोऽयमदृश्यत्वममाविव ॥ २६९ ॥ तुष्टिदानं ददानस्य राज्ञः सूरेरगृहृतः । आशुकोऽन्दे' गते मत्री राज्यारामशुकोऽब्रवीत् ॥ २७० ॥ देवैषां निःस्पृहाणां न धनेच्छा तजिनालयः । विधाप्यते यथामीषां पुण्यं तव च वर्धते ॥ २७१ ॥ 15 भवत्वेवं नृपप्रोक्ते मश्री चैत्यमकारयत् । खेन तेनेतरेणापि स्वामिनाऽनुमतेन सः॥ २७२ ॥ दिनस्तोकं च संपूर्णः प्रासादोऽभ्रंलिहो महान् । मेरुचूलोपमः स्वर्णरत्नकुम्भध्वजालिभिः ॥ २७३ ॥ श्रीनाभेयविभोर्बिम्ब पित्तलामयमद्भुतम् । दृशामगोचरं रोचिःपूरतः सूर्य बिम्बवत् ॥ २७४ ॥ अनलाष्टशिवे वर्षे (११८३) वैशाखद्वादशीनिशि । प्रतिष्ठा विदधे तत्र चतुर्भिः सूरिभिस्तदा ॥ २७५ ॥ 20 एवं प्रभावनापूरप्लाविते धर्मिणां हृदि । क्षेत्रे वपन् बोधिवीजं चिरं च व्यहरत् प्रभुः ॥ २७६ ॥ ६१२. अन्यदा ब्रजतोऽरण्ये नाम्ना पिप्पलवाटके । शार्दूलं गुरुशार्दूलो रेखया स न्यषेधयत् ॥ २७७ ॥ बालवृद्धाकुलो गच्छो विहारे प्रान्तरावनौ । क्षुधादिबाधया तत्र क्लिष्टो दुःप्रतिकारया ॥ २७८ ॥ . तदीयचिन्तामात्रेण सार्थेऽकस्मादुपागते । प्रासुकैर्भक्तपानैस्तद्भव्यास्तं प्रत्यलाभयन् ॥ २७९ ॥-युग्मम् । स्या द्वाद पूर्वकं रत्नाकरं स्वादुवचोऽमृतम् । प्रमेयशतरत्नाढ्यममुक्तं स किल श्रिया ॥ २८० ॥ 25 पीतान् दृष्ट्वा पुरा कुम्भोद्भवेनाम्भोनिधीनिह । परवादिघटोद्भूतशतागम्यं व्यधान्नवम् ।। २८१ ।।-युग्मम् । इति श्रीदेवसूरीणामसंख्यातिशयस्पृशाम् । वर्षाणां व्यधिकाशीतिरत्यक्रामदतन्द्रिणाम् ॥ २८२ ।। श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते । जैनप्रभावनास्थेमनिस्तुपश्रेयसि स्थिताः ॥ २८३ ।। रसयुग्मरवौ वर्षे (१२२६) श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराह्ने गुरोदिने ॥ २८४ ॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरंदरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ २८५ ॥-त्रिभिर्विशेषकम् । 30 1 N मावि। 2 D न तु। 3N बत। 4 D आध्मान। 5N संपूर्णेतिम्पदंगा। * 'सपत्राकृति निःपत्राकृती खत्रतपीडने।' इति D टिप्पणी। 6N 'ममास्थि च। 7N आशुकोष्ठे। 8 N तिथौ। 9N रेखायातं ।

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252