Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
२२. हेमचन्द्रसूरिचरितम् ।
३३१ ॥ ३३२ ॥
5
नृपतिः प्राह जाने श्रीहेमचन्द्रोपदेशतः । उज्जयन्तमहातीर्थं श्रीनेमिस्तत्र तीर्थकृत् ॥ जगत्पूज्यः कृतिर्मेऽस्तु कथमेषेति संशये । श्रुत्वेत्यमात्य आह स्मावधानादवधार्य्यताम् ॥ अद्य प्राग् नवमे वर्षे स्वामिनाऽधिकृतः कृतः । आरुरोह गिरिं जीर्णमद्राक्षं च जिनालयम् ॥ ३३३ ॥ प्रतिवर्षं त्रिलक्षीँ' च व्ययित्वा चैत्यमुद्धृतम् । स्वामिपादैरनुमतं चेत् प्रमाणमिदं न चेत् ॥ ३३४ ॥ सप्तविंशतिलक्षांश्च द्रम्मान् गृह्णातु भूपतिः । इत्याकर्ण्य प्रभुः प्राह पुलको दमेदुरः ॥ ३३५ ॥ कथमुक्तमिदं मन्त्रिन् ! तुच्छं द्रव्यादशाश्वतात् । वपुः स्थिरं ममाकार्षीः पुण्यं कीर्तिमयं महत् ॥ ३३६ ॥ त्वत्समः स्वजनः कोऽस्ति ममेह - परलोकयोः । सखा विषीद मा तस्मादस्मिन्नारुह्यते ततः ॥ वचोऽनुपदमीशश्चाधित्यकायां ययौ गिरेः । मण्डपे शुद्धमेदिन्यां स्थित्वाऽष्टाङ्गं नतो जिनम् ॥ पीठेष्वानीयमानेषु न्यवारयत तं जनम् । तीर्थेऽत्र नोपवेष्टव्यं परेणाप्यासनादिके ॥ ३३९ ॥ स्वापस्तल्पे विधेयो न भुक्तौ नाडुनिका तथा । स्त्रीसङ्गः सूतिकर्म्मापि न दनोऽथ विलोडनम् ॥ ३४० ॥ 10 इत्यादि सिद्धमदा वर्त्ततेऽद्यापि शाश्वती । ततोऽभ्यर्च्य जिनं स्वर्णरत्नपुष्पोत्करैर्वरैः || ३४१ ॥ ततोऽम्बाशिखरं गत्वा तां संपूज्य ननाम च । अवलोकनशृङ्गं चारुरोह स तु कौतुकी ॥ ३४२ ॥ तत्र श्रीनेमिनाथं च नत्वा भक्तिभरानतः । दिशोऽवलोकयामास तत ऊचे स चारणः ।। ३४३ ॥
१९५
३३७॥
३३८ ॥
यतः
मई नायं सीधेस जं चडिउ गिरनारसिरि ।
लईआ' च्यारु देस अलयउं' जोअइ' कर्णऊ ॥ ३४४ ॥ पर्वतादवतीर्याथ श्रीसोमेश्वरपत्तनम् । ययौ श्रीहेमचन्द्रेण सहितश्च शिवालयम् ॥ ३४५ ॥ सूरश्च तुष्टुवे तत्र परमात्मस्वरूपतः । ननाम चाविरोधो हि मुक्तेः परमकारणम् ॥ ३४६ ॥
तथा हि
यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवानेक एव भगवन्नमोऽस्तु ते ॥ ३४७ ॥ महादानानि दत्त्वा च पूजाश्व महिमाद्भुताः । व्यावृत्तः कोटिनगरं प्रापदम्बिकयादृतम् ॥ ३४८ ॥ अपत्यचिन्तयाऽऽक्रान्तोऽम्बिकामाराधयत् ततः । श्रीहेमसूरिभिर्ब्रह्ममूलावासैरिहादरात् ॥ ३४९ ॥ उपोष्य त्रिदिनीं 'ते चाह्वयंस्तां शासनामरीम् । प्रत्यक्षीभूय साऽप्याह शृणु वाचं मुने ! मम ॥ ३५० ॥ नास्यास्ति सन्ततेर्भाग्यं जीवोऽपीदृग् न पुण्यभूः । समयेऽत्र कुमारस्य भूपभ्रातृसुतस्य च ।। ३५१ ॥ 25 स भावी भूपतिः पुण्यप्रतापमहिमोर्जितः । राज्यान्तराणि जेतासौ भोक्ता च परमार्हतः || ३५२ ॥ अणहिल्लपुरं प्रायादनायासोत्सवोदयम् । अन्तर्द्वनः सुताभावप्रजापीडनशङ्कितः ॥ ३५३ ॥ १४. इतः श्रीकर्णभूपालबन्धुः क्षत्रशिरोमणिः । देवप्रसाद इत्यासीत् प्रासाद इव सम्पदाम् ॥३५४॥ तत्पुत्रः श्रीत्रिभुवनपालः पालितसद्व्रतः । कुमारपालस्तत्पुत्रो राज्यलक्षणलक्षितः ॥ ३५५ ॥ अथ श्रीसिद्धभूमीशः पुत्राशाभङ्गदुर्मनाः । आह्वाययत दैवज्ञान् परमज्ञानिसंनिभान् ॥ ३५६ ॥ ग्रहचारायसद्भाव-प्रश्नचूडामणिक्रमैः । केवलीभिश्च संवाद्य तेऽप्याचख्युः प्रभोः पुरः || ३५७ ॥ स्वामिन्! कुमारपालोऽसौ युष्मद्वन्धुसुतो ध्रुवम् । अलंकरिष्यते राज्यमनुत्वा न चलेदिदम् ॥ ३५८ ॥
•
15
1 N नृलक्ष्मीं । 2 N कोsन्यो । 8 A लइया । 4A चारू; B चारु | 5 A अलयुं; B अलिऊं । 6 A B जोइ । 7 N त्रिदिनान्ते । 8N सा प्राह । 9 N बन्धुषु तु ।
20
30
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/57142cb0fc76ec292f434c1c10207f5f8b78b2614909da319c8aacb7a997f801.jpg)
Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252